Fetching Data .

Loading verse structure and chapter context.

GyanDweepBeta
HomeLearnLibrary
eGurukulsDiscoverTemplesPanchanga
Sign Up
Sign Up

aSTottaranAma

śrīśaṅkarācāryāṣṭottaraśatanāmastotram

श्रीशङ्कराचार्याष्टोत्तरशतनामस्तोत्रम्

Verse

श्रीशङ्कराचार्यवर्यो ब्रह्मानन्दप्रदायकः । अज्ञानतिमिरादित्यस्सुज्ञानाम्बुधिचन्द्रमाः ॥१॥

Verse

वर्णाश्रमप्रतिष्ठाता श्रीमान्मुक्तिप्रदायकः । शिष्योपदेशनिरतो भक्ताभीष्टप्रदायकः ॥२॥

Verse

सूक्ष्मतत्त्वरहस्यज्ञः कार्याकार्यप्रबोधकः । ज्ञानमुद्राञ्चितकरश्-शिष्यहृत्तापहारकः ॥३॥

Verse

परिव्राजाश्रमोद्धर्ता सर्वतन्त्रस्वतन्त्रधीः । अद्वैतस्थापनाचार्यस्साक्षाच्छङ्कररूपभृत् ॥४॥

Verse

षन्मतस्थापनाचार्यस्त्रयीमार्ग प्रकाशकः । वेदवेदान्ततत्त्वज्ञो दुर्वादिमतखण्डनः ॥५॥

Verse

वैराग्यनिरतश्शान्तस्संसारार्णवतारकः । प्रसन्नवदनाम्भोजः परमार्थप्रकाशकः ॥६॥

Verse

पुराणस्मृतिसारज्ञो नित्यतृप्तो महाञ्छुचिः । नित्यानन्दो निरातङ्को निस्सङ्गो निर्मलात्मकः ॥७॥

Verse

निर्ममो निरहङ्कारो विश्ववन्द्यपदाम्बुजः । सत्त्वप्रधानस्सद्भावस्सङ्ख्यातीतगुणोज्ज्वलः ॥८॥

Verse

अनघस्सारहृदयस्सुधीसारस्वतप्रदः । सत्यात्मा पुण्यशीलश्च साङ्ख्ययोगविलक्षणः ॥९॥

Verse

तपोराशिर् महातेजो गुणत्रयविभागवित् । कलिघ्नः कालकर्मज्ञस्तमोगुणनिवारकः ॥१०॥

Verse

भगवान्भारतीजेता शारदाह्वानपण्डितः । धर्माधर्मविभावज्ञो लक्ष्यभेदप्रदर्शकः ॥११॥

Verse

नादबिन्दुकलाभिज्ञो योगिहृत्पद्मभास्करः । अतीन्द्रियज्ञाननिधिर्नित्यानित्यविवेकवान् ॥१२॥

Verse

चिदानन्दश्चिन्मयात्मा परकायप्रवेशकृत् । अमानुषचरित्राढ्यः क्षेमदायी क्षमाकरः ॥१३॥

Verse

भव्यो भद्रप्रदो भूरिमहिमा विश्वरञ्जकः । स्वप्रकाशस्सदाधारो विश्वबन्धुश्शुभोदयः ॥१४॥

Verse

विशालकीर्तिर्वागीशस्सर्वलोकहितोत्सुकः । कैलासयात्रसम्प्राप्तचन्द्रमौलिप्रपूजकः ॥१५॥

Verse

काञ्च्यां श्रीचक्रराजाख्ययन्त्रस्थापनदीक्षितः । श्रीचक्रात्मक ताटङ्क तोषिताम्बा मनोरथः ॥१६॥

Verse

ब्रह्मसूत्रोपनिषद्भाष्यादिग्रन्थकल्पकः । चतुर्दिक्चतुराम्नायप्रतिष्ठाता महामतिः ॥१७॥

Verse

द्विसप्ततिमतोच्छेत्ता सर्वदिग्विजयप्रभुः । काषायवसनोपेतो भस्मोद्धूळितविग्रहः ॥१८॥

Verse

ज्ञानात्मकैकदण्डाढ्यः कमण्डलुलसत्करः । व्याससन्दर्शनप्रीतो भगवत्पादसंज्ञकः ॥१९॥

Verse

सौन्दर्यलहरीमुख्यबहुस्तोत्रविधायकः । चतुष्षष्टिकलाभिज्ञो ब्रह्मराक्षसपोषकः ॥२०॥

Verse

श्रीमन्मण्डनमिश्राख्यस्वयम्भूजयसन्नुतः । तोटकाचार्यसम्पूज्य पद्मपादर्चिताङ्घ्रिकः ॥२१॥

Verse

हस्तामलयोगीन्द्र ब्रह्मज्ञानप्रदायकः । सुरेश्वराख्यसच्छिष्य संन्यासाश्रमदायकः ॥२२॥

Verse

निर्व्याजकरुणामूर्तिः जगत्पूज्यो जगद्गुरुः । भेरीपटहवाद्यादि-राजलक्षणलक्षितः ॥२३॥

Verse

सकृत्स्मरणसन्तुष्टः सर्वज्ञो ज्ञानदायकः । इति श्रीमच्छङ्करार्यसर्वलोकगुरोः परम् ॥२४॥

Verse

ज्ञानात्मकैकदण्डाढ्यः कमण्डलुलसत्करः । गुरुभूमण्डलाचार्यो भगवत्पादसंज्ञकः ॥१९॥

Verse

व्याससन्दर्शनप्रीतः ऋष्यशृङ्गपुरेश्वरः । सौन्दर्यलहरीमुख्यबहुस्तोत्रविधायकः ॥२०॥

Verse

चतुष्षष्टिकलाभिज्ञो ब्रह्मराक्षसपोषकः । श्रीमन्मण्डनमिश्राख्यस्वयम्भूजयसन्नुतः ॥२१॥

Verse

तोटकाचार्यसम्पूज्य पद्मपादर्चिताङ्घ्रिकः । हस्तामलयोगिन्द्र ब्रह्मज्ञानप्रदायकः ॥२२॥

Verse

सुरेश्वराख्यसच्छिष्य संन्यासाश्रमदायकः । नृसिंहभक्तस्सद्रत्नगर्भहेरम्बपूजकः ॥२३॥

Verse

व्याख्यसिंहासनाधीशो जगत्पूज्यो जगद्गुरुः । इति श्रीमच्छङ्कराचार्यसर्वलोकगुरोः परम् ॥२४॥

Verse

नाम्नामष्टोत्तरशतं भुक्तिमुक्तिफलप्रदम् । त्रिसन्ध्यं यः पठेद्भक्त्या सर्वान्कामानवाप्नुयात् ॥२५॥

Verse

इति श्रीमच्छङ्कराचार्याष्टोत्तरशतनामस्तोत्रम् ॥

vyāsāṣṭottaraśatanāmastotram
śrīśani aṣṭottaraśatanāmastotram

सा विद्या या विमुक्तये

Built with Sankalpa at Gyaandweep

Gyaandweep

© 2022-2026 Granthajyoti Pvt Ltd.

Privacy & Terms