aSTottaranAma
lakṣmyaṣṭottaraśatanāmastotram (pūrvabhāgaḥ)
लक्ष्म्यष्टोत्तरशतनामस्तोत्रम् (पूर्वभागः)
Verse
श्री देव्युवाच- देव देव महादेव त्रिकालज्ञ महेश्वर । करुणाकर देवेश भक्तानुग्रहकारक अष्टोत्तरशतं लक्ष्म्याः श्रोतुमिच्छामि तत्त्वतः ॥१॥
Verse
ईश्वर उवाच- देवि साधु महाभागे महाभाग्यप्रदायकम् । सर्वैश्वर्यकरं पुण्यं सर्वपापप्रणाशनम् ॥२॥
Verse
सर्वदारिद्र्यशमनं श्रवणाद्भुक्तिमुक्तिदम् । राजवश्यकरं दिव्यं गुह्याद्गुह्यतमं परम् ॥३॥
Verse
दुर्लभं सर्वदेवानां चतुष्षष्टिकलास्पदम् । पद्मादीनां नवानां च निधीनां नित्यदायकम् ॥४॥
Verse
समस्तदेवसंसेव्यमणिमाद्यष्टसिद्धिदम् । किमत्र बहुनोक्तेन देवीप्रत्यक्षकारकम् ॥५॥
Verse
तव प्रीत्याद्य वक्ष्यामि समाहितमनाः श्रुणु । अष्टोत्तरशतस्यास्य महालक्ष्मीस्तु देवता ॥६॥
Verse
क्लीं बीजपदमित्युक्तं शक्तिस्तु भुवनेश्वरी । अंगन्यास करन्यास स इत्यादि प्रकीर्तितः ॥७॥
Verse
ध्यानम् ।
Verse
वन्दे पद्मकरां प्रसन्नवदनां सौभाग्यदां भाग्यदां हस्ताभ्यामभयप्रदां मणिगणैर्नानाविधैर्भूषिताम् । भक्ताभीष्टफलप्रदां हरिहरब्रह्मादिभिस्सेवितां पार्श्वे पंकजशंखपद्मनिधिभिर्युक्तां सदा शक्तिभिः ॥८॥
Verse
सरसिजनयने सरोजहस्ते धवलतरांशुकगन्धमाल्यशोभे । भगवति हरिवल्लभे मनोज्ञे त्रिभुवनभूतिकरि प्रसीद मह्यम् ॥९॥
