Preparing Your Space .

Settling the page into your current context.

GyanDweepBeta
HomeLearnLibrary
eGurukulsDiscoverTemplesPanchanga
Sign Up
Sign Up

stotrasangraha

śivāṣṭottaraśatadivyasthānīyanāmastotram

शिवाष्टोत्तरशतदिव्यस्थानीयनामस्तोत्रम्

Verse

अष्टोत्तरशतं भूमौ स्थितं क्षेत्रं वदाम्यहम् । कैवल्यशैले श्रीकण्ठः केदारो हिमवत्यपि ॥१॥

Verse

काशीपुर्यां विश्वनाथः श्रीशैले मल्लिकार्जुनः । प्रयागे नीलकण्ठेशो गयायां रुद्रनामकः ॥२॥

Verse

नीलकण्ठेश्वरः साक्षात् कालञ्जरपुरे शिवः । द्राक्षारामे तु भीमेशो मायूरे चाम्बिकेश्वरः ॥३॥

Verse

ब्रह्मावर्ते देवलिङ्गः प्रभासे शशिभूषणः । वृषध्वजाभिधः श्रीमतिः श्वेतहस्तिपुरेश्वरः ॥४॥

Verse

गोकर्णेशस्तु गोकर्णे सोमेशः सोमनाथके । श्रीरूपाख्ये त्यागराजो वेदे वेदपुरीश्वरः ॥५॥

Verse

भीमारामे तु भीमेशो मन्थने कालिकेश्वरः । मधुरायां चोक्कनाथो मानसे माधवेश्वरः ॥६॥

Verse

श्रीवाञ्छके चम्पकेशः पञ्चवट्यां वटेश्वरः । गजारण्ये तु वैद्येशस्तीर्थाद्रौ तीर्थकेश्वरः ॥७॥

Verse

कुम्भकोणे तु कुम्भेशो लेपाक्ष्यां पापनाशनः । कण्वपुर्यां तु कण्वेशो मध्ये मध्यार्जुनेश्वरः ॥८॥

Verse

हरिहरपुरे श्रीशङ्करनारायणेश्वरः । विरिञ्चिपुर्यां मार्गेशः पञ्चनद्यां गिरीश्वरः ॥९॥

Verse

पम्पापुर्यां विरूपाक्षः सोमाद्रौ मल्लिकार्जुनः । त्रिमकूटे त्वगस्त्येशः सुब्रह्मण्येऽहिपेश्वरः ॥१०॥

Verse

महाबलेश्वरः साक्षान्महाबलशिलोच्चये । रविणा पूजितो दक्षिणावर्तेऽर्केश्वरः स्वयम् ॥११॥

Verse

वेदारण्ये महापुण्ये वेदारण्येश्वराभिधः । मूर्तित्रयात्मकः सोमपुर्यां सोमेश्वराभिधः ॥१२॥

Verse

अवन्त्यां रामलिङ्गेशः काश्मीरे विजयेश्वरः । महानन्दिपुरे साक्षान्महानन्दिपुरेश्वरः ॥१३॥

Verse

कोटितीर्थे तु कोटीशो वृद्धे वृद्धाचलेश्वरः । महापुण्ये तत्र ककुद्गिरौ गङ्गाधरेश्वरः ॥१४॥

Verse

चामराज्याख्यनगरे चामराजेश्वरः स्वयम् । नन्दीश्वरो नन्दिगिरौ चण्डेशो बधिराचले ॥१५॥

Verse

नञ्जुण्डेशो गरपुरे शतशृङ्गे । घनानन्दाचले सोमो नल्लूरे विमलेश्वरः ॥१६॥

Verse

नीडानाथपुरे साक्षान्नीडानाथेश्वरः स्वयम् । एकान्ते रामलिङ्गेशः श्रीनागे कुण्डलीश्वरः ॥१७॥

Verse

श्रीकन्यायां त्रिभङ्गीश उत्सङ्गे राघवेश्वरः । मत्स्यतीर्थे तु तीर्थेशस्त्रिकूटे ताण्डवेश्वरः ॥१८॥

Verse

प्रसन्नाख्यपुरे मार्गसहायेशो वरप्रदः । गण्डक्यां शिवनाभस्तु श्रीपतौ श्रीपतीश्वरः ॥१९॥

Verse

धर्मपुर्यां धर्मलिङ्गः कन्याकुब्जे कलाधरः । वाणिग्रामे विरिञ्चेशो नेपाले नकुलेश्वरः ॥२०॥

Verse

मार्कण्डेयो जगन्नाथे स्वयम्भूर्नर्मदातटे । धर्मस्थले मञ्जुनाथो व्यासेशस्तु त्रिरूपके ॥२१॥

Verse

स्वर्णावत्यां कलिङ्गेशो निर्मले पन्नगेश्वरः । पुण्डरीके जैमिनीशोऽयोध्यायां मधुरेश्वरः ॥२२॥

Verse

सिद्धवट्यां तु सिद्धेशः श्रीकूर्मे त्रिपुरान्तकः । मणिकुण्डलतीर्थे तु मणिमुक्तानदीश्वरः ॥२३॥

Verse

वटाटव्यां कृत्तिवासास्त्रिवेण्यां सङ्गमेश्वरः । स्तनिताख्ये तु मल्लेश इन्द्रकीलेऽर्जुनेश्वरः ॥२४॥

Verse

शेषाद्रौ कपिलेशस्तु पुष्पे पुष्पगिरीश्वरः । भुवनेशश्चित्रकूटे तूज्जिन्यां कालिकेश्वरः ॥२५॥

Verse

ज्वालामुख्यां शूलटङ्को मङ्गल्यां सङ्गमेश्वरः । बृहतीशस्तञ्जापुर्यां रामेशो वह्निपुष्करे ॥२६॥

Verse

लङ्काद्वीपे तु मत्स्येशः कूर्मेशो गन्धमादने । विन्ध्याचले वराहेशो नृसिंहः स्यादहोबिले ॥२७॥

Verse

कुरुक्षेत्रे वामनेशस्ततः कपिलतीर्थके । तथा परशुरामेशः सेतौ रामेश्वराभिधः ॥२८॥

Verse

साकेते बलरामेशो बौद्धेशो वारणावते । तत्त्वक्षेत्रे च कल्कीशः कृष्णेशः स्यान्महेन्द्रके ॥२९॥

Verse

॥इति ललितागमे ज्ञानपादे शिवलिङ्गप्रादुर्भावपटलान्तर्गते श्रीशिवाष्टोत्तरशतदिव्यस्थानीयनामस्तोत्रं सम्पूर्णम्॥

śaṅkarācāryāṣṭottaraśatanāmastotram
ardhanārīśvarāṣṭottaraśatanāmastotram

सा विद्या या विमुक्तये

Built with Sankalpa at Gyaandweep

Gyaandweep

© 2022-2026 Granthajyoti Pvt Ltd.

Privacy & Terms