Preparing Your Space .

Settling the page into your current context.

GyanDweepBeta
HomeLearnLibrary
eGurukulsDiscoverTemplesPanchanga
Sign Up
Sign Up

stotrasangraha

ardhanārīśvarāṣṭottaraśatanāmastotram

अर्धनारीश्वराष्टोत्तरशतनामस्तोत्रम्

Verse

चामुण्डिकाम्बा श्रीकण्ठः पार्वती परमेश्वरः । महाराज्ञी महादेवः सदाराध्या सदाशिवः ॥१॥

Verse

शिवार्धाङ्गी शिवार्धाङ्गो भैरवी कालभैरवः । शक्तित्रितयरूपाढ्या मूर्तित्रितयरूपवान् ॥२॥

Verse

कामकोटि-सुपीठस्था काशीक्षेत्रसमाश्रयः । दाक्षायणी दक्षवैरिः शूलिनी शूलधारकः ॥३॥

Verse

ह्रीङ्कारपञ्जरशुकी हरिशङ्कररूपवान् । श्रीमद्गणेशजननी षडानन-सुजन्मभूः ॥४॥

Verse

पञ्चप्रेतासनारूढा पञ्चब्रह्मस्वरूपभृत् । चण्डमुण्डशिरश्छेत्री जलन्धरशिरोहरः ॥५॥

Verse

सिंहवाहा वृषारूढः श्यामाभा स्फटिकप्रभः । महिषासुरसंहर्त्री गजासुरविमर्दनः ॥६॥

Verse

महाबलाचलावासा महाकैलासवासभूः । भद्रकाली वीरभद्रो मीनाक्षी सुन्दरेश्वरः ॥७॥

Verse

भण्डासुरादिसंहर्त्री दुष्टान्धकविमर्दनः । मधुकैटभसंहर्त्री मधुरापुरनायकः ॥८॥

Verse

कालत्रयस्वरूपाढ्या कार्यत्रयविधायकः । गिरिजाता गिरीशश्च वैष्णवी विष्णुवल्लभः ॥९॥

Verse

विशालाक्षी विश्वनाथः पुष्पास्त्रा विष्णुमार्गणः । कौसुम्भवसनोपेता व्याघ्रचर्माम्बरावृतः ॥१०॥

Verse

मूलप्रकृतिरूपाढ्या परब्रह्मस्वरूपवान् । रुण्डमालाविभूषाढ्या लसद्रुद्राक्षमालिकः ॥११॥

Verse

मनोरूपेक्षुकोदण्डा महामेरुधनुर्धरः । चन्द्रचूडा चन्द्रमौलिर्महामाया महेश्वरः ॥१२॥

Verse

महाकाली महाकालो दिव्यरूपा दिगम्बरः । बिन्दुपीठसुखासीना श्रीमदोङ्कारपीठगः ॥१३॥

Verse

हरिद्राकुङ्कुमालिप्ता भस्मोद्धूलितविग्रहः । महापद्माटवीलोला महाबिल्वाटवीप्रियः ॥१४॥

Verse

सुधामयी विषधरो मातङ्गी मकुटेश्वरः । वेदवेद्या वेदवाजी चक्रेशी विष्णुचक्रदः ॥१५॥

Verse

जगन्मयी जगद्रूपो मृडानी मृत्युनाशनः । रामार्चितपदाम्भोजा कृष्णपुत्रवरप्रदः ॥१६॥

Verse

रमावाणीसुसंसेव्या विष्णुब्रह्मसुसेवितः । सूर्यचन्द्राग्निनयना तेजस्त्रयविलोचनः ॥१७॥

Verse

चिदग्निकुण्डसम्भूता महालिङ्गसमुद्भवः । कम्बुकण्ठी कालकण्ठो वज्रेशी वज्रिपूजितः ॥१८॥

Verse

त्रिकण्टकी त्रिभङ्गीशो भस्मरक्षा स्मरान्तकः । हयग्रीववरोद्धात्री मार्कण्डेयवरप्रदः ॥१९॥

Verse

चिन्तामणिगृहावासा मन्दराचलमन्दिरः । विन्ध्याचलकृतावासा विन्ध्यशैलार्यपूजितः ॥२०॥

Verse

मनोन्मनी लिङ्गरूपो जगदम्बा जगत्पिता । योगनिद्रा योगगम्यो भवानी भवमूर्तिमान् ॥२१॥

Verse

श्रीचक्रात्मरथारूढा धरणीधरसंस्थितः । श्रीविद्यावेद्यमहिमा निगमागमसंश्रयः ॥२२॥

Verse

दशशीर्षसमायुक्ता पञ्चविंशतिशीर्षवान् । अष्टादशभुजायुक्ता पञ्चाशत्करमण्डितः ॥२३॥

Verse

ब्राह्म्यादिमातृकारूपा शताष्टेकादशात्मवान् । स्थिरा स्थाणुस्तथा बाला सद्योजात उमा मृडः ॥२४॥

Verse

शिवा शिवश्च रुद्राणी रुद्रश्चैवेश्वरीश्वरः । कदम्बकाननावासा दारुकारण्यलोलुपः ॥२५॥

Verse

नवाक्षरीमनुस्तुत्या पञ्चाक्षरमनुप्रियः । नवावरणसम्पूज्या पञ्चायतनपूजितः ॥२६॥

Verse

देहस्थषट्चक्रदेवी दहराकाशमध्यगः । योगिनीगणसंसेव्या भृग्वादिप्रमथावृतः ॥२७॥

Verse

उग्रताराघोररूपः शर्वाणी शर्वमूर्तिमान् । नागवेणी नागभूषो मन्त्रिणी मन्त्रदैवतः ॥२८॥

Verse

ज्वलज्जिह्वा ज्वलन्नेत्रो दण्डनाथा दृगायुधः । पार्थाञ्जनास्त्रसन्दात्री पार्थपाशुपतास्त्रदः ॥२९॥

Verse

पुष्पवच्चक्रताटङ्का फणिराजसुकुण्डलः । बाणपुत्रीवरोद्धात्री बाणासुरवरप्रदः ॥३०॥

Verse

व्यालकञ्चुकसंवीता व्यालयज्ञोपवीतवान् । नवलावण्यरूपाढ्या नवयौवनविग्रहः ॥३१॥

Verse

नाट्यप्रिया नाट्यमूर्तिस्त्रिसन्ध्या त्रिपुरान्तकः । तन्त्रोपचारसुप्रीता तन्त्रादिमविधायकः ॥३२॥

Verse

नववल्लीष्टवरदा नववीरसुजन्मभूः । भ्रमरज्या वासुकिज्यो भेरुण्डा भीमपूजितः ॥३३॥

Verse

निशुम्भशुम्भदमनी नीचापस्मारमर्दनः । सहस्राराम्बुजारूढा सहस्रकमलार्चितः ॥३४॥

Verse

गङ्गासहोदरी गङ्गाधरो गौरी त्रियम्बकः । श्रीशैलभ्रमराम्बाख्या मल्लिकार्जुनपूजितः ॥३५॥

Verse

भवतापप्रशमनी भवरोगनिवारकः । चन्द्रमण्डलमध्यस्था मुनिमानसहंसकः ॥३६॥

Verse

प्रत्यङ्गिरा प्रसन्नात्मा कामेशी कामरूपवान् । स्वयम्प्रभा स्वप्रकाशः कालरात्री कृतान्तहृत् ॥३७॥

Verse

सदान्नपूर्णा भिक्षाटो वनदुर्गा वसुप्रदः । सर्वचैतन्यरूपाढ्या सच्चिदानन्दविग्रहः ॥३८॥

Verse

सर्वमङ्गलरूपाढ्या सर्वकल्याणदायकः । राजराजेश्वरी श्रीमद्राजराजप्रियङ्करः ॥३९॥

Verse

अर्धनारीश्वरस्येदं नाम्नामष्टोत्तरं शतम् । पठन्नर्चन् सदा भक्त्या सर्वसाम्राज्यमाप्नुयात् ॥४०॥

Verse

॥इति श्रीस्कान्दपुराणे श्री-अर्धनारीश्वराष्टोत्तरशतनामस्तोत्रं सम्पूर्णम्॥

śivāṣṭottaraśatadivyasthānīyanāmastotram
durgāṣṭottaraśatanāmastotram

सा विद्या या विमुक्तये

Built with Sankalpa at Gyaandweep

Gyaandweep

© 2022-2026 Granthajyoti Pvt Ltd.

Privacy & Terms