stotrasangraha
durgāṣṭottaraśatanāmastotram
दुर्गाष्टोत्तरशतनामस्तोत्रम्
Verse
अस्य श्रीदुर्गाष्टोत्तरशतनामास्तोत्रमालामन्त्रस्य महाविष्णुमहेश्वराः ऋषयः। अनुष्टुप् छन्दः। श्रीदुर्गापरमेश्वरी देवता। ह्रां बीजम्। ह्रीं शक्तिः। ह्रूं कीलकम्। सर्वाभीष्टसिद्ध्यर्थे जपहोमार्चने विनियोगः।
Verse
सती साध्वी भवप्रीता भवानी भवमोचनी । आर्या दुर्गा जया चाऽऽद्या त्रिनेत्रा शूलधारिणी ॥१॥
Verse
पिनाकधारिणी चित्रा चण्डघण्टा महातपाः । मनो बुद्धिरहङ्कारा चिद्रूपा च चिदाकृतिः ॥२॥
Verse
अनन्ता भाविनी भव्या ह्यभव्या च सदागतिः । शाम्भवी देवमाता च चिन्ता रत्नप्रिया तथा ॥३॥
Verse
सर्वविद्या दक्षकन्या दक्षयज्ञविनाशिनी । अपर्णाऽनेकवर्णा च पाटला पाटलावती ॥४॥
Verse
पट्टाम्बरपरीधाना कलमञ्जीररञ्जिनी । ईशानी च महाराज्ञी ह्यप्रमेयपराक्रमा ॥५॥
Verse
रुद्राणी क्रूररूपा च सुन्दरी सुरसुन्दरी । वनदुर्गा च मातङ्गी मतङ्गमुनिकन्यका ॥६॥
Verse
ब्राह्मी माहेश्वरी चैन्द्री कौमारी वैष्णवी तथा । चामुण्डा चैव वाराही लक्ष्मीश्च पुरुषाकृतिः ॥७॥
Verse
विमला ज्ञानरूपा च क्रिया नित्या च बुद्धिदा । बहुला बहुलप्रेमा महिषासुरमर्दिनी ॥८॥
Verse
मधुकैटभहन्त्री च चण्डमुण्डविनाशिनी । सर्वशास्त्रमयी चैव सर्वदानवघातिनी ॥९॥
Verse
अनेकशस्त्रहस्ता च सर्वशस्त्रास्त्रधारिणी । भद्रकाली सदाकन्या कैशोरी युवतिर्यतिः ॥१०॥
Verse
प्रौढाऽप्रौढा वृद्धमाता घोररूपा महोदरी । बलप्रदा घोररूपा महोत्साहा महाबला ॥११॥
Verse
अग्निज्वाला रौद्रमुखी कालरात्री तपस्विनी । नारायणी महादेवी विष्णुमाया शिवात्मिका ॥१२॥
Verse
शिवदूती कराली च ह्यनन्ता परमेश्वरी । कात्यायनी महाविद्या महामेधास्वरूपिणी ॥१३॥
Verse
गौरी सरस्वती चैव सावित्री ब्रह्मवादिनी । सर्वतत्त्वैकनिलया वेदमन्त्रस्वरूपिणी ॥१४॥
Verse
इदं स्तोत्रं महादेव्या नाम्नाम् अष्टोत्तरं शतम् । यः पठेत् प्रयतो नित्यं भक्तिभावेन चेतसा ॥१५॥
Verse
शत्रुभ्यो न भयं तस्य तस्य शत्रुक्षयं भवेत् । सर्वदुःखदरिद्राच्च सुसुखं मुच्यते ध्रुवम् ॥१६॥
Verse
विद्यार्थी लभते विद्यां धनार्थी लभते धनम् । कन्यार्थी लभते कन्यां कन्या च लभते वरम् ॥१७॥
Verse
ऋणी ऋणाद् विमुच्येत ह्यपुत्रो लभते सुतम् । रोगाद् विमुच्यते रोगी सुखमत्यन्तमश्नुते ॥१८॥
Verse
भूमिलाभो भवेत् तस्य सर्वत्र विजयी भवेत् । सर्वान् कामानवाप्नोति महादेवीप्रसादतः ॥१९॥
Verse
कुङ्कुमैर्बिल्वपत्रैश्च सुगन्धै रक्तपुष्पकैः । रक्तपत्रैर्विशेषेण पूजयन् भद्रमश्नुते ॥२०॥
Verse
॥इति श्री-दुर्गाष्टोत्तरशतनामस्तोत्रं सम्पूर्णम्॥
