Preparing Your Space .

Settling the page into your current context.

GyanDweepBeta
HomeLearnLibrary
eGurukulsDiscoverTemplesPanchanga
Sign Up
Sign Up

stotrasangraha

āñjaneyāṣṭottaraśatanāmastotram

आञ्जनेयाष्टोत्तरशतनामस्तोत्रम्

Verse

आञ्जनेयो महावीरो हनुमान् मारुतात्मजः । तत्त्वज्ञानप्रदः सीतादेवीमुद्राप्रदायकः ॥१॥

Verse

अशोकवनिकाच्छेत्ता सर्वमायाविभञ्जनः । सर्वबन्धविमोक्ता च रक्षोविध्वंसकारकः ॥२॥

Verse

परविद्यापरीहर्ता परशौर्यविनाशकः । परमन्त्रनिराकर्ता परयन्त्रप्रभेदकः ॥३॥

Verse

सर्वग्रहविनाशी च भीमसेनसहायकृत् । सर्वदुःखहरः सर्वलोकचारी मनोजवः ॥४॥

Verse

पारिजातद्रुमूलस्थः सर्वमन्त्रस्वरूपवान् । सर्वतन्त्रस्वरूपी च सर्वयन्त्रात्मिकस्तथा ॥५॥

Verse

कपीश्वरो महाकायः सर्वरोगहरः प्रभुः । बलसिद्धिकरः सर्वविद्यासम्पत्प्रदायकः ॥६॥

Verse

कपिसेनानायकश्च भविष्यच्चतुराननः । कुमारब्रह्मचारी च रत्नकुण्डलदीप्तिमान् ॥७॥

Verse

चञ्चलद्वालसन्नद्धो लम्बमानशिखोज्ज्वलः । गन्धर्वविद्यातत्त्वज्ञो महाबलपराक्रमः ॥८॥

Verse

कारागृहविमोक्ता च शृङ्खलाबन्धमोचकः । सागरोत्तारकः प्राज्ञो रामदूतः प्रतापवान् ॥९॥

Verse

वानरः केसरीसूनुः सीताशोकनिवारणः । अञ्जनागर्भसम्भूतो बालार्कसदृशाननः ॥१०॥

Verse

विभीषणप्रियकरो दशग्रीवकुलान्तकः । लक्ष्मणप्राणदाता च वज्रकायो महाद्युतिः ॥११॥

Verse

चिरञ्जीवी रामभक्तो दैत्यकार्यविघातकः । अक्षहन्ता काञ्चनाभः पञ्चवक्त्रो महातपाः ॥१२॥

Verse

लङ्किणीभञ्जनः श्रीमान् सिंहिकाप्राणभञ्जनः । गन्धमादनशैलस्थो लङ्कापुरविदाहकः ॥१३॥

Verse

सुग्रीवसचिवो धीरः शूरो दैत्यकुलान्तकः । सुरार्चितो महातेजो रामचूडामणिप्रदः ॥१४॥

Verse

कामरूपी पिङ्गलाक्षो वर्धिमैनाकपूजितः । कबलीकृतमार्तण्डमण्डलो विजितेन्द्रियः ॥१५॥

Verse

रामसुग्रीवसन्धाता महिरावणमर्दनः । स्फटिकाभो वागधीशो नवव्याकृतिपण्डितः ॥१६॥

Verse

चतुर्बाहुर्दीनबन्धुर्महात्मा भक्तवत्सलः । सञ्जीवननगाहर्ता शुचिर्वाग्मी धृतव्रतः ॥१७॥

Verse

कालनेमिप्रमथनो हरिमर्कटमर्कटः । दान्तः शान्तः प्रसन्नात्मा शतकण्ठमदापहः ॥१८॥

Verse

योगी रामकथालोलः सीतान्वेषणपण्डितः । वज्रदंष्ट्रो वज्रनखो रुद्रवीर्यसमुद्भवः ॥१९॥

Verse

इन्द्रजित्प्रहितामोघब्रह्मास्त्रविनिवारकः । पार्थध्वजाग्रसंवासी शरपञ्जरहेलकः ॥२०॥

Verse

दशबाहुर्लोकपूज्यो जाम्बवत्प्रीतिवर्धनः । सीतासमेतश्रीरामपादसेवाधुरन्धरः ॥२१॥

Verse

॥इति श्री-आञ्जनेयाष्टोत्तरशतनामस्तोत्रं सम्पूर्णम्॥

rāmāṣṭottaraśatanāmastotram
kṛṣṇāṣṭottaraśatanāmastotram

सा विद्या या विमुक्तये

Built with Sankalpa at Gyaandweep

Gyaandweep

© 2022-2026 Granthajyoti Pvt Ltd.

Privacy & Terms