stotrasangraha
kṛṣṇāṣṭottaraśatanāmastotram
कृष्णाष्टोत्तरशतनामस्तोत्रम्
Verse
ॐ अस्य श्रीकृष्णाष्टोत्तरशतनामस्तोत्रस्य श्रीशेष ऋषिः। अनुष्टुप्-छन्दः। श्रीकृष्णो देवता। श्रीकृष्णप्रीत्यर्थे श्री-कृष्णाष्टोत्तरशतनामजपे विनियोगः।
Verse
शिखिमुकुटविशेषं नीलपद्माङ्गदेशं विधुमुखकृतकेशं कौस्तुभापीतवेशम् । मधुररवकलेशं शं भजे भ्रातृशेषं व्रजजनवनितेशं माधवं राधिकेशम् ॥
Verse
वसुन्धरे वरारोहे जनानामस्ति मुक्तिदम् । सर्वमङ्गलमूर्धन्यमणिमाद्यष्टसिद्धिदम् ॥
Verse
महापातककोटिघ्नं सर्वतीर्थफलप्रदम् । समस्तजपयज्ञानां फलदं पापनाशनम् ॥
Verse
शृणु देवि प्रवक्ष्यामि नाम्नामष्टोत्तर शतम् । सहस्रनाम्नां पुण्यानां त्रिरावृत्या तु यत्फलम् ॥
Verse
एकावृत्या तु कृष्णस्य नामैकं तत् प्रयच्छति । तस्मात्पुण्यतरं चैतत्स्तोत्रं पातकनाशनम् ॥
Verse
नाम्नामष्टोत्तरशतस्याहमेव ऋषिः प्रिये । छन्दोऽनुष्टुब्देवता तु योगः कृष्णप्रियावहः ॥
Verse
श्रीकृष्णः कमलानाथो वासुदेवः सनातनः । वसुदेवात्मजः पुण्यो लीलामानुषविग्रहः ॥१॥
Verse
श्रीवत्सकौस्तुभधरो यशोदावत्सलो हरिः । चतुर्भुजात्तचक्रासिगदाशङ्खाम्बुजायुधः ॥२॥
Verse
देवकीनन्दनः श्रीशो नन्दगोपप्रियात्मजः । यमुनावेगसंहारी बलभद्रप्रियानुजः ॥३॥
Verse
पूतनाजीवितहरः शकटासुरभञ्जनः । नन्दव्रजजनानन्दी सच्चिदानन्दविग्रहः ॥४॥
Verse
नवनीतविलिप्ताङ्गो नवनीतनटोऽनघः । नवनीतनवाहारो मुचुकुन्दप्रसादकः ॥५॥
Verse
षोडशस्त्रीसहस्रेशस्त्रिभङ्गी मधुराकृतिः । शुकवागमृताब्धीन्दुर्गोविन्दो योगिनां पतिः ॥६॥
Verse
वत्सवाटचरोऽनन्तो धेनुकासुरभञ्जनः । तृणीकृततृणावर्तो यमलार्जुनभञ्जनः ॥७॥
Verse
उत्तालतालभेत्ता च तमालश्यामलाकृतिः । गोपगोपीश्वरो योगी कोटिसूर्यसमप्रभः ॥८॥
Verse
इलापतिः परञ्ज्योतिर्यादवेन्द्रो यदूद्वहः । वनमाली पीतवासाः पारिजातापहारकः ॥९॥
Verse
गोवर्धनाचलोद्धर्ता गोपालः सर्वपालकः । अजो निरञ्जनः कामजनकः कञ्जलोचनः ॥१०॥
Verse
मधुहा मथुरानाथो द्वारकानायको बली । वृन्दावनान्तसञ्चारी तुलसीदामभूषणः ॥११॥
Verse
स्यमन्तकमणेर्हर्ता नरनारायणात्मकः । कुब्जाकृष्णाम्बरधरो मायी परमपूरुषः ॥१२॥
Verse
मुष्टिकासुरचाणूरमल्लयुद्धविशारदः । संसारवैरी कंसारिर्मुरारिर्नरकान्तकः ॥१३॥
Verse
अनादिब्रह्मचारी च कृष्णाव्यसनकर्षकः । शिशुपालशिरश्छेत्ता दुर्योधनकुलान्तकः ॥१४॥
Verse
विदुराक्रूरवरदो विश्वरूपप्रदर्शकः । सत्यवाक् सत्यसङ्कल्पः सत्यभामारतो जयी ॥१५॥
Verse
सुभद्रापूर्वजो विष्णुर्भीष्ममुक्तिप्रदायकः । जगद्गुरुर्जगन्नाथो वेणुनादविशारदः ॥१६॥
Verse
वृषभासुरविध्वंसी बाणासुरकरान्तकः । युधिष्ठिरप्रतिष्ठाता बर्हिबर्हावतंसकः ॥१७॥
Verse
पार्थसारथिरव्यक्तो गीतामृतमहोदधिः । कालीयफणिमाणिक्यरञ्जितश्रीपदाम्बुजः ॥१८॥
Verse
दामोदरो यज्ञभोक्ता दानवेन्द्रविनाशकः । नारायणः परब्रह्म पन्नगाशनवाहनः ॥१९॥
Verse
जलक्रीडासमासक्तगोपीवस्त्रापहारकः । पुण्यश्लोकस्तीर्थपादो वेदवेद्यो दयानिधिः ॥२०॥
Verse
सर्वतीर्थात्मकः सर्वग्रहरूपी परात्परः । इत्येवं कृष्णदेवस्य नाम्नामष्टोत्तरं शतम् ॥२१॥
Verse
कृष्णेन कृष्णभक्तेन श्रुत्वा गीतामृतं पुरा । स्तोत्रं कृष्णप्रियकरं कृतं तस्मान्मया श्रुतम् ॥२२॥
Verse
कृष्णप्रेमामृतं नाम परमानन्ददायकम् । अत्युपद्रवदुःखघ्नं परमायुष्यवर्धनम् ॥२३॥
Verse
दानं व्रतं तपस्तीर्थं यत् कृतं त्विह जन्मनि । पठतां शृण्वतां चैव कोटिकोटिगुणं भवेत् ॥२४॥
Verse
पुत्त्रप्रदमपुत्त्राणामगतीनां गतिप्रदम् । धनावहं दरिद्राणां जयेच्छूनां जयावहम् ॥२५॥
Verse
शिशूनां गोकुलानां च पुष्टिदं पुण्यवर्धनम् । बालरोगग्रहादीनां शमनं शान्तिकारकम् ॥२६॥
Verse
अन्ते कृष्णस्मरणदं भवतापत्रयापहम् । असिद्धसाधकं भद्रे जपादिकरमात्मनाम् ॥२७॥
Verse
कृष्णाय यादवेन्द्राय ज्ञानमुद्राय योगिने । नाथाय रुक्मिणीशाय नमो वेदान्तवेदिने ॥२८॥
Verse
इमं मन्त्रं महादेवि जपन्नेव दिवानिशम् । सर्वग्रहानुग्रहभाक् सर्वप्रियतमो भवेत् ॥२९॥
Verse
पुत्रपौत्रैः परिवृतः सर्वसिद्धिसमृद्धिमान् । निषेव्यभोगानन्तेऽपि कृष्णसायुज्यमाप्युनात् ॥३०॥
Verse
॥ इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यभागे तृतीय उपोद्घातपादे भार्गवचरिते षट्त्रिंशत्तमोऽध्यायान्तर्गत श्रीकृष्णाष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ॥
