Fetching Data .

Loading verse structure and chapter context.

GyanDweepBeta
HomeLearnLibrary
eGurukulsDiscoverTemplesPanchanga
Sign Up
Sign Up

sahasranAma

śrī viṣṇu sahastranāmastotram

श्री विष्णु सहस्त्रनामस्तोत्रम्

Verse

ध्यानम् शान्ताकारं भुजगशयनं पद्मनाभं सुरेशं विश्वाधारं गगनसदृशं मेघवर्णं शुभाङ्गम् । लक्ष्मीकान्तं कमलनयनं योगिभिर्ध्यानगम्यं वन्दे विष्णुं भवभयहरं सर्वलोकैकनाथम् ॥

Verse

सशङ्खचक्रं सकिरीटकुण्डलं सपीतवस्त्रं सरसीरुहेक्षणम् । सहारवक्षः स्थलकौस्तुभश्रियं नमामि विष्णुं शिरसा चतुर्भुजम् ॥

Verse

स्तोत्रम् यस्य स्मरणमात्रेण जन्मसंसारबन्धनात् । विमुच्यते नमस्तस्मै विष्णवे प्रभविष्णवे ॥

Verse

नमः समस्तभुतानामादिभुताय भूभृते । अनेकरूपरूपाय विष्णवे प्रभविष्णवे ॥

Verse

वैशम्पायन उवाच श्रुत्वा धर्मानशेषेण पावनानि च सर्वशः । युधिष्ठिरः शान्तनवं पुनरेवाभ्यभाषत ॥

Verse

१ ॥

Verse

युधिष्ठिर उवाच किमेकं दैवतं लोके किं वाप्येकं परायणम् ॥

Verse

९ ॥

Verse

पवित्राणां पवित्रं यो मङ्गलानां च मङ्गलम् । दैवतं देवतानां च भूतानां योऽव्ययः पिता ॥

Verse

१० ॥

Verse

यतः सर्वाणि भुतानि भवन्त्यादियुगागमे । यस्मिश्च प्रलयं यान्ति पुनरेव युगक्षये ॥

Verse

११ ॥

Verse

तस्य लोकप्रधानस्य जगन्नाथस्य भूपते । विष्णोर्नामसहस्त्रं मे श्रृणु पापभयापहम् ॥

Verse

१२ ॥

Verse

यानि नामानि गौणानि विख्यातानि महात्मनः । ऋषिभिः परिगीतानि तानि वक्ष्यामि भूतये ॥

Verse

१३ ॥

Verse

ॐ विश्वं विष्णुर्वषट्‍कारो भूतभव्यभवत्प्रभुः । भूतकृद्भूतभृद्भावो भूतात्मा भूतभावनः ॥

Verse

१४ ॥

Verse

पूतात्मा परमात्मा च मुक्तानां परमा गतिः । अव्ययः पुरुषः साक्षी क्षेत्रज्ञोऽक्षर एव च ॥

Verse

१५ ॥

Verse

योगो योगविदां नेता प्रधानपुरुषेश्वरः । नारसिंहवपुः श्रीमान्केशवः पुरुषोत्तमः ॥

Verse

१६ ॥

Verse

सर्वः शर्वः शिवः स्थाणुर्भूतादिर्निधिरव्ययः। सम्भवो भावनो भर्ता प्रभवः प्रभुरीश्वरः ॥

Verse

१७ ॥

Verse

स्वयम्भूः शम्भुरादित्यः पुष्कराक्षो महास्वनः । अनादिनिधनो धाता विधाता धातुरत्तमः ॥

Verse

१८ ॥

Verse

अप्रमेयो ह्रषीकेशः पद्मनाभोऽमरप्रभुः । विश्वकर्मा मनुस्त्वष्टा स्थविष्ठः स्थविरो ध्रुवः ॥

Verse

१९ ॥

Verse

अग्राह्यः शाश्वतः कृष्णो लोहिताक्षः प्रतर्दनः । प्रभूतिस्त्रिककुब्धाम पवित्रं मङ्गलं परम् ॥

Verse

२० ॥

Verse

ईशानः प्राणदः प्राणो ज्येष्ठः श्रेष्ठः प्रजापतिः । हिरण्यगर्भो भूगर्भो माधवो मधुसूदनः ॥

Verse

२१ ॥

Verse

ईश्वरो विक्रमी धन्वी मेधावी विक्रमः क्रमः । अनुत्तमो दुराधर्षः कृतज्ञः कृतिरात्मवान् ॥

Verse

२२ ॥

Verse

सुरेशः शरण शर्म विश्वरेताः प्रजाभवः । अहः संवत्सरो व्यालः प्रत्ययः सर्वदर्शनः ॥

Verse

२३ ॥

Verse

अजः सर्वेश्वरः सिद्धः सिद्धिः सर्वादरच्युतः । वृषाकपिरमेयात्मा सर्वयोगाविनिःसृतः ॥

Verse

२४ ॥

Verse

वसुर्वसुमनाः सत्यः समात्मा सम्मितः समः । अमोघः पुण्डरीकाक्षो वृषकर्मा वृषाकृतिः ॥

Verse

२५ ॥

Verse

रुद्रो बहुशिरा बभ्रुर्विश्वयोनिः शुचिश्रवाः । अमृतः शाश्वतः स्थाणूर्वरारोहो महातपाः ॥

Verse

२६ ॥

Verse

सर्वगः सर्वविद्भनुर्विष्वक्सेनो जनार्दनः । वेदो वेदविदव्यङ्गो वेदाङ्गो वेदवित्‍ कविः ॥

Verse

२७ ॥

Verse

लोकाध्यक्षः सुराध्यक्षो धर्माध्यक्षः कृताकृतः । चतुरात्मा चतुर्व्युहश्चतुर्दंष्ट्रश्चतुर्भुजः ॥

Verse

२८ ॥

Verse

भ्राजिष्णुर्भोजनं भोक्ता सहिष्णुर्जगदादिजः । अनघो विजयो जेता विश्वयोनिः पुनर्वसुः ॥

Verse

२९ ॥

Verse

उपेन्द्रो वामनः प्रांशुरमोघः शुचिरूर्जितः । अतीन्द्रः संग्रहः सर्गो धृतात्मा नियमो यमः ॥

Verse

३० ॥

Verse

वेद्यो वैद्यः सदायोगी वीरहा माधवो मधुः । अतीन्द्रियो महामायो महोत्साहो महाबलः ॥

Verse

३१ ॥

Verse

महाबुद्धिर्महावीर्यो महाशक्तिर्महाद्युतिः । अनिर्देश्यवपुः श्रीमानमेयात्मा महाद्रिधृक् ॥

Verse

३२ ॥

Verse

महेष्वासो महीभर्ता श्रीनिवासः सतां गतिः । अनिरुद्धः सुरानन्दो गोविन्दो गोविदाम पतिः ॥

Verse

३३ ॥

Verse

मरीचिर्दमनो हंसः सुपर्णो भुजगोत्तमः । हिरण्यनाभः सुतपाः पद्मनाभः प्रजापतिः ॥

Verse

३४ ॥

Verse

अमृत्युः सर्वदृक्‍ सिंहः सन्धाता सन्धिमान्सिथरः । अजो दुर्मर्षणः शास्ता विश्रुतात्मा सुरारिहा ॥

Verse

३५ ॥

Verse

गुरुर्गुरुतमो धाम सत्यः सत्यपराक्रमः । निमिषोऽनिमिषः स्त्रग्वी वाचस्पतिरुदारधीः ॥

Verse

३६ ॥

Verse

अग्रणीर्ग्रामणीः श्रीमान्न्यायो नेता समीरणः । सहस्त्रमूर्धा विश्वात्मा सहस्त्राक्षः सहस्त्रपात् ॥

Verse

३७ ॥

Verse

आवर्तनो निवृत्तात्मा संवृतः सम्प्रमर्दनः । अहः संवर्तको वह्निरनिलो धरणीधरः ॥

Verse

३८ ॥

Verse

सुप्रसादः प्रसनात्मा विश्वधृग्विश्वभुग्विभुः । सत्कर्ता सत्कृतः साधर्जह्नुर्नारायणो नरः ॥

Verse

३९ ॥

Verse

असंख्येयोऽप्रमेयात्मा विशिष्टः शिष्टकृच्छचिः । सिद्धार्थः सिद्धसंकल्पः सिद्धिदः सिद्धिसाधनः ॥

Verse

४० ॥

Verse

वृषाही वृषभो विष्णुर्वृषपर्वा वृषोदरः । वर्धनो वर्धमानश्च विविक्तः श्रुतिसागरः ॥

Verse

४१ ॥

Verse

सुभुजो दुर्धरो वाग्मी महेन्द्रो वसुदो वसुः । नैकरूपो बृहद्रूपः शिपिविष्टः प्रकाशनः ॥

Verse

४२ ॥

Verse

ओजस्तेजोद्युतिधरः प्रकाशात्मा प्रतापनः । ऋद्धः स्पष्टाक्षरो मन्त्रश्चन्द्रांशुर्भास्करद्युतिः ॥

Verse

४३ ॥

Verse

अमृतांशूद्भवो भानुः शशबिन्दुः सुरेश्वरः । औषधं जगतः सेतुः सत्यधर्मपराक्रमः ॥

Verse

४४ ॥

Verse

भूतभव्यभवन्नाथः पवनः पावनोऽनलः । कामहा कामकृत्कान्तः कामः कामप्रदः प्रभुः ॥

Verse

४५ ॥

Verse

युगादिकृद्युगावर्तो नैकमायो महाशनः । अदृश्योऽव्यक्तरूपश्च सहस्त्रजिदनन्तजित् ॥

Verse

४६ ॥

Verse

इष्टोऽविशिष्टः शिष्टेष्टः शिखण्डी नहुषो वृषः । क्रोधहा क्रोधकृत्कर्ता विश्वबाहुर्महीधरः ॥

Verse

४७ ॥

Verse

अच्युतः प्रथितः प्राणः प्राणदो वासवानुजः । अपां निधिरधिष्ठानमप्रमत्तः प्रतिष्ठितः ॥

Verse

४८ ॥

Verse

स्कन्दः स्कन्दधरो धुर्यो वरदो वायुवाहनः । वासुदेवो बृहद्भानुरादिदेवः पुरन्दरः ॥

Verse

४९ ॥

Verse

अशोकस्तारणस्तारः शूरः शौरिर्जनेश्वरः । अनुकूलः शतावर्तः पद्मी पद्मनिभेक्षणः ॥

Verse

५० ॥

Verse

पद्मभानोऽरविन्दाक्षः पद्मगर्भः शरीरभृत् । महर्द्धिऋद्धो वृद्धात्मा महाक्षो गरुडध्वजः ॥

Verse

५१ ॥

Verse

अतुलः शरभो भीमः समयज्ञो हविर्हरिः । सर्वलक्षणलक्षण्यो लक्ष्मीवान्समितिञ्ञयः ॥

Verse

५२ ॥

Verse

विक्षरो रोहितो मार्गो हेतुर्दामोदरः सहः । महीधरो महाभागो वेगवानमिताशनः ॥

Verse

५३ ॥

Verse

उद्भवः क्षोभणॊ देवः श्रीगर्भः परमेश्वरः । करणं कारणं कर्ता विकर्ता गहनो गुहः ॥

Verse

५४ ॥

Verse

व्यवसायो व्यवस्थानः संस्थानः स्थानदो ध्रुवः । परर्द्धिः परमस्पष्टस्तुष्टः पुष्टः शुभेक्षणः ॥

Verse

५५ ॥

Verse

रामो विरामो विरजो मार्गो नेयो नेयोऽनय । वीरः शक्तिमतां श्रेष्ठो धर्मो धर्मविदुत्तमः ॥

Verse

५६ ॥

Verse

वैकुण्ठः पुरुषः प्राणः प्राणदः प्रणवः पृथुः । हिरण्यगर्भः शत्रुघ्नो व्याप्तो वायुरधोक्षजः ॥

Verse

५७ ॥

Verse

ऋतुः सुदर्शनः कालः परमेष्ठी परिग्रहः । उग्रः संवत्सरो दक्षो विश्रामो विश्वदक्षिणः ॥

Verse

५८ ॥

Verse

विस्तारः स्थावरस्थाणुः प्रमाणं बीजमव्ययम् । अर्थोऽनर्थो महाकोशो महाभोगो महाधनः ॥

Verse

५९ ॥

Verse

अनिर्विण्णः स्थविष्ठोऽभूर्धर्मयूपो महामखः । नक्षत्रनेमिर्नक्षत्री क्षमः क्षामः समीहनः ॥

Verse

६० ॥

Verse

यज्ञ इज्यो महेज्यश्च क्रतुः सत्रं सतां गतिः । सर्वदर्शी विमुक्तात्मा सर्वज्ञो ज्ञानमुत्तमम् ॥

Verse

६१ ॥

Verse

सुव्रतः सुमुखः सूक्ष्मः सुघोषः सुखदः सुह्रत् । मनोहरो जितक्रोधो वीरबाहुर्विदारणः ॥

Verse

६२ ॥

Verse

स्वापनः स्ववशो व्यापी नैकात्मा नैककर्मकृत् । वत्सरो वत्सलो वत्सी रत्नगर्भो धनेश्वरः ॥

Verse

६३ ॥

Verse

धर्मगुब्धर्मकृद्धर्मी सदसत्क्षरमक्षरम् । अविज्ञाता सहस्त्रांशुर्विधाता कृतलक्षणः ॥

Verse

६४ ॥

Verse

गभस्तिनेमिः सत्त्वस्थः सिंहो भूतमहेश्वरः । आदिदेवो महादेवो देवेशो देवभृद्‌गुरुः ॥

Verse

६५ ॥

Verse

उत्तरो गोपतिर्गोप्ता ज्ञानगम्यः पुरातनः । शरीरभूतभृद्बोक्ता कपीन्द्रो भूरिदक्षिणः ॥

Verse

६६ ॥

Verse

सोमपोऽमृतपः सोमः पुरुजित्पुरुसत्तमः । विनयो जयः सत्यसंधो दाशार्हः सात्वतां पतिः ॥

Verse

६७ ॥

Verse

जीवो विनयिता साक्षी मुकुन्दोऽमितविक्रमः । अम्भोनिधिरनन्तात्मा महोदधिशयोऽन्तकः ॥

Verse

६८ ॥

Verse

अजो महार्हः स्वाभाव्यो जितामित्रः प्रमोदनः । आनन्दो नन्दनो नन्दः सत्यधर्मा त्रिविक्रमः ॥

Verse

६९ ॥

Verse

महर्षिः कपिलाचार्यः कृतज्ञो मेदिनीपतिः । त्रिपदस्त्रिदशाध्याक्षो महाश्रृङ्गः कृतान्तकृत् ॥

Verse

७० ॥

Verse

महावराहो गोविन्दः सुषेणः कनकाङ्गदी । गुह्यो गभीरो गहनो गुप्तश्चक्रगदाधरः ॥

Verse

७१ ॥

Verse

वेधाः स्वाङ्गोऽजितः कृष्णो दृढः संकर्षणोऽच्युतः । वरुणो वारुणो वृक्षः पुष्कराक्षो महामनाः ॥

Verse

७२ ॥

Verse

भगवान्‍ भगहानन्दी वनमाली हलायुधः । आदित्यो ज्योतिरादित्यः सहिष्णुर्गतिसत्तमः ॥

Verse

७३ ॥

Verse

सुधन्वा खण्डपरशुर्दारुणो द्रविणप्रदः । दिविस्पृक्सर्वदृग्व्यासो वाचस्पतिरयोनिजः ॥

Verse

७४ ॥

Verse

त्रिसामा सामगः साम निर्वाणं भेषजं भिषक् । संन्यासकृच्छमः शान्तो निष्ठा शान्तिः परायणम् ॥

Verse

७५ ॥

Verse

शुभाङ्ग शान्तिदः स्त्रष्टा कुमुदः कुवलेशयः । गोहितो गोपतिर्गोप्ता वृषभाक्षो वृषप्रियः ॥

Verse

७६ ॥

Verse

अनिवर्ती निवृत्तात्मा संक्षेप्ता क्षेमकृच्छिवः । श्रीवत्सवक्षाः श्रीनिवासः श्रीपतिः श्रीमतां वरः ॥

Verse

७७ ॥

Verse

श्रीदः श्रीशः श्रीनिवासः श्रीनिधिः श्रीविभावनः । श्रीधरः श्रीकरः श्रेयः श्रीमाँल्लोकत्रयाश्रयः ॥

Verse

७८ ॥

Verse

स्वक्षः स्वङ्ग शतानन्दो नन्दिर्ज्योतिर्गणेश्वर्ह । विजितात्मा विधेयात्मा सत्कीर्तिश्छिन्नसंशयः ॥

Verse

७९ ॥

Verse

उदीर्णः सर्वतश्चक्षुरनीशः शाश्वतस्थिरः । भूशयो भूषणो भूतिर्विशोकः शोकनाशनः ॥

Verse

८० ॥

Verse

अर्चिष्मानर्चितः कुम्भो विशुद्धात्मा विशोधनः । अनिरुद्धोऽप्रतिरथः प्रद्युम्नोऽमितविक्रमः ॥

Verse

८१ ॥

Verse

कालनेमिनिहा वीरः शौरिः शूरजनेश्वरः । त्रिलोकात्मा त्रिलोकशः केशवः केशिहा हरिः ॥

Verse

८२ ॥

Verse

कामदेवः कामपालः कामी कान्तः कृतागमः । अनिर्देश्यवपुर्विष्णुर्वीरोऽनन्तो धनंजयः ॥

Verse

८३ ॥

Verse

ब्रह्मण्यो ब्रह्मकृद्‍ब्रह्मा ब्रह्म ब्रह्मविवर्धनः । ब्रह्मविद्‍ब्राह्मणो ब्रह्मी ब्रह्मज्ञो ब्राह्मणप्रियः ॥

Verse

८४ ॥

Verse

महाक्रमो महाकर्मा महातेजा महोरगः । महाक्रतुर्महायज्वा महायज्ञो महाहविः ॥

Verse

८५ ॥

Verse

स्तव्यः स्तवप्रियः स्तोत्रं स्तुतिः स्तोता रणप्रियः । पूर्णः पूरयिता पुण्यः पुण्यकीर्तिरनामयः ॥

Verse

८६ ॥

Verse

मनोजवस्तीर्थकरो वसुरेता वसुप्रदः । वसुप्रदो वासुदेवो वसुर्वसुमना हविः ॥

Verse

८७ ॥

Verse

सद्‍गतिः सत्कृतिः सत्ता सद्भूतिः सत्परायणः । शूरसेनो यदुश्रेष्ठः सन्निवासः सुयामुनः ॥

Verse

८८ ॥

Verse

भूतावासो वासुदेवः सर्वासुनिलयोऽनलः । दर्पहा दर्पदो दृप्तो दुर्धरोऽथापराजितः ॥

Verse

८९ ॥

Verse

विश्वमूर्तिर्महामूर्तिर्दीप्तमूर्तिरमूर्तिमान् । अनेकमूर्तिरव्यक्थ शतमूर्तिः शताननः ॥

Verse

९० ॥

Verse

एको नैकः सवः कः किं यत्तत्पदमनुत्तमम् । लोकबन्धुर्लोकनाथो माधवो भक्तवत्सलः ॥

Verse

९१ ॥

Verse

सुर्वणोवर्णो हेमाङ्गो वराङ्गश्चन्दनाङ्गदी । वीरहा विषमः शून्यो घृताशीरचलश्चलः ॥

Verse

९२ ॥

Verse

अमानी मानदो मान्यो लोकस्वामी त्रिलोकधृक् । सुमेधा मेधजो धन्यः सत्यमेधा धराधरः ॥

Verse

९३ ॥

Verse

तेजोवृषो द्युतिधरः सर्वशस्त्रभृतां वरः । प्रग्रहो निग्रहो व्यग्रो नैकश्रृङ्गो गदाग्रजः ॥

Verse

९४ ॥

Verse

चतुर्मूर्तिश्चतुर्बाहुश्चतुर्व्यूहश्चतुर्गतिः । चतुरात्मा चतुर्भावश्चतुर्वेदविदेकपात् ॥

Verse

९५ ॥

Verse

समावर्तोऽनिवृत्तात्मा दुर्जयो दुरतिक्रमः । दुर्लभो दुर्गमो दुर्गो दुरावासो दुरारिहा ॥

Verse

९६ ॥

Verse

शुभाङ्गो लोकसारङ्गः सुतन्तुस्तन्तुवर्धनः । इन्द्रकर्मा महाकर्मा कृतकर्मा कृतागमः ॥

Verse

९७ ॥

Verse

उद्भवः सुन्दरः सुन्दो रत्ननाभः सुलोचनः । अर्को वाजसनः श्रृङ्गी जयन्तः सर्वविज्जयी ॥

Verse

९८ ॥

Verse

सुवर्णबिन्दुरक्षोभ्यः सर्ववागिश्वरेश्वरः । महाह्रदो महागर्तो महाभूतो महानिधिः ॥

Verse

९९ ॥

Verse

कुमुदः कुन्दरः कुन्दः पर्जन्यः पावनोऽनिलः । अमृताशोऽमृतवपुः सर्वज्ञः सर्वतोमुखः ॥

Verse

१०० ॥

Verse

सुलभः सुव्रतः सिद्धः शत्रुजिच्छत्रुतापनः । न्यग्रोधोदुम्बरोऽश्वत्थश्चाणूरान्ध्रनिषूदनः ॥

Verse

१०१ ॥

Verse

सहस्त्रार्चिः सप्तजिह्वः सप्तैधाः सप्तवाहनः । अमूर्तिरनघोऽचिन्त्यो भयकृद्भयनाशनः ॥

Verse

१०२ ॥

Verse

अणुर्बृहत्कृशः स्थूलो गुणभृन्निर्गुणो महान् । अधृतः स्वधृतः स्वास्यः प्राग्वंशो वंशवर्धनः ॥

Verse

१०३ ॥

Verse

भारभृत्कथितो योगी योगीशः सर्वकामदः । आश्रमः श्रमणः क्षामः सुपर्णो वायुवाहनः ॥

Verse

१०४ ॥

Verse

धनुर्धरो धनुर्वेदो दण्डो दमयिता दमः । अपराजितः सर्वसहो नियन्तानियमोऽयमः ॥

Verse

१०५ ॥

Verse

सत्त्ववान्सात्त्विकः सत्यः सत्यधर्मपरायणः । अभिप्रायः प्रियार्होऽर्हः प्रियकृत्प्रीतिवर्धनः ॥

Verse

१०६ ॥

Verse

विहायसगतिर्ज्योतिः सुरुचिर्हुतभुग्विभुः । रविर्विरोचनः सूर्यः सविता रविलोचनः ॥

Verse

१०७ ॥

Verse

अनन्तो हुतभुग्भोक्ता सुखदो नैकजोऽग्रजः । अनिर्विण्णः सदामर्षी लोकाधिष्ठानमद्भुतः ॥

Verse

१०८ ॥

Verse

सनात्सनातनतमः कपिलः कपिरप्ययः । स्वस्तिदः स्वस्तिकृत्स्वस्ति स्वस्तिभुक्स्वस्तिदक्षिणः ॥

Verse

१०९ ॥

Verse

अरौद्रः कुण्डली चक्री विक्रम्यूर्जितशासनः । शब्दातिगः शब्दसहः शिशिरः शर्वरीकरः ॥

Verse

११० ॥

Verse

अक्रूरः पेशलो दक्षो दक्षिणः क्षमिणां वरः । विद्वत्तमो वीतभयः पुण्यश्रवणकीर्तनः ॥

Verse

१११ ॥

Verse

उत्तारणो दुष्कृतिहा पुण्यो दुःस्वप्ननाशनः । वीरहा रक्षणः सन्तो जीवनः पर्यवस्थितः ॥

Verse

११२ ॥

Verse

अनन्तरूपोऽनन्तश्रीर्जितमन्युर्भयापहः । चतुरस्त्रो गभीरात्मा विदिशो व्यादिशो दिशः ॥

Verse

११३ ॥

Verse

अनादिर्भूर्भुवो लक्ष्मीः सुवीरो रुचिराङ्गदः । जननो जनजन्मादिर्भीमो भीमपराक्रमः ॥

Verse

११४ ॥

Verse

आधारनिलयोऽधाता पुष्पहासः प्रजागरः । ऊर्ध्वगः सत्पथाचारः प्राणदः प्रणवः पणः ॥

Verse

११५ ॥

Verse

प्रमाणं प्राणनिलयः प्राणभृत्प्राणजीवनः । तत्त्वं तत्त्वविदेकात्मा जन्ममृत्युजरातिगः ॥

Verse

११६ ॥

Verse

भूर्भुवः स्वस्तरुस्तारः सविता प्रपितामहः । यज्ञो यज्ञपतिर्यज्वा यज्ञाङ्गो यज्ञवाहनः ॥

Verse

११७ ॥

Verse

यज्ञभृद्यज्ञकृद्यज्ञी यज्ञभुग्यज्ञसाधनः । यज्ञान्तकृद्यज्ञगुह्यमन्नमन्नाद एव च ॥

Verse

११८ ॥

Verse

आत्मयोनिः स्वयंजातो वैखानः सामगायनः । देवकीनन्दनः स्त्रष्टा क्षितीशः पापनाशनः ॥

Verse

११९ ॥

Verse

शङ्खभृन्नन्दकी चक्री शार्ङ्गधन्वा गदाधरः । रथाङ्गपाणिरक्षोभ्यः सर्वप्रहरणायुधः ॥

Verse

१२० ॥

Verse

॥

Verse

सर्वप्रहरणायुध ॐ नम इति ॥

Verse

॥

Verse

फलश्रुतिः ॥

Verse

इतीदं कीर्तनीयस्य केशवस्य महात्मनः । नाम्नां सहस्त्रं दिव्यानामशेषेण प्रकीर्तितम् ॥

Verse

१२१ ॥

Verse

य इदं श्रृणुयान्नित्यं यश्चापि परिकीर्तयेत् । नाशुभं प्राप्नुयात्किञ्चित्सोऽमुत्रेह च मानवः ॥

Verse

१२२ ॥

Verse

वेदान्तगो ब्राह्मणः स्यात्क्षत्रियो विजयी भवेत् । वैश्यो धनसमृद्धः स्याच्छूद्रः सुखमवाप्नुयात् ॥

Verse

१२३ ॥

Verse

धर्मार्थी प्राप्नुयाद्धर्ममर्थार्थी चार्थमाप्नुयात् । कामानवाप्नुयात्कामी प्रजार्थी प्राप्नुयात्प्रजाम् ॥

Verse

१२४ ॥

Verse

भक्तिमान्यः सदोत्थाय शुचिस्तद्गतमानसः । सहस्त्रं वासुदेवस्य नाम्नामेतत्प्रकीर्तयेत् ॥

Verse

१२५ ॥

Verse

यशः प्राप्नोति विपुलं ज्ञातिप्राधान्यमेव च । अचलां श्रियमाप्नोति श्रेयः प्राप्नोत्यनुत्तमम् ॥

Verse

१२६ ॥

Verse

न भयं क्वचिदाप्नोति वीर्यं तेजश्च विन्दति । भवत्यरोगो द्युतिमान्बलरूपगुणान्वितः ॥

Verse

१२७ ॥

Verse

रोगार्तो मुच्यते रोगाद्‍ बद्धो मुच्येत बन्धनात् । भयान्मुच्येत भीतस्तु मुच्येतापन्न आपदः ॥

Verse

१२८ ॥

Verse

दुर्गाण्यतितरत्याशु पुरुषः पुरुषोत्तमम् । स्तुवन्नामसहस्त्रेण नित्यं भक्तिसमन्वितः ॥

Verse

१२९ ॥

Verse

वासुदेवाश्रयो मर्त्यो वासुदेवपरायणः । सर्वपापविशुद्धात्मा याति ब्रह्म सनातनम् ॥

Verse

१३० ॥

Verse

न वासुदेवभक्तानामशुभं विद्यते क्वचित् । जन्ममृत्युजराव्याधिभयं नैवोपजायते ॥

Verse

१३१ ॥

Verse

इमं स्तवमधीयानः श्रद्धाभक्तिसमन्वितः । युज्येतात्मसुखक्षान्तिश्रीधृतिस्मृतिकीर्तिभिः ॥

Verse

१३२ ॥

Verse

न क्रोधो न च मात्सर्यं न लोभो नाशुभा मतिः । भवन्ति कृतपुण्यानां भक्तानां पुरुषोत्तमे ॥

Verse

१३३ ॥

Verse

द्यौः सचन्द्रार्कनक्षत्रा खं दिशो भूर्महोदधिः । वासुदेवस्य वीर्ये विधृतानि महात्मनः ॥

Verse

१३४ ॥

Verse

ससुरासुरगन्धर्वं सयक्षोरगराक्षसम् । जगद्वशे वर्ततेदं कृष्णस्य सचराचरम् ॥

Verse

१३५ ॥

Verse

इन्द्रियाणि मनो बुद्धिः सत्त्व्म तेजो बलं धृतिः । वासुदेआत्मकान्याहुः क्षेत्रं क्षेत्रज्ञ एव च ॥

Verse

१३६ ॥

Verse

सर्वागमानामाचारः प्रथमं परिकल्पते । आचारप्रभवो धर्मो धर्मस्य प्रभुरच्युतः ॥

Verse

१३७ ॥

Verse

ऋषयः पितरो देवा महाभूतानि धातवः । जङ्गमाजङ्गमं चेदं जगन्नारायणोद्भवम् ॥

Verse

१३८ ॥

Verse

योगो ज्ञानं तथा सांख्यं विद्याः शिल्पादि कर्म च । वेदाः शास्त्राणि विज्ञानमेतत्सर्वं जनार्दनात् ॥

Verse

१३९ ॥

Verse

एको विष्णुर्महद्भूतं पृथग्भूतान्यनेकशः । त्रील्लोकान्व्याप्य भूतात्मा भुङ्क्ते विश्वभुगव्ययः ॥

Verse

१४० ॥

Verse

इमं स्तवं भगवतो विष्णोर्व्यासेन कीर्तितम् । पठेद्य इच्छेत्पुरुषः श्रेयःप्राप्तुः सुखानि च ॥

Verse

१४१ ॥

Verse

विश्वेश्वरमजं देवं जगतः प्रभवाप्ययम् । भजन्ति ये पुष्कराक्षं न ते यान्ति पराभवम् ॥

Verse

१४२ ॥

Verse

॥

Verse

ॐ तत्सदिति श्रीमहाभारते शतसाहस्त्रयां संहितायां वैयासिक्यामानुशासनिके पर्वणि भीष्मयुधिष्ठिरसंवादे श्रीविष्णोर्दिव्यसहस्त्रनामस्तोत्रम् ।

śrī gaṃgā sahastranāmastotram
śrī rādhikā sahastranāmastotram

Read next

More on विष्णु

  • श्री विष्णु भगवान की आरतीAartis
  • श्रीविष्णुशतनामस्तोत्रम्Ashtottaranama
  • श्री विष्णु चालीसाChalisa
  • श्रीविष्णुकवचम्Kavach
  • श्रीविष्णुकवचं अथवा ब्रह्माण्डपावनकवचंKavach
  • विष्णुकवचं अथवा त्रैलोक्यमङ्गलकवचम्Kavach

सा विद्या या विमुक्तये

Built with Sankalpa at Gyaandweep

Gyaandweep

© 2022-2026 Granthajyoti Pvt Ltd.

Privacy & Terms