Fetching Data .

Loading verse structure and chapter context.

GyanDweepBeta
HomeLearnLibrary
eGurukulsDiscoverTemplesPanchanga
Sign Up
Sign Up

kavaca

śrīviṣṇukavacam

श्रीविष्णुकवचम्

Verse

ध्यानम् शान्ताकारं भुजगशयनं पद्मनाभं सुरेशं विश्वाकारं गगनसदृशं मेघवर्णं शुभाङ्गम् । लक्ष्मीकान्तं कमलनयनं योगिहृद्ध्यानगम्यं वन्दे विष्णुं भवभयहरं सर्वलोकैकनाथम् ॥

Verse

कवचम् पूर्वतो मां हरिः पातु पश्चाच्चक्री च दक्षिणे । कृष्ण उत्तरतः पातु श्रीशो विष्णुश्च सर्वतः ॥१॥

Verse

ऊर्ध्वं आनन्दकृत्पातु अधस्ताच्छार्ङ्गभृत्सदा । पादौ पातु सरोजाङ्घ्रिः जङ्घे पातु जनार्दनः ॥२॥

Verse

जानुनी मे जगन्नाथः ऊरू पातु त्रिविक्रमः । गुह्यं पातु हृषीकेशः पृष्ठं पातु ममाव्ययः ॥३॥

Verse

पातु नाभिं ममानन्तः कुक्षिं राक्षसमर्दनः । दामोदरो मे हृदयं वक्षः पातु नृकेसरी ॥४॥

Verse

करौ मे कालियारातिः भुजौ भक्तार्तिभञ्जनः । कण्ठं कालाम्बुदश्यामः स्कन्धौ मे कंसमर्दनः ॥५॥

Verse

नारायणोऽव्यान्नासां मे कर्णौ केशिप्रभञ्जनः । कपोले पातु वैकुण्ठः जिह्वां पातु दयानिधिः ॥६॥

Verse

आस्यं दशास्यहन्ताव्यान्नेत्रेमे हरि लोचनः । भ्रुवौ मे पातु भूमेशः ललाटं मे सदाऽच्युतः ॥७॥

Verse

मुखं मे पातु गोविन्दः शिरो गरुडवाहनः । मां शेषशायी सर्वेभ्यो व्याधिभ्यो भक्तवत्सलः ॥८॥

Verse

पिशाचाग्नि जलेभ्यो मां आपद्भ्यो पातु वामनः । सर्वेभ्यो दुरितेभ्यश्च पातु मां पुरुषोत्तमः ॥९॥

Verse

इतिश्रीविष्णुकवचं सर्वमङ्गलदायकम् । सर्वरोगप्रशमनं सर्वशत्रुविनाशनम् ॥१०॥

apamārjanakavacam
śrī mahālakṣmī kavacam

Read next

More on श्रीविष्णुकवचम्

  • श्रीविष्णुकवचं अथवा ब्रह्माण्डपावनकवचंKavach

सा विद्या या विमुक्तये

Built with Sankalpa at Gyaandweep

Gyaandweep

© 2022-2026 Granthajyoti Pvt Ltd.

Privacy & Terms