kavaca
śrī mahālakṣmī kavacam
श्री महालक्ष्मी कवचम्
Verse
महालक्ष्याः प्रवक्ष्यामि कवचं सर्वकामदम् । सर्वपापप्रशमनंसर्वव्याधि निवारणम् ॥१॥
Verse
दुष्टमृत्युप्रशमनं दुष्टदारिद्र्यनाशनम् । ग्रहपीडा प्रशमनं अरिष्ट प्रविभञ्जनम् ॥२॥
Verse
पुत्रपौत्रादिजनकं विवाहप्रदमिष्टदम् । चोरारिहारि जगतां अखिलेप्सित कल्पकम् ॥३॥
Verse
सावधानमना भूत्वा शृणु त्वं शुकसत्तम । अनेकजन्मसंसिद्धि लभ्यं मुक्तिफलप्रदम् ॥४॥
Verse
धनधान्य महाराज्य सर्वसौभाग्यदायकम् । सकृत्पठनमात्रेण महालक्ष्मीः प्रसीदति ॥५॥
Verse
क्षीराब्धिमध्ये पद्मानां कानने मणिमण्टपे । रत्नसिंहासने दिव्ये तन्मध्ये मणिपङ्कजे ॥६॥
Verse
तन्मध्ये सुस्थितां देवीं मरीचिजनसेविताम् । सुस्नातां पुष्पसुरभिं कुटिलालकबन्धनाम् ॥७॥
Verse
पूर्णेन्दुबिम्बवदनां अर्धचन्द्रललाटिकाम् । इन्दीवरेक्षणां कामां सर्वाण्डभुवनेश्वरीम् ॥८॥
Verse
तिलप्रसवसुस्निग्धनासिकालङ्कृतां श्रियम् । कुन्दावदातरदनां बन्धूकाधरपल्लवाम् ॥९॥
Verse
दर्पणाकारविमलकपोलद्वितयोज्ज्वलाम् । माङ्गल्याभरणोपेतां कर्णद्वितयसुन्दराम् ॥१०॥
Verse
कमलेशसुभद्राढ्ये अभयं दधतीं परम् । रोमराजिलता चारु मग्ननाभि तलोदरीम् ॥११॥
Verse
पट्टवस्त्रसमुद्भासि सुनितम्बादिलक्षणाम् । काञ्चनस्थंभविभ्राजद्वरजानूरु शोभिताम् ॥१२॥
Verse
स्मरकाहलिकागर्वहारिजङ्घां हरिप्रियाम् । कमठीपृष्ठसदृशपादाब्जां चन्द्रवन्नखाम् ॥१३॥
Verse
पङ्कजोदर लावण्यां सुतलांघ्रितलाश्रयाम् । सर्वाभरणसंयुक्तां सर्वलक्षणलक्षिताम् ॥१४॥
Verse
पितामहमहाप्रीतां नित्यतृप्तां हरिप्रियां । नित्यकारुण्यललितां कस्तूरीलेपिताङ्गिकाम् ॥१५॥
Verse
सर्वमन्त्रमयीं लक्ष्मीं श्रुतिशास्त्रस्वरूपिणीम् । परब्रह्ममयीं देवीं पद्मनाभकुटुम्बिनीम् ॥१६ ॥
Verse
एवं ध्यायेत् महालक्ष्मीं यः पठेत् कवचं परम् ॥१७॥
Verse
महलक्ष्मीः शिरः पातु ललाटं मम पङ्कजा । कर्णद्वन्द्वं रमा पातु नयने नलिनालया ॥१८॥
Verse
नासिकामवतादम्बा वाचं वाग्रूपिणी मम । दन्तानवतु जिह्वां श्रीः अधरोष्ठं हरिप्रिया ॥१९॥
Verse
चिबुकं पातु वरदा कण्ठं गन्धर्वसेविता । वक्षः कुक्षिकरौ पायुं पृष्ठमव्यात् रमा स्वयम् ॥२०॥
Verse
कट्यूरुद्वयकं जानु जङ्घे पादद्वयं शिवा । सर्वाङ्गमिन्द्रियं प्राणान् पायादायासहारिणी ॥२१॥
Verse
सप्तधातून् स्वयञ्जाता रक्तं शुक्लं मनोऽस्थि च । ज्ञानं भुक्तिर्मनोत्साहान् सर्वं मे पातु पद्मजा ॥२२॥
Verse
मया कृतन्तु यत् तद्वै तत्सर्वं पातु मङ्गला । ममायुरङ्गकान् लक्ष्मीः भार्यापुत्रांश्च पुत्रिकाः ॥२३॥
Verse
मित्राणि पातु सततं अखिलं मे वरप्रदा । ममारिनाशनार्थाय माया मृत्युञ्जया बलम् ॥२४॥
Verse
सर्वाभीष्टन्तु मे दद्यात् पातु मां कमलालया । सहजां सोदरञ्चैव शत्रुसंहारिणी वधूः ॥२५॥
Verse
बन्धुवर्गं पराशक्तिः पातु मां सर्वमङ्गला ॥
Verse
फलश्रुतिः य इदं कवचं दिव्यं रमायाः प्रयतः पठेत् । सर्वसिद्धिमवाप्नोति सर्वरक्षां च शाश्वतीम् ॥१ ॥
Verse
दीर्घायुष्मान्भवेन्नित्यं सर्वसौभाग्यशोभितम् । सर्वज्ञः सर्वदर्शी च सुखितश्च सुखोज्ज्वलः ॥२॥
Verse
सुपुत्रो गोपतिः श्रीमान् भविष्यति न संशयः । तद्गृहे न भवेद्ब्रह्मन् दारिद्र्यदुरितादिकम् ॥३॥
Verse
नाग्निना दह्यते गेहं न चोराद्यैश्च पीड्यते । भुतप्रेतपिशाचाद्याः त्रस्ता धावन्ति दूरतः ॥४॥
Verse
लिखित्वा स्थापितं यन्त्रं तत्र वृद्धिर्भवेत् ध्रुवम् । नापमृत्युमवाप्नोति देहान्ते मुक्तिमान् भवेत् ॥५॥
Verse
सायं प्रातः पठेद्यस्तु महाधनपतिर्भवेत् । आयुष्यं पौष्टिकं मेध्यं पापं दुस्स्वप्ननाशनम् ॥६॥
Verse
प्रज्ञाकरं पवित्रञ्च दुर्भिक्षाग्निविनाशनम् । चित्तप्रसादजनकं महामृत्युप्रशान्तिदम् ॥७॥
Verse
महारोगज्वरहरं ब्रह्महत्यादि शोधकम् । महासुखप्रदञ्चैव पठितव्यं सुखार्थिभिः ॥८॥
Verse
धनार्थी धनमाप्नोति विवाहार्थी लभेत् वधूः । विद्यार्थी लभते विद्यां पुत्रार्थी गुणवत्सुतान् ॥९॥
Verse
राज्यार्थी लभते राज्यं सत्यमुक्तं मया शुक । महालक्ष्म्याः मन्त्रसिद्धिः जपात् सद्यः प्रजायते ॥१०॥
Verse
एवं देव्याः प्रसादेन शुकः कवचमाप्तवान् । कवचानुग्रहेणैव सर्वान् कामानवाप्नुयात् ॥११॥
Verse
सर्वलक्षणसंपन्नां लक्ष्मीं सर्वेश्वरेश्वरीम् । प्रपद्ये शरणं देवीं पद्मपत्राक्षवल्लभाम् ॥१२॥
Verse
श्री महालक्ष्मी कवचं संपूर्णम् ॥
