Fetching Data .

Loading verse structure and chapter context.

GyanDweepBeta
HomeLearnLibrary
eGurukulsDiscoverTemplesPanchanga
Sign Up
Sign Up

kavaca

mahālakṣmī kavacam

महालक्ष्मी कवचम्

Verse

नारायण उवाच सर्व सम्पत्प्रदस्यास्य कवचस्य प्रजापतिः । ऋषिश्छन्दश्च बृहती देवी पद्मालया स्वयम् ॥१॥

Verse

धर्मार्थकाममोक्षेषु विनियोगः प्रकीर्तितः । पुण्यबीजं च महतां कवचं परमाद्भुतम् ॥२॥

Verse

ॐ ह्रीं कमलवासिन्यै स्वाहा मे पातु मस्तकम् । श्रीं मे पातु कपालं च लोचने श्रीं श्रियै नमः ॥३॥

Verse

ॐ श्रीं श्रियै स्वाहेति च कर्णयुग्मं सदावतु । ॐ श्रीं ह्रीं क्लीं महालक्ष्म्यै स्वाहा मे पातु नासिकाम् ॥४॥

Verse

ॐ श्रीं पद्मालयायै च स्वाहा दन्तं सदावतु । ॐ श्रीं कृष्णप्रियायै च दन्तरन्ध्रं सदावतु ॥५॥

Verse

ॐ श्रीं नारायणेशायै मम कण्ठं सदावतु । ॐ श्रीं केशवकान्तायै मम स्कन्धं सदावतु ॥६॥

Verse

ॐ श्रीं पद्मनिवासिन्यै स्वाहा नाभिं सदावतु । ॐ ह्रीं श्रीं संसारमात्रे मम वक्षः सदावतु ॥७॥

Verse

ॐ श्रीं श्रीं कृष्णकान्तायै स्वाहा पृष्ठं सदावतु । ॐ ह्रीं श्रीं श्रियै स्वाहा मम हस्तौ सदावतु ॥८॥

Verse

ॐ श्रीं निवासकान्तायै मम पादौ सदावतु । ॐ ह्रीं श्रीं क्लीं श्रियै स्वाहा सर्वांगं मे सदावतु ॥९॥

Verse

प्राच्यां पातु महालक्ष्मीराग्नेय्यां कमलालया । पद्मा मां दक्षिणे पातु नैर्ऋत्यां श्रीहरिप्रिया ॥१०॥

Verse

पद्मालया पश्चिमे मां वायव्यां पातु श्रीः स्वयम् । उत्तरे कमला पातु ऐशान्यां सिन्धुकन्यका ॥११॥

Verse

नारायणेशी पातूर्ध्वमधो विष्णुप्रियावतु । संततं सर्वतः पातु विष्णुप्राणाधिका मम ॥१२॥

Verse

इति ते कथितं वत्स सर्वमन्त्रौघविग्रहम् । सर्वैश्वर्यप्रदं नाम कवचं परमाद्भुतम् ॥१३॥

Verse

सुवर्णपर्वतं दत्त्वा मेरुतुल्यं द्विजातये । यत् फलं लभते धर्मी कवचेन ततोऽधिकम् ॥१४॥

Verse

गुरुमभ्यर्च्य विधिवत् कवचं धारयेत् तु यः । कण्ठे वा दक्षिणे वाहौ स श्रीमान् प्रतिजन्मनि ॥१५॥

Verse

अस्ति लक्ष्मीर्गृहे तस्य निश्चला शतपूरुषम् । देवेन्द्रैश्चासुरेन्द्रैश्च सोऽत्रध्यो निश्चितं भवेत् ॥१६॥

Verse

स सर्वपुण्यवान् धीमान् सर्वयज्ञेषु दीक्षितः । स स्नातः सर्वतीर्थेषु यस्येदं कवचं गले ॥१७॥

Verse

यस्मै कस्मै न दातव्यं लोभमोहभयैरपि । गुरुभक्ताय शिष्याय शरणाय प्रकाशयेत् ॥१८॥

Verse

इदं कवचमज्ञात्वा जपेल्लक्ष्मीं जगत्प्सूम् । कोटिसंख्यं प्रजप्तोऽपि न मन्त्रः सोद्धिदायकः ॥१९॥

॥ śrī gaṇeśāya namaḥ ॥
śrīkṛṣṇa kavaca

Read next

More on महालक्ष्मी

  • श्री महालक्ष्मी कवचम्Kavach
  • श्री महालक्ष्मी कवचम्Kavach
  • श्रीमहालक्ष्मीकवचम्Kavach
  • श्रीमहालक्ष्मीस्तवकवचपूजाKavach
  • श्री-वरमहालक्ष्मी-पूजाPuja Vidhanam
  • महालक्ष्मीस्तुतिः (अगस्त्यकृता)Stotra

सा विद्या या विमुक्तये

Built with Sankalpa at Gyaandweep

Gyaandweep

© 2022-2026 Granthajyoti Pvt Ltd.

Privacy & Terms