Fetching Data .

Loading verse structure and chapter context.

GyanDweepBeta
HomeLearnLibrary
eGurukulsDiscoverTemplesPanchanga
Sign Up
Sign Up

kavaca

॥ śrī gaṇeśāya namaḥ ॥

॥ श्री गणेशाय नमः ॥

Verse

॥ श्रीनारद उवाच ॥

Verse

इन्द्राद्यमरवर्गेषु ब्रह्मन्यत्परमाऽद्भुतम् । अक्षयं कवचं नाम कथयस्व मम प्रभो ॥१॥

Verse

यद्धृत्वाऽऽकर्ण्य वीरस्तु त्रैलोक्य विजयी भवेत् । ॥ ब्रह्मोवाच ॥

Verse

श्रृणु पुत्र ! मुनिश्रेष्ठ ! कवचं परमाद्भुतम् ॥२॥

Verse

इन्द्रादि-देव वृन्दैश्च नारायण मुखाच्छ्रतम् । त्रैलोक्य-विजयस्यास्य कवचस्य प्रजापतिः ॥३॥

Verse

ऋषिश्छन्दो देवता च सदा नारायणः प्रभुः । विनियोगः- ॐ अस्य श्रीत्रैलोक्यविजयाक्षयकवचस्य प्रजापतिऋर्षिः, अनुष्टुप्छन्दः, श्रीनारायणः परमात्मा देवता, धर्मार्थकाममोक्षार्थे जपे विनियोगः । पादौ रक्षतु गोविन्दो जङ्घे पातु जगत्प्रभुः ॥४॥

Verse

ऊरू द्वौ केशवः पातु कटी दामोदरस्ततः । वदनं श्रीहरिः पातु नाडीदेशं च मेऽच्युतः ॥५॥

Verse

वाम पार्श्वं तथा विष्णुर्दक्षिणं च सुदर्शनः । बाहुमूले वासुदेवो हृदयं च जनार्दनः ॥६॥

Verse

कण्ठं पातु वराहश्च कृष्णश्च मुखमण्डलम् । कर्णौ मे माधवः पातु हृषीकेशश्च नासिके ॥७॥

Verse

नेत्रे नारायणः पातु ललाटं गरुडध्वजः । कपोलं केशवः पातु चक्रपाणिः शिरस्तथा ॥८॥

Verse

प्रभाते माधवः पातु मध्याह्ने मधुसूदनः । दिनान्ते दैत्यनाशश्च रात्रौ रक्षतु चन्द्रमाः ॥९॥

Verse

पूर्वस्यां पुण्डरीकाक्षो वायव्यां च जनार्दनः । इति ते कथितं वत्स सर्वमन्त्रौघविग्रहम् ॥१०॥

Verse

तव स्नेहान्मयाऽऽख्यातं न वक्तव्यं तु कस्यचित् । कवचं धारयेद्यस्तु साधको दक्षिणे भुजे ॥११॥

Verse

देवा मनुष्या गन्धर्वा यज्ञास्तस्य न संशयः । योषिद्वामभुजे चैव पुरुषो दक्षिणे भुजे ॥१२॥

Verse

विभ्रुयात्कवचं पुण्यं सर्वसिद्धियुतो भवेत् । कण्ठे यौ धारयेदेतत् कवचं मत्स्वरूपिणम् ॥१३॥

Verse

युद्धे जयमवाप्नोति द्यूते वादे च साधकः । सर्वथा जयमाप्नोति निश्चितं जन्मजन्मनि ॥१४॥

Verse

अपुत्रो लभते पुत्रं रोगनाशस्तथा भवेत् । सर्वताप प्रमुक्तश्च विष्णुलोकं स गच्छति ॥१५॥

Verse

॥ इति ब्रह्मसंहितोक्तं श्रीगोपालाक्षयकवचं सम्पूर्णम् ॥

Verse

गर्भपात की आशंका होने पर या बार-बार गर्भपात होने की स्थिति में उक्त स्तोत्र का पाठ नियमित करना चाहिये ॥

śrīnṛsiṃha kavaca
mahālakṣmī kavacam

Read next

More on गणेशाय नमः

  • श्रीगणेशाय नमः ॥Ashtakam
  • श्रीगणेशाय नमः ॥Ashtakam
  • श्रीगणेशाय नमः ॥Ashtakam
  • श्रीगणेशाय नमः ॥Ashtakam
  • श्रीगणेशाय नमः ॥Ashtakam
  • श्रीगणेशाय नमः ॥Ashtakam

सा विद्या या विमुक्तये

Built with Sankalpa at Gyaandweep

Gyaandweep

© 2022-2026 Granthajyoti Pvt Ltd.

Privacy & Terms