Preparing Your Space .

Settling the page into your current context.

GyanDweepBeta
HomeLearnLibrary
eGurukulsDiscoverTemplesPanchanga
Sign Up
Sign Up

pujavidhanam

śrī-varamahālakṣmī-pūjā

श्री-वरमहालक्ष्मी-पूजा

Verse

Verse

शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये

Verse

ममोपात्त-समस्त-दुरित-क्षयद्वारा श्री-परमेश्वर-प्रीत्यर्थं शुभे शोभने मुहूर्ते अद्य ब्रह्मणः द्वितीयपरार्धे श्वेतवराहकल्पे वैवस्वतमन्वन्तरे अष्टाविंशतितमे कलियुगे प्रथमे पादे जम्बूद्वीपे भारतवर्षे भरतखण्डे मेरोः दक्षिणे पार्श्वे शकाब्दे अस्मिन् वर्तमाने व्यावहारिकाणां प्रभवादीनां षष्ट्याः संवत्सराणां मध्ये [[samvatsara]] नाम संवत्सरे दक्षिणायने वर्ष-ऋतौ (कटक/सिंह)-श्रावण-मासे शुक्लपक्षे [[tithi]] शुभतिथौ भृगुवासरयुक्तायाम् [[nakshatra]] नक्षत्र [[yoga]]-योग [[karana]]-करण-युक्तायां च एवं गुण विशेषण विशिष्टायाम् अस्याम् [[tithi]] शुभतिथौ अस्माकं सहकुटुम्बानां क्षेमस्थैर्य-धैर्य-वीर्य-विजय-आयुरारोग्य-ऐश्वर्याभिवृद्ध्यर्थम् धर्मार्थकाममोक्षचतुर्विधफलपुरुषार्थसिद्ध्यर्थं पुत्रपौत्राभिवृद्ध्यर्थम् इष्टकाम्यार्थसिद्ध्यर्थम् मम इहजन्मनि पूर्वजन्मनि जन्मान्तरे च सम्पादितानां ज्ञानाज्ञानकृतमहापातकचतुष्टय-व्यतिरिक्तानां रहस्यकृतानां प्रकाशकृतानां सर्वेषां पापानां सद्य अपनोदनद्वारा सकल-पापक्षयार्थं आयुष्मत्सत्सन्तानसमृद्ध्यर्थं दीर्घसौमङ्गल्यावाप्त्यर्थं श्रीवरमहालक्ष्मी-प्रसादसिद्ध्यर्थं यथाशक्ति-ध्यानावाहनादिषोडशोपचारैः श्रीवरमहालक्ष्मी-पूजां करिष्ये। तदङ्गं कलशपूजां च करिष्ये।

Verse

श्रीविघ्नेश्वराय नमः यथास्थानं प्रतिष्ठापयामि। शोभनार्थे क्षेमाय पुनरागमनाय च। (गणपति-प्रसादं शिरसा गृहीत्वा)

Verse

Verse

Verse

Verse

Verse

Verse

Verse

(मूलाम्—५०६४तमे कल्यब्दे १९६२तमे लौकिकाब्दे कामकोटिप्रदीप-पत्रिकायां प्रकाशितम् आधृत्य सज्जीकृता)

Verse

पद्मासनां पद्मकरां पद्ममालाविभूषिताम् क्षीरसागरसम्भूतां हेमवर्णसमप्रभाम्

Verse

क्षीरवर्गसमं वस्त्रं दधानां हरिवल्लभाम् भावये भक्तियोगेन कलशेऽस्मिन् मनोहरे

Verse

अस्मिन् कलशे श्री-वरलक्ष्मीं ध्यायामि।

Verse

बालभानुप्रतीकाशे पूर्णचन्द्रनिभानने सूत्रेऽस्मिन् सुस्थिरा भूत्वा प्रयच्छ बहुलान् वरान् इति दोरस्थापनम्।

Verse

सर्वमङ्गलमाङ्गल्ये विष्णुवक्षस्थलालये आवाहयामि देवि त्वामभीष्टफलदा भव श्री-वरलक्ष्मीमावाहयामि।

Verse

अनेकरत्नखचितं क्षीरसागरसम्भवे स्वर्णसिहासनं देवि स्वीकुरुष्व हरिप्रिये श्री-वरलक्ष्म्यै नमः, आसनं समर्पयामि।

Verse

गङ्गादिसरिदानीतं गन्धपुष्पसमन्वितम् पाद्यं ददामि ते देवि प्रसीद परमेश्वरि श्री-वरलक्ष्म्यै नमः, पाद्यं समर्पयामि।

Verse

गङ्गानदीसमानीतं सुवर्णकलशस्थितम् गृहाणार्घ्यं मया दत्तं पुत्रपौत्रफलप्रदे श्री-वरलक्ष्म्यै नमः, अर्घ्यं समर्पयामि।

Verse

प्रसन्नं शीतलं तोयं प्रसन्नमुखपङ्कजे गृहाणाचमनार्थाय गरुडध्वजवल्लभे श्री-वरलक्ष्म्यै नमः, आचमनं समर्पयामि।

Verse

महालक्ष्मि महादेवि मध्वाज्यदधिसंयुतम् मधुपर्कं गृहाणेमं मधुसूदनवल्ल्भे श्री-वरलक्ष्म्यै नमः, मधुपर्कं समर्पयामि।

Verse

पयोदधिघृतैर्युक्तं शर्करामधुसंयुतम् पञ्चामृतं गृहाणेदं वरलक्ष्मि नमोऽस्तु ते श्री-वरलक्ष्म्यै नमः, पञ्चामृतं समर्पयामि।

Verse

हेमकुम्भस्थितं स्वच्छं गङ्गादिसरिदाहृतम् स्नानार्थं सलिलं देवि गृह्यतां सागरात्मजे श्री-वरलक्ष्म्यै नमः, स्नानं समर्पयामि। स्नानान्तरम् आचमनीयं समर्पयामि।

Verse

दिव्याम्बरयुगं सूक्ष्मं कञ्चुकं च मनोहरम् वरलक्ष्मि महादेवि गृहाणेदं मयाऽर्पितम् श्री-वरलक्ष्म्यै नमः, वस्त्रं समर्पयामि।

Verse

माङ्गल्यमणिसंयुक्तं मुक्ता-विद्रुमसंयुतम् दत्तं मङ्गलसूत्रं च गृहाण हरिवल्लभे श्री-वरलक्ष्म्यै नमः, कण्ठसूत्रं समर्पयामि।

Verse

रत्नताटङ्ककेयूरहारकङ्कणभूषिते भूषणानि महार्हाणि गृहाण करुणानिधे श्री-वरलक्ष्म्यै नमः, आभरणानि समर्पयामि।

Verse

कर्पूरचन्दनोपेतं कस्तूरीकुङ्कुमान्वितम् सर्वगन्धं गृहाणाद्य सर्वमङ्गलदायिनि श्री-वरलक्ष्म्यै नमः, गन्धान् धारयामि।

Verse

शालिजातान् चन्द्रवर्णान् स्निग्धमौक्तिकसन्निभान् अक्षतान् देवि गृह्णीष्व पङ्कजाक्षस्य वल्लभे श्री-वरलक्ष्म्यै नमः, अक्षतान् समर्पयामि।

Verse

मन्दारपारिजाताब्जैः केतक्युत्पलपाटलैः मल्लिकाजातिवकुलैः पुष्पैस्त्वां पूजयाम्यहम् श्री-वरलक्ष्म्यै नमः, पुष्पमालां समर्पयामि। पुष्पैः पूजयामि।

Verse

१.वरलक्ष्म्यै नमः — पादौ पूजयामि

Verse

२.महालक्ष्म्यै नमः — गुल्फौ पूजयामि

Verse

३.इन्दिरायै नमः — जङ्घे पूजयामि

Verse

४.चण्डिकायै नमः — जानुनी पूजयामि

Verse

५.क्षीराब्धितनयायै नमः — ऊरू पूजयामि

Verse

६.पीताम्बरधारिण्यै नमः — कटिं पूजयामि

Verse

७.सागरसम्भवायै नमः — गुह्यं पूजयामि

Verse

८.नारायणप्रियायै नमः — नाभिं पूजयामि

Verse

९.जगत्कुक्ष्यै नमः — कुक्षिं पूजयामि

Verse

१०.विश्वजनन्यै नमः — वक्षः पूजयामि

Verse

११.सुस्तन्यै नमः — स्तनौ पूजयामि

Verse

१२.कम्बुकण्ठ्यै नमः — कण्ठं पूजयामि

Verse

१३.सुन्दर्यै नमः — स्कन्धौ पूजयामि

Verse

१४.पद्महस्तायै नमः — हस्तान् पूजयामि

Verse

१५.बहुप्रदायै नमः — बाहून् पूजयामि

Verse

१६.चन्द्रवदनायै नमः — वक्त्रं पूजयामि

Verse

१७.चञ्चलायै नमः — चुबुकं पूजयामि

Verse

१८.बिम्बोष्ठ्यै नमः — ओष्ठं पूजयामि

Verse

१९.अनघायै नमः — अधरं पूजयामि

Verse

२०.सुकपोलायै नमः — कपोलौ पूजयामि

Verse

२१.फलप्रदायै नमः — फालम् पूजयामि

Verse

२२.नीलालकायै नमः — अलकान् पूजयामि

Verse

२३.शिवायै नमः — शिरः पूजयामि

Verse

२४.सर्वमङ्गलायै नमः — सर्वाण्यङ्गानि पूजयामि

Verse

आदिलक्ष्म्यै नमः

Verse

धान्यलक्ष्म्यै नमः

Verse

धैर्यलक्ष्म्यै नमः

Verse

गजलक्ष्म्यै नमः

Verse

सन्तानलक्ष्म्यै नमः

Verse

विजयलक्ष्म्यै नमः

Verse

विद्यालक्ष्म्यै नमः

Verse

धनलक्ष्म्यै नमः

Verse

वरलक्ष्म्यै नमः

Verse

महालक्ष्म्यै नमः

Verse

Verse

श्री-वरलक्ष्म्यै नमः, नानाविधपरिमलपत्रपुष्पाणि समर्पयामि।

Verse

धूपं ददामि ते रम्यं गुग्गुल्वगरुसंयुतम् गृहाण त्वं महालक्ष्मि भक्तानामिष्टदायिनि श्री-वरलक्ष्म्यै नमः, धूपमाघ्रापयामि।

Verse

साज्यं त्रिवर्तिसंयुक्तं सर्वाभीष्टप्रदायिनि दीपं गृहाण कमले देहि मे सर्वमीप्सितम् श्री-वरलक्ष्म्यै नमः, अलङ्कार-दीपं सन्दर्शयामि।

Verse

नानाभक्ष्यसमायुक्तं नानाफलसमन्वितम् नैवेद्यं गृह्यतां देवि नारायणकुटुम्बिनि श्री-वरलक्ष्म्यै नमः, नैवेद्यं समर्पयामि।

Verse

उशीरवासितं तोयं शीतलं शशिसोदरि पानाय गृह्यतां देवि पारावारतनूभवे श्री-वरलक्ष्म्यै नमः, पानीयं समर्पयामि।

Verse

पूगीफलं सकर्पूरं नागवल्लीदलानि च चूर्णं च चन्द्रसहजे गृह्यतां हरिवल्लभे श्री-वरलक्ष्म्यै नमः, ताम्बूलं समर्पयामि।

Verse

नीराजनं नीरजाक्षि नारायणविलासिनि गृह्यतामर्पितं भक्त्या गरुडध्वजभामिनि श्री-वरलक्ष्म्यै नमः, कर्पूरनीराजनं सन्दर्शयामि।

Verse

कर्पूरनीराजनानन्तरम् आचमनीयं समर्पयामि।

Verse

पुष्पाञ्जलिं गृहाणेमं पुरुषोत्तमवल्लभे वरलक्ष्मि नमस्तुभ्यं वरान्देहि ममाखिलान् श्री-वरलक्ष्म्यै नमः, मन्त्रपुष्पाञ्जलिं समर्पयामि।

Verse

सर्वमङ्गललाभाय सर्वपापनिवृत्तये प्रदक्षिणं करोम्यद्य प्रसीद परमेश्वरि श्री-वरलक्ष्म्यै नमः, प्रदक्षिणं समर्पयामि।

Verse

नमोऽस्तु नालीकनिभाननायै नमोऽस्तु नारायणवल्लभायै नमोऽस्तु रत्नाकरसम्भवायै नमोऽस्तु लक्ष्म्यै जगतां जनन्यै श्री-वरलक्ष्म्यै नमः, नमस्कारान् समर्पयामि।

Verse

आयुरारोग्यमैश्वर्यं पुत्रपौत्रान् पशून् धनम् शत्रुक्षयं महालक्ष्मि प्रयच्छ करुणानिधे श्री-वरलक्ष्म्यै नमः, प्रार्थनाः समर्पयामि।

Verse

कमलायै नमः — प्रथमग्रन्थिं पूजयामि।

Verse

रमायै नमः — द्वितीयग्रन्धिं पूजयामि।

Verse

लोकमात्रे नमः — तृतीयग्रन्थिं पूजयामि।

Verse

विश्वजनन्यै नमः — चतुर्थग्रन्थिं पूजयामि।

Verse

महालक्ष्म्यै नमः — पञ्चमग्रन्थिं पूजयामि।

Verse

क्षीराब्धितनयायै नमः — षष्ठग्रन्थिं पूजयामि।

Verse

विश्वसाक्षिण्यै नमः — सप्तमग्रन्थिं पूजयामि।

Verse

चन्द्रसहोदर्यै नमः — अष्टमग्रन्थिं पूजयामि।

Verse

हरिवल्लभायै नमः — नवमग्रन्थिं पूजयामि।

Verse

सर्वमङ्गलमाङ्गल्ये सर्वपापप्रणाशिनि दोरकं प्रतिगृह्णामि सुप्रीता भव सर्वदा इति दोरकं हस्तेन गृहीत्वा।

Verse

करिष्यामि व्रतं देवि त्वद्भक्ता त्वत्परायणा श्रियं देहि यशो देहि सौभाग्यं देहि मे शुभे

Verse

नवतन्तुसमायुक्तं नवग्रन्थिसमन्वितम् बध्नीयां दक्षिणे हस्ते दोरकं हरिवल्लभे इति दोरकं बध्नीयात्।

Verse

ममोपात्त-समस्त-दुरित-क्षयद्वारा श्री-वरलक्ष्मी-प्रीत्यर्थं वरलक्ष्मीपूजान्ते क्षीरार्घ्यप्रदानं करिष्ये॥

Verse

गोक्षीरेण युतं देवि गन्धपुष्पसमन्वितम् अर्घ्यं गृहाण वरदे वरलक्ष्मि नमोऽस्तु ते श्री-वरलक्ष्म्यै नमः, इदमर्घ्यम् इदमर्घ्यम् इदमर्घ्यम्।

Verse

इन्दिरा प्रतिगृह्णाति इन्दिरा वै ददाति च इन्दिरा तारयेद् द्वाभ्यां इन्दिरायै नमो नमः

Verse

हिरण्यगर्भगर्भस्थं हेमबीजं विभावसोः अनन्तपुण्यफलदम् अतः शान्तिं प्रयच्छ मे

Verse

श्रीवरमहालक्ष्मीपूजाकाले अस्मिन् मया क्रियमाण- श्रीवरमहालक्ष्मीपूजायां यद्देयमुपायनदानं तत्प्रत्याम्नायार्थं हिरण्यं श्रीवरमहालक्ष्मीप्रीतिं कामयमानः मनसोद्दिष्टाय ब्राह्मणाय तुभ्यमहं सम्प्रददे नमः न मम। अनया पूजया श्रीवरमहालक्ष्मीः प्रीयताम्।

Verse

इति उपायनं दत्त्वा सुवासिनीश्च सम्पूजयेत्॥

Verse

इति वरलक्ष्मीपूजाविधिः॥

Verse

दामोदरि नमस्तेऽस्तु नमस्त्रैलोक्यमातृके नमस्तेऽस्तु महालक्ष्मि त्राहि मां परमेश्वरि

Verse

सर्वदा देहि मे द्रव्यं दानायापि च भुक्तये धनधान्यं धरां हर्षं कीर्तिम् आयुश्च देहि मे

Verse

यन्मया वाञ्छितं देवि तत्सर्वं सफलं कुरु न बाधन्तां कुकर्माणि सङ्कटं मे निवारय

Verse

Verse

Verse

न्यूनं वाऽप्यगुणं वाऽपि यन्मया मोहितं कृतम् सर्वं तदस्तु सम्पूर्णं त्वत्प्रसादान्महेश्वरि

Verse

लक्ष्मि त्वत्कृपया नित्यं कृता पूजा तवाऽऽज्ञया स्थिरा भव गृहे ह्यस्मिन् मम सन्तानकर्मणि

Verse

कायेन वाचा मनसेन्द्रियैर्वा बुद्‌ध्याऽऽत्मना वा प्रकृतेः स्वभावात् करोमि यद्यत् सकलं परस्मै नारायणायेति समर्पयामि

Verse

सर्वं तत्सद्ब्रह्मार्पणमस्तु।

śrī-vyāsa-pūrṇimā-pūjā
yajurveda-upākarma

सा विद्या या विमुक्तये

Built with Sankalpa at Gyaandweep

Gyaandweep

© 2022-2026 Granthajyoti Pvt Ltd.

Privacy & Terms