pujavidhanam
śrī-vyāsa-pūrṇimā-pūjā
श्री-व्यास-पूर्णिमा-पूजा
Verse
Verse
शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये
Verse
प्राणान् आयम्य।
Verse
ममोपात्त-समस्त-दुरित-क्षयद्वारा श्री-परमेश्वर-प्रीत्यर्थं शुभे शोभने मुहूर्ते अद्य ब्रह्मणः द्वितीयपरार्धे श्वेतवराहकल्पे वैवस्वतमन्वन्तरे अष्टाविंशतितमे कलियुगे प्रथमे पादे जम्बूद्वीपे भारतवर्षे भरतखण्डे मेरोः दक्षिणे पार्श्वे शकाब्दे अस्मिन् वर्तमाने व्यावहारिकाणां प्रभवादीनां षष्ट्याः संवत्सराणां मध्ये [[samvatsara]] नाम संवत्सरे दक्षिणायने ग्रीष्म -ऋतौ कटक-आषाढ -मासे शुक्ल पक्षे पौर्णमास्यां शुभतिथौ [[vasara]] -वासरयुक्तायां [[nakshatra]] -नक्षत्र- [[yoga]] -योग- [[karana]] -करण-युक्तायां च एवं गुण-विशेषण-विशिष्टायाम् अस्याम् पौर्णमास्यां शुभतिथौ
Verse
उत्तराषाढा-नक्षत्रे धनूराशौ आविर्भूतानां श्रीमत्-शङ्कर-विजयेन्द्र-सरस्वती-श्रीपादानां, शतभिषङ्-नक्षत्रे कुम्भ-राशौ आविर्भूतानां श्रीमत्-सत्य-चन्द्रशेखरेन्द्र-सरस्वती-श्रीपादानाम् अस्माकं जगद्गुरूणां दीर्घ-आयुः-आरोग्य-सिद्ध्यर्थं,
Verse
तैः सङ्कल्पितानां सर्वेषां लोक-क्षेमार्थ-कार्याणां वेद-शास्त्रादि-सम्प्रदाय-पोषण-कार्याणां विविध-क्षेत्र-यात्रायाश्च अविघ्नतया सम्पूर्त्यर्थं
Verse
कामकोटि-गुरु-परम्परायां कामकोटि-भक्त-जनानाम् अचञ्चल-भावशुद्ध-दृढतर-भक्ति-सिद्ध्यर्थं, परस्पर-ऐकमत्य-सिद्ध्यर्थं
Verse
भारतीयानां महाजनानां विघ्न-निवृत्ति-पूर्वक-सत्कार्य-प्रवृत्ति-द्वारा ऐहिक-आमुष्मिक-अभ्युदय-प्राप्त्यर्थम्, असत्कार्येभ्यः निवृत्त्यर्थं
Verse
भारतीयानां सन्ततेः सनातन-सम्प्रदाये श्रद्धा-भक्त्योः अभिवृद्ध्यर्थं
Verse
सर्वेषां द्विपदां चतुष्पदाम् अन्येषां च प्राणि-वर्गाणाम् आरोग्य-युक्त-सुख-जीवन-अवाप्त्यर्थम्
Verse
अस्माकं सह-कुटुम्बानां धर्म-अर्थ-काम-मोक्ष-रूप-चतुर्विध-पुरुषार्थ-सिद्ध्यर्थं विवेक-वैराग्य-सिद्ध्यर्थं
Verse
श्री-व्यासाचार्य-प्रीत्यर्थं व्यास-पूर्णिमा-महोत्सवे
Verse
यथाशक्ति-ध्यान-आवाहनादि-षोडशोपचारैः श्री-व्यासाचार्य-पूजां करिष्ये। तदङ्गं कलशपूजां च करिष्ये।
Verse
श्रीविघ्नेश्वराय नमः यथास्थानं प्रतिष्ठापयामि। शोभनार्थे क्षेमाय पुनरागमनाय च। (गणपति-प्रसादं शिरसा गृहीत्वा)
Verse
Verse
Verse
Verse
Verse
Verse
Verse
अभ्र-श्यामः पिङ्ग-जटा-बद्ध-कलापः प्रांशुर्दण्डी कृष्णमृग-त्वक्-परिधानः सर्वान् लोकान् पावयमानः कवि-मुख्यः पाराशर्यः पर्व-सुरूपं विवृणोतु
Verse
व्यासं वसिष्ठ-नप्तारं शक्तेः पौत्रमकल्मषम् पराशरात्मजं वन्दे शुक-तातं तपोनिधिम्
Verse
कृष्ण-द्वैपायनं व्यासं सर्व-भूत-हिते रतम् वेदाब्ज-भास्करं वन्दे शमादि-निलयं मुनिम्
Verse
विश्वरूपं च विश्वेशं विश्व-सत्ता-प्रदं शिवम् वेदयोनिमहं वन्दे व्यासं वेदार्थ-सिद्धिदम्
Verse
अस्मिन् चित्रपटे/पुस्तके/कलशे श्री-व्यासाचार्यान् ध्यायामि। श्री-व्यासाचार्यान् आवाहयामि। श्री-व्यासाचार्येभ्यो नमः, आसनं समर्पयामि। श्री-व्यासाचार्येभ्यो नमः, स्वागतं व्याहरामि। पूर्णकुम्भं समर्पयामि। श्री-व्यासाचार्येभ्यो नमः, पाद्यं समर्पयामि। श्री-व्यासाचार्येभ्यो नमः, अर्घ्यं समर्पयामि। श्री-व्यासाचार्येभ्यो नमः, आचमनीयं समर्पयामि। श्री-व्यासाचार्येभ्यो नमः, मधुपर्कं समर्पयामि। श्री-व्यासाचार्येभ्यो नमः, स्नपयामि। स्नानानन्तरम् आचमनीयं समर्पयामि। श्री-व्यासाचार्येभ्यो नमः, वस्त्रं समर्पयामि। श्री-व्यासाचार्येभ्यो नमः, यज्ञोपवीतं समर्पयामि। श्री-व्यासाचार्येभ्यो नमः, दिव्यपरिमलगन्धान् धारयामि। गन्धस्योपरि हरिद्राकुङ्कुमं समर्पयामि। श्री-व्यासाचार्येभ्यो नमः, अक्षतान् समर्पयामि। पुष्पैः पूजयामि।
Verse
Verse
श्री-व्यासाचार्येभ्यो नमः, नानाविधपरिमलपत्रपुष्पाणि समर्पयामि। श्री-व्यासाचार्येभ्यो नमः, धूपमाघ्रापयामि। श्री-व्यासाचार्येभ्यो नमः, दीपं दर्शयामि। श्री-व्यासाचार्येभ्यो नमः, अमृतं महानैवेद्यं पानीयं च निवेदयामि। निवेदनानन्तरम् आचमनीयं समर्पयामि। श्री-व्यासाचार्येभ्यो नमः, कर्पूरताम्बूलं समर्पयामि। श्री-व्यासाचार्येभ्यो नमः, मङ्गलनीराजनं दर्शयामि। श्री-व्यासाचार्येभ्यो नमः, प्रदक्षिणनमस्कारान् समर्पयामि।
Verse
श्री-व्यासाचार्येभ्यो नमः, प्रार्थनाः समर्पयामि।
Verse
जयति पराशरसूनुः सत्यवतीहृदयनन्दनो व्यासः यस्याऽऽस्यकमलगलितं वाङ्मयममृतं जगत् पिबति
Verse
कृष्णाय शुद्धचैतन्याय नमः वासुदेवाय नमः सङ्कर्षणाय नमः प्रद्युम्नाय नमः अनिरुद्धाय नमः ब्रह्मणे नमः सरस्वत्यै नमः सनकाय नमः सनन्दनाय नमः सनातनाय नमः सनत्कुमाराय नमः सनत्सुजाताय नमः नारदाय नमः वेदव्यासाय नमः शुकाय नमः पैलाय नमः वैशम्पायनाय नमः जैमिनये नमः सुमन्तवे नमः द्रविडाचार्येभ्यो नमः गौडपादाचार्येभ्यो नमः गोविन्दभगवत्पादाचार्येभ्यो नमः शङ्कराचार्येभ्यो नमः पद्मपादाचार्येभ्यो नमः सुरेश्वराचार्येभ्यो नमः हस्तामलकाचार्येभ्यो नमः तोटकाचार्येभ्यो नमः संक्षेपकाचार्येभ्यो नमः विवरणाचार्येभ्यो नमः परात्परगुरुभ्यो नमः परमेष्ठिगुरुभ्यो नमः परमगुरुभ्यो नमः गुरुभ्यो नमः अन्येभ्यो ब्रह्मविद्यासम्प्रदायकर्तृभ्य आचार्येभ्यो नमः
Verse
निगमानपि योऽन्वशाच्चतुर्धा व्यधिताष्टादशधाऽपि यः पुराणम् स च सात्यवतेय ईप्सितं मे सकलाम्नायशिरोगुरुर्विधत्ताम्
Verse
शङ्करं शङ्कराचार्यं केशवं बादरायणम् सूत्रभाष्यकृतौ वन्दे भगवन्तौ पुनः पुनः
Verse
Verse
Verse
जय जय शङ्कर हर हर शङ्कर जय जय शङ्कर हर हर शङ्कर काञ्चीशङ्कर कामकोटिशङ्कर हर हर शङ्कर जय जय शङ्कर
Verse
कायेन वाचा मनसेन्द्रियैर्वा बुद्ध्याऽऽत्मना वा प्रकृतेः स्वभावात् करोमि यद्यत् सकलं परस्मै नारायणायेति समर्पयामि
Verse
अनेन पूजनेन श्री-व्यासाचार्याः प्रीयन्ताम्।
Verse
ॐ तत्सद्ब्रह्मार्पणमस्तु।
