Preparing Your Space .

Settling the page into your current context.

GyanDweepBeta
HomeLearnLibrary
eGurukulsDiscoverTemplesPanchanga
Sign Up
Sign Up

pujavidhanam

śrī-citragupta-pūjā

श्री-चित्रगुप्त-पूजा

Verse

मूलम्—श्रीवत्स वे. सोमदेव-शर्मा, ``पूजा-कल्पाः'' (चेन्नै, १९८७), पृ. ६–१३

Verse

Verse

शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये

Verse

प्राणान् आयम्य।

Verse

ममोपात्त-समस्त-दुरित-क्षयद्वारा श्री-परमेश्वर-प्रीत्यर्थं शुभे शोभने मुहूर्ते अद्य ब्रह्मणः द्वितीयपरार्धे श्वेतवराहकल्पे वैवस्वतमन्वन्तरे अष्टाविंशतितमे कलियुगे प्रथमे पादे जम्बूद्वीपे भारतवर्षे भरतखण्डे मेरोः दक्षिणे पार्श्वे शकाब्दे अस्मिन् वर्तमाने व्यावहारिकाणां प्रभवादीनां षष्ट्याः संवत्सराणां मध्ये [[samvatsara]] नाम संवत्सरे उत्तरायणे वसन्त -ऋतौ मेष-चैत्र -मासे शुक्ल पक्षे पौर्णमास्यां शुभतिथौ [[vasara]] -वासरयुक्तायां [[nakshatra]] -नक्षत्र- [[yoga]] -योग- [[karana]] -करण-युक्तायां च एवं गुण-विशेषण-विशिष्टायाम् अस्याम् पौर्णमास्यां शुभतिथौ अस्माकं सहकुटुम्बानां क्षेमस्थैर्य-धैर्य-वीर्य-विजय-आयुरारोग्य-ऐश्वर्याभिवृद्ध्यर्थं धर्मार्थकाममोक्षचतुर्विधफलपुरुषार्थसिद्ध्यर्थं पुत्रपौत्राभिवृद्ध्यर्थम् इष्टकाम्यार्थसिद्ध्यर्थं मम इहजन्मनि पूर्वजन्मनि जन्मान्तरे च सम्पादितानां ज्ञानाज्ञानकृतमहापातकचतुष्टय-व्यतिरिक्तानां रहस्यकृतानां प्रकाशकृतानां सर्वेषां पापानां सद्य अपनोदनद्वारा सकल-पापक्षयार्थं धर्मराज-सभास्थित-श्री-चित्रगुप्त-प्रीत्यर्थं रौरव-महारौरव-कालसूत्र-तामिस्र-अन्धतामिस्र-आदि-नरक-बाधा-निवृत्त्यर्थं पुण्यलोक-प्राप्त्यर्थं चित्रा-पौर्णमास्यां

Verse

यथाशक्ति-ध्यान-आवाहनादि-षोडशोपचारैः श्री-चित्रगुप्त-पूजां करिष्ये। तदङ्गं कलशपूजां च करिष्ये।

Verse

श्रीविघ्नेश्वराय नमः यथास्थानं प्रतिष्ठापयामि। शोभनार्थे क्षेमाय पुनरागमनाय च। (गणपति-प्रसादं शिरसा गृहीत्वा)

Verse

Verse

Verse

Verse

Verse

Verse

Verse

चित्रगुप्तं महाप्राज्ञं मध्यस्थं सर्वदेहिनाम् ध्यायामि धर्माधर्मज्ञं लेखनी-पत्रधारिणम् श्री-चित्रगुप्तं ध्यायामि।

Verse

आवाहयामि देव त्वाम् अन्तकस्य सभासदम् कायस्थं करुणामूर्तिं कल्मषघ्नं कलाविदम् श्री-चित्रगुप्तम् आवाहयामि।

Verse

चित्रगुप्त गृहाणेदं चित्रमणि-विनिर्मितम् आसनं हेमरचितं शुभास्तरण-संयुतम् श्री-चित्रगुप्ताय नमः, आसनं समर्पयामि।

Verse

पाद्यं गृहाण परम पापलेश-विवर्जित भाविताशेष-भुवन चित्रगुप्त नमोऽस्तु ते श्री-चित्रगुप्ताय नमः, पाद्यं समर्पयामि।

Verse

अर्घ्यं गृहाण देवेश गन्ध-पुष्पाक्षतैर्युतम् चित्रगुप्त महाप्राज्ञ पापं वारय मेऽखिलम् श्री-चित्रगुप्ताय नमः, अर्घ्यं समर्पयामि।

Verse

गृहाणाचमनं देव करुणारस-सागर त्राहि मां नरकात् घोरात् देहि मे सुकृतां पदम् श्री-चित्रगुप्ताय नमः, आचमनीयं समर्पयामि।

Verse

मधुपर्कं गृहाणेमं महापाप-विनाशन महतामपि पापानां विनाशं कलय प्रभो श्री-चित्रगुप्ताय नमः, मधुपर्कं समर्पयामि।

Verse

पञ्चामृतं गृहाणेदं त्वं चराचर-वल्लभ वञ्चनादि-समुद्त्पन्नं पापं मे विनिवारय श्री-चित्रगुप्ताय नमः, पञ्चामृतं समर्पयामि।

Verse

नानानदी-समानीतं नानाधर्म-विचारद स्नानाय गृह्यतां तोयं स्वच्छं गन्धादि-संयुतम् श्री-चित्रगुप्ताय नमः, स्नानं समर्पयामि।

Verse

वस्त्रयुग्मम् इदं देव शस्त्र-हस्त गृहाण मे शास्त्र-लङ्घन-सम्भूतं पापं मे विनिवारय श्री-चित्रगुप्ताय नमः, वस्त्रं समर्पयामि।

Verse

उपवीतम् इदं देव कार्पास-परिकल्पितम् कृतान्त-मित्र गृह्णीष्व कलिजं कलुषं हर श्री-चित्रगुप्ताय नमः, उपवीतं समर्पयामि।

Verse

गन्धं गृहाण सुरभिं रुरु-पापविनाशन गतिं देहि परां मह्यं गणयाघानि मा मम श्री-चित्रगुप्ताय नमः, गन्धान् धारयामि।

Verse

अक्षतान् स्वीकुरु विभो यक्ष-गन्धर्व-पूजित अक्षयं देहि मे सौख्यं रक्ष मां करुणानिधे श्री-चित्रगुप्ताय नमः, अक्षतान् समर्पयामि।

Verse

पवित्राणि च पुष्पाणि चित्रगुप्त गृहाण भो कमलादीनि रम्याणि विमलं देहि मे पदम् श्री-चित्रगुप्ताय नमः, पुष्पाणि समर्पयामि।

Verse

१.पापनाशनाय नमः — पादौ पूजयामि

Verse

२.कमलवर्णाय नमः — गुल्फौ पूजयामि

Verse

३.चित्राय नमः — जानुनी पूजयामि

Verse

४.चित्ररूपाय नमः — जङ्घे पूजयामि

Verse

५.नताभीष्टदाय नमः — नाभिं पूजयामि

Verse

६.वृकोदराय नमः — उदरं पूजयामि

Verse

७.प्राज्ञाय नमः — हृदयं पूजयामि

Verse

८.कालाय नमः — कण्ठं पूजयामि

Verse

९.बहुरूपाय नमः — बाहून् पूजयामि

Verse

१०.अन्तकसचिवाय नमः — अधरं पूजयामि

Verse

११.मध्यस्थाय नमः — मुखं पूजयामि

Verse

१२.करुणानिधये नमः — कर्णौ पूजयामि

Verse

१३.पद्मनेत्राय नमः — नेत्रे पूजयामि

Verse

१४.नानारूपाय नमः — नासिकां पूजयामि

Verse

१५.ललिताय नमः — ललाटं पूजयामि

Verse

१६.चित्रगुप्ताय नमः — शिरः पूजयामि

Verse

१७.सर्वेश्वराय नमः — सर्वाण्यङ्गानि पूजयामि

Verse

यमाय नमः

Verse

धर्मराजाय नमः

Verse

मृत्यवे नमः

Verse

अन्तकाय नमः

Verse

वैवस्वताय नमः

Verse

कालाय नमः

Verse

सर्वभूतक्षयाय नमः

Verse

औदुम्बराय नमः

Verse

दध्नाय नमः

Verse

नीलाय नमः

Verse

परमेष्ठिने नमः

Verse

वृकोदराय नमः

Verse

चित्राय नमः

Verse

चित्रगुप्ताय नमः नानाविध-परिमल-पुष्पाणि समर्पयामि।

Verse

धूपं गृहाण धर्मज्ञ गुग्गुल्वगरु-संयुतम् पूतं देहि पदं देव धूतपाप नमोऽस्तु ते श्री-चित्रगुप्ताय नमः, धूपम् आघ्रापयामि।

Verse

साज्यं वर्तित्रयोपेतं शासिताखिल-विष्टप दीपं गृहाण दयया दीनवत्सल ते नमः श्री-चित्रगुप्ताय नमः, दीपं सन्दर्शयामि।

Verse

चित्रान्नं कृसरापूप-मोदकाज्य-समन्वितम् चित्रगुप्त गृहाणेदं नैवेद्यं निर्मल प्रभो श्री-चित्रगुप्ताय नमः, नैवेद्यं निवेदयामि।

Verse

पूगीफल-समायुक्तं नागवल्ली-दलैर्युतम् कर्पूरचूर्ण-संयुक्तं ताम्बूलं प्रतिगृह्यताम् श्री-चित्रगुप्ताय नमः, ताम्बूलं समर्पयामि।

Verse

नीराजनं गृहाणेदं कर्पूरैः कलितं मया नीतिमार्गचरानन्त निर्मलाय नमोऽस्तु ते श्री-चित्रगुप्ताय नमः, नीराजनं समर्पयामि।

Verse

प्रकृष्ट-पापनाशाय प्रकृष्ट-फलसिद्धये प्रदक्षिणं करोमि त्वां चित्रगुप्त प्रसीद मे अनेक-कोटि-प्रदक्षिण-नमस्कारान् समर्पयामि।

Verse

नमस्ते चित्रगुप्ताय धर्मराज-सखाय च लेखनी-धृत-हस्ताय साक्षिणे सर्वदेहिनाम् श्री-चित्रगुप्ताय नमः, मन्त्रपुष्पं समर्पयामि।

Verse

नानारत्न-समायुक्तं वज्रनाल-समन्वितम् मुक्ताकेसर-संयुक्तं स्वर्णपुष्पं ददाम्यहम् श्री-चित्रगुप्ताय नमः, स्वर्णपुष्पं समर्पयामि।

Verse

यमाय धर्मराजाय मृत्यवे चान्तकाय च वैवस्वताय कालाय सर्वभूतक्षयाय च

Verse

औदुम्बराय दध्नाय नीलाय परमेष्ठिने वृकोदराय चित्राय चित्रगुप्ताय वै नमो नमः श्री-चित्रगुप्ताय नमः, नमस्कारान् समर्पयामि।

Verse

चित्रगुप्त कृपाराशे पापं वारय मेऽखिलम् मा च मे नरकाः सन्तु पूरयेदं ममेप्सितम् प्रार्थनाः समर्पयामि।

Verse

अद्य [[tithi]]-तिथौ श्री-चित्रगुप्त-पूजान्ते क्षीरार्घ्य-प्रदानम् उपायन-दानं च करिष्ये।

Verse

चित्रगुप्त नमस्तेऽस्तु धर्मराज-सभासद अर्घ्यं गृहाण भगवन् सर्वलोक-शिवङ्कर श्री-चित्रगुप्ताय नमः, इदम् अर्घ्यम् (त्रिवारम्)।

Verse

वैवस्वत नमस्तुभ्यं धर्माधर्म-विधारक इदम् अर्घ्यं प्रदास्यामि मम पापं विनाशय वैवस्वताय नमः, इदम् अर्घ्यम् (त्रिवारम्)।

Verse

सर्वलोकाधि-कर्त्रे च सर्वप्राणि-हिताय च तुभ्यम् अर्घ्यं प्रदास्यामि गृहाणेदं चतुर्मुख ब्रह्मणे नमः, इदम् अर्घ्यम् (त्रिवारम्)।

Verse

चित्रगुप्त-प्रीत्यर्थं स्वयम्पाक-ताम्बूल-दक्षिणादि-सहितम् उपायनं ब्राह्मणाय दद्यात्।

Verse

इति श्री-चित्रगुप्त-पूजा समाप्ता।

śrī-lakṣmī-nṛsiṃha-jayantī-pūjā
śrī-vyāsa-pūrṇimā-pūjā

सा विद्या या विमुक्तये

Built with Sankalpa at Gyaandweep

Gyaandweep

© 2022-2026 Granthajyoti Pvt Ltd.

Privacy & Terms