pujavidhanam
śrī-lakṣmī-nṛsiṃha-jayantī-pūjā
श्री-लक्ष्मी-नृसिंह-जयन्ती-पूजा
Verse
Verse
शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये
Verse
प्राणान् आयम्य। ॐ भूः + भूर्भुवः॒ सुव॒रोम्।
Verse
ममोपात्त-समस्त-दुरित-क्षयद्वारा श्री-परमेश्वर-प्रीत्यर्थं शुभे शोभने मुहूर्ते अद्य ब्रह्मणः द्वितीयपरार्धे श्वेतवराहकल्पे वैवस्वतमन्वन्तरे अष्टाविंशतितमे कलियुगे प्रथमे पादे जम्बूद्वीपे भारतवर्षे भरतखण्डे मेरोः दक्षिणे पार्श्वे शकाब्दे अस्मिन् वर्तमाने व्यावहारिकाणां प्रभवादीनां षष्ट्याः संवत्सराणां मध्ये ( ) नाम संवत्सरे उत्तरायणे / दक्षिणायने वसन्तऋतौ मेषमासे शुक्लपक्षे चतुर्दश्यां शुभतिथौ [[vasara]]-वासरयुक्तायाम् (स्वाती/?) नक्षत्र [[yoga]]-योग [[karana]]-करण-युक्तायां च एवं गुण विशेषण विशिष्टायाम् अस्यां चतुर्दश्यां शुभतिथौ अस्माकं सहकुटुम्बानां क्षेमस्थैर्य-धैर्य-वीर्य-विजय-आयुरारोग्य-ऐश्वर्याभिवृद्ध्यर्थम् धर्मार्थकाममोक्षचतुर्विधफलपुरुषार्थसिद्ध्यर्थं पुत्रपौत्राभिवृद्ध्यर्थम् इष्टकाम्यार्थसिद्ध्यर्थम् मम इहजन्मनि पूर्वजन्मनि जन्मान्तरे च सम्पादितानां ज्ञानाज्ञानकृतमहापातकचतुष्टय-व्यतिरिक्तानां रहस्यकृतानां प्रकाशकृतानां सर्वेषां पापानां सद्य अपनोदनद्वारा सकल-पापक्षयार्थं श्री नृसिंह-जयन्ती-पुण्यकाले यथाशक्ति-ध्यान-आवाहनादि-षोडशोपचारैः श्री-नृसिंह-पूजां करिष्ये। तदङ्गं कलशपूजां च करिष्ये।
Verse
श्रीविघ्नेश्वराय नमः यथास्थानं प्रतिष्ठापयामि। (गणपति-प्रसादं शिरसा गृहीत्वा)
Verse
Verse
Verse
Verse
Verse
Verse
Verse
ध्यायामि देवदेवं तं शङ्खचक्रगदाधरम् नृसिंहं भीषणं भद्रं लक्ष्मीयुक्तं विभूषितम्
Verse
अस्मिन् बिम्बे श्री-लक्ष्मी-नृसिंहं ध्यायामि।
Verse
स॒हस्र॑शीर्षा॒ पुरु॑षः। स॒ह॒स्रा॒क्षः स॒हस्र॑पात् स भूमिं॑ वि॒श्वतो॑ वृ॒त्वा। अत्य॑तिष्ठद्दशाङ्गु॒लम् अस्मिन् बिम्बे श्री-लक्ष्मी-नृसिंहम् आवाहयामि।
Verse
पुरु॑ष ए॒वेदꣳ सर्वम्᳚। यद्भू॒तं यच्च॒ भव्यम्᳚ उ॒तामृ॑त॒त्वस्येशा॑नः। यदन्ने॑नाति॒रोह॑ति श्री-लक्ष्मी-नृसिंहाय नमः, आसनं समर्पयामि।
Verse
ए॒तावा॑नस्य महि॒मा। अतो॒ ज्यायाꣴ॑श्च॒ पूरु॑षः पादो᳚ऽस्य॒ विश्वा॑ भू॒तानि॑। त्रि॒पाद॑स्या॒मृतं॑ दि॒वि श्री-लक्ष्मी-नृसिंहाय नमः, पाद्यं समर्पयामि।
Verse
त्रि॒पादू॒र्ध्व उदै॒त्पुरु॑षः। पादो᳚ऽस्ये॒हाऽऽभ॑वा॒त्पुनः॑ ततो॒ विश्व॒ङ्व्य॑क्रामत्। सा॒श॒ना॒न॒श॒ने अ॒भि श्री-लक्ष्मी-नृसिंहाय नमः, अर्घ्यं समर्पयामि।
Verse
तस्मा᳚द्वि॒राड॑जायत। वि॒राजो॒ अधि॒ पूरु॑षः स जा॒तो अत्य॑रिच्यत। प॒श्चाद्भूमि॒मथो॑ पु॒रः श्री-लक्ष्मी-नृसिंहाय नमः, आचमनीयं समर्पयामि।
Verse
यत्पुरु॑षेण ह॒विषा᳚। दे॒वा य॒ज्ञमत॑न्वत व॒स॒न्तो अ॑स्याऽऽसी॒दाज्यम्᳚। ग्री॒ष्म इ॒ध्मः श॒रद्ध॒विः श्री-लक्ष्मी-नृसिंहाय नमः, मधुपर्कं समर्पयामि।
Verse
स॒प्तास्या॑ऽऽसन् परि॒धयः॑। त्रिः स॒प्त स॒मिधः॑ कृ॒ताः दे॒वा यद्य॒ज्ञं त॑न्वा॒नाः। अब॑ध्न॒न् पु॑रुषं प॒शुम् श्री-लक्ष्मी-नृसिंहाय नमः, शुद्धोदकस्नानं समर्पयामि। स्नानानन्तरम् आचमनीयं समर्पयामि।
Verse
तं य॒ज्ञं ब॒र्हिषि॒ प्रौक्षन्॑। पुरु॑षं जा॒तम॑ग्र॒तः तेन॑ दे॒वा अय॑जन्त। सा॒ध्या ऋष॑यश्च॒ ये श्री-लक्ष्मी-नृसिंहाय नमः, वस्त्रं समर्पयामि।
Verse
तस्मा᳚द्य॒ज्ञाथ्स॑र्व॒हुतः॑। सम्भृ॑तं पृषदा॒ज्यम् प॒शूꣴस्ताꣴश्च॑क्रे वाय॒व्यान्॑। आ॒र॒ण्यान्ग्रा॒म्याश्च॒ ये श्री-लक्ष्मी-नृसिंहाय नमः, यज्ञोपवीतं समर्पयामि।
Verse
तस्मा᳚द्य॒ज्ञाथ्स॑र्व॒हुतः॑। ऋचः॒ सामा॑नि जज्ञिरे छन्दाꣳ॑सि जज्ञिरे॒ तस्मा᳚त्। यजु॒स्तस्मा॑दजायत
Verse
चन्दनं शीतलं दिव्यं चन्द्रकुङ्कुममिश्रितम् ददामि तव तुष्ट्यर्थं नृसिंह परमेश्वर
Verse
श्री-लक्ष्मी-नृसिंहाय नमः, दिव्यपरिमलगन्धान् धारयामि। गन्धस्योपरि हरिद्राकुङ्कुमं समर्पयामि। अक्षतान् समर्पयामि।
Verse
तस्मा॒दश्वा॑ अजायन्त। ये के चो॑भ॒याद॑तः गावो॑ ह जज्ञिरे॒ तस्मा᳚त्। तस्मा᳚ज्जा॒ता अ॑जा॒वयः॑
Verse
कालोद्भवानि पुष्पाणि तुलस्यादीनि वै प्रभो सम्यक् गृहाण देवेश लक्ष्म्या सह नमोऽस्तु ते
Verse
श्री-लक्ष्मी-नृसिंहाय नमः, पुष्पाणि समर्पयामि। पुष्पैः पूजयामि।
Verse
१.ॐ अनघाय नमः — पादौ पूजयामि
Verse
२.वामनाय नमः — गुल्फौ पूजयामि
Verse
३.शौरये नमः — जङ्घे पूजयामि
Verse
४.वैकुण्ठवासिने नमः — ऊरू पूजयामि
Verse
५.पुरुषोत्तमाय नमः — मेढ्रं पूजयामि
Verse
६.वासुदेवाय नमः — कटिं पूजयामि
Verse
७.हृषीकेशाय नमः — नाभिं पूजयामि
Verse
८.माधवाय नमः — हृदयं पूजयामि
Verse
९.मधुसूदनाय नमः — कण्ठं पूजयामि
Verse
१०.वराहाय नमः — बाहून् पूजयामि
Verse
११.नृसिंहाय नमः — हस्तान् पूजयामि
Verse
१३.दैत्यसूदनाय नमः — मुखं पूजयामि
Verse
१६.दामोदराय नमः — नासिकां पूजयामि
Verse
१४.पुण्डरीकाक्षाय नमः — नेत्रे पूजयामि
Verse
१५.गरुडध्वजाय नमः — श्रोत्रे पूजयामि
Verse
१६.गोविन्दाय नमः — ललाटं पूजयामि
Verse
१७.अच्युताय नमः — शिरः पूजयामि
Verse
१८.श्री-नृसिंहाय नमः — सर्वाणि अङ्गानि पूजयामि
Verse
ॐ केशवाय नमः
Verse
ॐ नारायणाय नमः
Verse
ॐ माधवाय नमः
Verse
ॐ गोविन्दाय नमः
Verse
ॐ विष्णवे नमः
Verse
ॐ मधुसूदनाय नमः
Verse
ॐ त्रिविक्रमाय नमः
Verse
ॐ वामनाय नमः
Verse
ॐ श्रीधराय नमः
Verse
ॐ हृषीकेशाय नमः
Verse
ॐ पद्मनाभाय नमः
Verse
ॐ दामोदराय नमः
Verse
ॐ सङ्कर्षणाय नमः
Verse
ॐ वासुदेवाय नमः
Verse
ॐ प्रद्युम्नाय नमः
Verse
ॐ अनिरुद्धाय नमः
Verse
ॐ पुरुषोत्तमाय नमः
Verse
ॐ अधोक्षजाय नमः
Verse
ॐ नृसिंहाय नमः
Verse
ॐ अच्युताय नमः
Verse
ॐ जनार्दनाय नमः
Verse
ॐ उपेन्द्राय नमः
Verse
ॐ हरये नमः
Verse
ॐ श्रीकृष्णाय नमः
Verse
Verse
च् यत्पुरु॑षं॒ व्य॑दधुः। क॒ति॒धा व्य॑कल्पयन् मुखं॒ किम॑स्य॒ कौ बा॒हू। कावू॒रू पादा॑वुच्येते
Verse
कृष्णागुरुमयं धूपं श्रीनृसिंह जगत्पते तव तुष्ट्यै प्रदास्यामि सर्वदेव नमोऽस्तु ते
Verse
श्री-लक्ष्मी-नृसिंहाय नमः, धूपमाघ्रापयामि।
Verse
ब्रा॒ह्म॒णो᳚ऽस्य॒ मुख॑मासीत्। बा॒हू रा॑ज॒न्यः॑ कृ॒तः ऊ॒रू तद॑स्य॒ यद्वैश्यः॑। प॒द्भ्याꣳ शू॒द्रो अ॑जायत उद्दी᳚प्यस्व जातवेदोऽप॒घ्नन्निर्ऋ॑तिं॒ मम॑। प॒शूꣴश्च॒ मह्य॒माव॑ह॒ जीव॑नं च॒ दिशो॑ दिश॥ मा नो॑ हिꣳसीज्जातवेदो॒ गामश्वं॒ पुरु॑षं॒ जग॑त्। अबि॑भ्र॒दग्न॒ आग॑हि श्रि॒या मा॒ परि॑पातय॥
Verse
सर्वतेजोद्भवं तेजस्तस्माद् दीपं ददामि ते श्रीनृसिंह महाबाहो तिमिरं मे विनाशय
Verse
श्री-लक्ष्मी-नृसिंहाय नमः, अलङ्कारदीपं सन्दर्शयामि।
Verse
ॐ भूर्भुवः॒ सुवः॑। + ब्र॒ह्मणे॒ स्वाहा᳚।
Verse
च॒न्द्रमा॒ मन॑सो जा॒तः। चक्षोः॒ सूर्यो॑ अजायत मुखा॒दिन्द्र॑श्चा॒ग्निश्च॑। प्रा॒णाद्वा॒युर॑जायत
Verse
नैवेद्यं सौख्यदं चारु भक्ष्यभोज्यसमन्वितम् ददामि ते रमाकान्त सर्वपापक्षयं कुरु
Verse
श्री-लक्ष्मी-नृसिंहाय नमः, ( ) पानकं च निवेदयामि, अमृतापिधानमसि। निवेदनानन्तरम् आचमनीयं समर्पयामि।
Verse
नाभ्या॑ आसीद॒न्तरि॑क्षम्। शी॒र्ष्णो द्यौः सम॑वर्तत प॒द्भ्यां भूमि॒र्दिशः॒ श्रोत्रा᳚त्। तथा॑ लो॒काꣳ अ॑कल्पयन्
Verse
पूगीफलसमायुक्तं नागवल्लीदलैर्युतम् कर्पूरचूर्णसंयुक्तं ताम्बूलं प्रतिगृह्यताम् श्री-लक्ष्मी-नृसिंहाय नमः, ताम्बूलं समर्पयामि।
Verse
वेदा॒हमे॒तं पुरु॑षं म॒हान्तम्᳚। आ॒दि॒त्यव॑र्णं॒ तम॑स॒स्तु पा॒रे सर्वा॑णि रू॒पाणि॑ वि॒चित्य॒ धीरः॑। नामा॑नि कृ॒त्वाऽभि॒वद॒न्॒ यदास्ते᳚ श्री-लक्ष्मी-नृसिंहाय नमः, समस्त-अपराध-क्षमापनार्थं कर्पूरनीराजनं दर्शयामि। कर्पूरनीरजनानन्तरम् आचमनीयं समर्पयामि।
Verse
धा॒ता पु॒रस्ता॒द्यमु॑दाज॒हार॑। श॒क्रः प्रवि॒द्वान् प्र॒दिश॒श्चत॑स्रः तमे॒वं वि॒द्वान॒मृत॑ इ॒ह भ॑वति। नान्यः पन्था॒ अय॑नाय विद्यते
Verse
यो॑ऽपां पुष्पं॒ वेद॑। पुष्प॑वान् प्र॒जावा᳚न् पशु॒मान् भ॑वति। च॒न्द्रमा॒ वा अ॒पां पुष्पम्᳚। पुष्प॑वान् प्र॒जावा᳚न् पशु॒मान् भ॑वति। य ए॒वं वेद॑। यो॑ऽपामा॒यत॑नं॒ वेद॑। आ॒यत॑नवान् भवति।
Verse
ओं᳚ तद्ब्र॒ह्म। ओं᳚ तद्वा॒युः। ओं᳚ तदा॒त्मा। ओं᳚ तथ्स॒त्यम्। ओं᳚ तथ्सर्वम्᳚। ओं᳚ तत्पुरो॒र्नमः॥
Verse
अन्तश्चरति॑ भूते॒षु॒ गुहायां वि॑श्वमू॒र्तिषु। त्वं यज्ञस्त्वं वषट्कारस्त्वमिन्द्रस्त्वꣳ रुद्रस्त्वं विष्णुस्त्वं ब्रह्म त्वं॑ प्रजा॒पतिः। त्वं त॑दाप॒ आपो॒ ज्योती॒ रसो॒ऽमृतं॒ ब्रह्म॒ भूर्भुवः॒ सुव॒रोम्॥
Verse
श्री-लक्ष्मी-नृसिंहाय नमः, वेदोक्तमन्त्रपुष्पाञ्जलिं समर्पयामि।
Verse
सुवर्णरजतैर्युक्तं चामीकरविनिर्मितम् स्वर्णपुष्पं प्रदास्यामि गृह्यतां मधुसूदन श्री-लक्ष्मी-नृसिंहाय नमः, स्वर्णपुष्पं समर्पयामि।
Verse
प्रदक्षिणं करोम्यद्य पापानि नुत माधव मयार्पितान्यशेषाणि परिगृह्य कृपां कुरु
Verse
यानि कानि च पापानि जन्मान्तरकृतानि च तानि तानि विनश्यन्ति प्रदक्षिण-पदे पदे प्रदक्षिणं कृत्वा।
Verse
नमस्ते देवदेवेश नमस्ते भक्तवत्सल नमस्ते पुण्डरीकाक्ष वासुदेवाय ते नमः
Verse
नमः सर्वहितार्थाय जगदाधाररूपिणे साष्टाङ्गोऽयं प्रणामोऽस्तु जगन्नाथ मया कृतः श्री-लक्ष्मी-नृसिंहाय नमः, अनन्तकोटिप्रदक्षिणनमस्कारान् समर्पयामि।
Verse
य॒ज्ञेन॑ य॒ज्ञम॑यजन्त दे॒वाः। तानि॒ धर्मा॑णि प्रथ॒मान्या॑सन् ते ह॒ नाकं॑ महि॒मानः॑ सचन्ते। यत्र॒ पूर्वे॑ सा॒ध्याः सन्ति॑ दे॒वाः श्री-लक्ष्मी-नृसिंहाय नमः, छत्त्रचामरादिसमस्तोपचारान् समर्पयामि।
Verse
Verse
Verse
Verse
Verse
ममोपात्त-समस्त-दुरित-क्षयद्वारा श्रीपरमेश्वरप्रीत्यर्थम् नृसिंह-जयन्ती-पुण्यकाले श्री-लक्ष्मी-नृसिंह-पूजान्ते क्षीरार्घ्यप्रदानं करिष्ये॥
Verse
नृसिंहाच्युत देवेश लक्ष्मीकान्त जगत्पते अनेनार्घ्यप्रदानेन सफलाः स्युर्मनोरथाः
Verse
श्री-लक्ष्मी-नृसिंहाय नमः, इदमर्घ्यम् इदमर्घ्यम् इदमर्घ्यम्।
Verse
हिरण्याक्षवधार्थाय भूभारोत्तरणाय च परित्राणाय साधूनां जातो विष्णुर्नृकेसरी गृहाणार्घ्यं मया दत्तं सलक्ष्मी-नृहरे स्वयम् श्री-लक्ष्मी-नृसिंहाय नमः, इदमर्घ्यम् इदमर्घ्यम् इदमर्घ्यम्।
Verse
अनेन अर्घ्यप्रदानेन भगवान् सर्वात्मकः श्री-लक्ष्मी-नृसिंहः प्रीयताम्।
Verse
हिरण्यगर्भगर्भस्थं हेमबीजं विभावसोः अनन्तपुण्यफलदम् अतः शान्तिं प्रयच्छ मे
Verse
श्री-लक्ष्मी-नृसिंह-जयन्ती-पुण्यकाले अस्मिन् मया क्रियमाण महाविष्णुपूजायां यद्देयमुपायनदानं तत्प्रत्याम्नायार्थं हिरण्यं श्री-लक्ष्मी-नृसिंह-प्रीतिं कामयमानः मनसोद्दिष्टाय ब्राह्मणाय सम्प्रददे नमः न मम। अनया पूजया श्री-लक्ष्मी-नृसिंहः प्रीयताम्।
Verse
यस्य स्मृत्या च नामोक्त्या तपः-पूजा-क्रियादिषु न्यूनं सम्पूर्णतां याति सद्यो वन्दे तमच्युतम्
Verse
इदं व्रतं मया देव कृतं प्रीत्यै तव प्रभो न्यूनं सम्पूर्णतां यातु त्वत्प्रसादाज्जनार्द्दन
Verse
मद्वंशे ये नरा जाता ये जनिष्यन्ति चापरे तांस्त्वमुद्धर देवेश दुःसहाद् भवसागरात्
Verse
पातकार्णवमग्नस्य व्याधिदुःखाम्बुवारिभिः तीव्रैश्च परिभूतस्य मोहदुःखगतस्य मे
Verse
करावलम्बनं देहि शेषशायिन् जगत्पते श्रीनृसिंह रमाकान्त भक्तानां भयनाशन
Verse
क्षीराब्धिनिवासिन् त्वं चक्रपाणे जनार्दन व्रतेनानेन देवेश भुक्तिमुक्तिप्रदो भव
Verse
अस्मात् बिम्बात् श्री-लक्ष्मी-नृसिंहं यथास्थानं प्रतिष्ठापयामि (अक्षतानर्पित्वा देवमुत्सर्जयेत्।) अनया पूजया श्री-लक्ष्मी-नृसिंहः प्रीयताम्।
Verse
कायेन वाचा मनसेन्द्रियैर्वा बुद्ध्याऽऽत्मना वा प्रकृतेः स्वभावात् करोमि यद्यत् सकलं परस्मै नारायणायेति समर्पयामि
Verse
ॐ तत्सद्ब्रह्मार्पणमस्तु।
Verse
सालग्रामशिलावारि पापहारि शरीरिणाम् आजन्मकृतपापानां प्रायश्चित्तं दिने दिने
Verse
अकालमृत्युहरणं सर्वव्याधिनिवारणम् सर्वपापक्षयकरं विष्णुपादोदकं शुभम् इति तीर्थं पीत्वा शिरसि प्रसादं धारयेत्।
