pujavidhanam
śrī-śaṅkara-bhagavatpāda-pūjā
श्री-शङ्कर-भगवत्पाद-पूजा
Verse
Verse
शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये
Verse
प्राणान् आयम्य।
Verse
ममोपात्त-समस्त-दुरित-क्षयद्वारा श्री-परमेश्वर-प्रीत्यर्थं शुभे शोभने मुहूर्ते अद्य ब्रह्मणः द्वितीयपरार्धे श्वेतवराहकल्पे वैवस्वतमन्वन्तरे अष्टाविंशतितमे कलियुगे प्रथमे पादे जम्बूद्वीपे भारतवर्षे भरतखण्डे मेरोः दक्षिणे पार्श्वे शकाब्दे अस्मिन् वर्तमाने व्यावहारिकाणां प्रभवादीनां षष्ट्याः संवत्सराणां मध्ये [[samvatsara]] नाम संवत्सरे उत्तरायणे वसन्त -ऋतौ (मेष/वृषभ)-वैशाख -मासे शुक्ल पक्षे पञ्चम्यां शुभतिथौ [[vasara]] -वासरयुक्तायां (आर्द्रा/?) -नक्षत्र- [[yoga]] -योग- [[karana]] -करण-युक्तायां च एवं गुण-विशेषण-विशिष्टायाम् अस्याम् पञ्चम्यां शुभतिथौ
Verse
उत्तराषाढा-नक्षत्रे धनूराशौ आविर्भूतानां श्रीमत्-शङ्कर-विजयेन्द्र-सरस्वती-श्रीपादानां, शतभिषङ्-नक्षत्रे कुम्भ-राशौ आविर्भूतानां श्रीमत्-सत्य-चन्द्रशेखरेन्द्र-सरस्वती-श्रीपादानाम् अस्माकं जगद्गुरूणां दीर्घ-आयुः-आरोग्य-सिद्ध्यर्थं,
Verse
तैः सङ्कल्पितानां सर्वेषां लोक-क्षेमार्थ-कार्याणां वेद-शास्त्रादि-सम्प्रदाय-पोषण-कार्याणां विविध-क्षेत्र-यात्रायाश्च अविघ्नतया सम्पूर्त्यर्थं
Verse
कामकोटि-गुरु-परम्परायां कामकोटि-भक्त-जनानाम् अचञ्चल-भावशुद्ध-दृढतर-भक्ति-सिद्ध्यर्थं, परस्पर-ऐकमत्य-सिद्ध्यर्थं
Verse
भारतीयानां महाजनानां विघ्न-निवृत्ति-पूर्वक-सत्कार्य-प्रवृत्ति-द्वारा ऐहिक-आमुष्मिक-अभ्युदय-प्राप्त्यर्थम्, असत्कार्येभ्यः निवृत्त्यर्थं
Verse
भारतीयानां सन्ततेः सनातन-सम्प्रदाये श्रद्धा-भक्त्योः अभिवृद्ध्यर्थं
Verse
सर्वेषां द्विपदां चतुष्पदाम् अन्येषां च प्राणि-वर्गाणाम् आरोग्य-युक्त-सुख-जीवन-अवाप्त्यर्थम्
Verse
अस्माकं सहकुटुम्बानां क्षेमस्थैर्य-धैर्य-वीर्य-विजय-आयुरारोग्य-ऐश्वर्याभिवृद्ध्यर्थम् धर्मार्थकाममोक्षचतुर्विधफलपुरुषार्थसिद्ध्यर्थं पुत्रपौत्राभिवृद्ध्यर्थम् इष्टकाम्यार्थसिद्ध्यर्थं विवेक-वैराग्य-सिद्ध्यर्थम् मम इहजन्मनि पूर्वजन्मनि जन्मान्तरे च सम्पादितानां ज्ञानाज्ञानकृतमहापातकचतुष्टय-व्यतिरिक्तानां रहस्यकृतानां प्रकाशकृतानां सर्वेषां पापानां सद्य अपनोदनद्वारा सकल-पापक्षयार्थं
Verse
श्रीमत्-शङ्करभगवत्पाद-प्रीत्यर्थं श्री-शङ्कर-जयन्ती-महोत्सवे
Verse
यथाशक्ति-ध्यान-आवाहनादि-षोडशोपचारैः श्रीमत्-शङ्कर-भगवत्पादाचार्य-पूजां करिष्ये। तदङ्गं कलशपूजां च करिष्ये।
Verse
श्रीविघ्नेश्वराय नमः यथास्थानं प्रतिष्ठापयामि। शोभनार्थे क्षेमाय पुनरागमनाय च। (गणपति-प्रसादं शिरसा गृहीत्वा)
Verse
Verse
Verse
Verse
Verse
Verse
Verse
श्रुति-स्मृति-पुराणानाम् आलयं करुणालयम् नमामि भगवत्पाद-शङ्करं लोक-शङ्करम्
Verse
श्रीमत्-शङ्कर-भगवत्पादाचार्यान् ध्यायामि।
Verse
अज्ञानान्तर्गहन-पतितान् आत्म-विद्योपदेशैः त्रातुं लोकान् भव-दव-शिखा-ताप-पापच्यमानान् मुक्त्वा मौनं वट-विटपिनो मूलतो निष्पतन्ती शम्भोर्मूर्तिश्चरति भुवने शङ्कराचार्य-रूपा
Verse
नम॑स्ते रुद्र म॒न्यव॑ उ॒तो त॒ इष॑वे॒ नमः॑। नम॑स्ते अस्तु॒ धन्व॑ने बा॒हुभ्या॑मु॒त ते॒ नमः॑॥ ॐ ह्रीं न॒मः शि॒वाय॑। स॒द्योजा॒तं प्र॑पद्यामि।
Verse
यमाश्रिता गिरां देवी नन्दयत्यात्म-संश्रितान् तमाश्रये श्रिया जुष्टं शङ्करं करुणा-निधिम् श्रीमत्-शङ्कर-भगवत्पादाचार्यान् आवाहयामि।
Verse
या त॒ इषुः॑ शि॒वत॑मा शि॒वं ब॒भूव॑ ते॒ धनुः॑। शि॒वा श॑र॒व्या॑ या तव॒ तया॑ नो रुद्र मृडय॥ ॐ ह्रीं न॒मः शि॒वाय॑। स॒द्योजा॒ताय॒ वै नमो॒ नमः॑।
Verse
श्री-गुरुं भगवत्पादं शरण्यं भक्त-वत्सलम् शिवं शिव-करं शुद्धम् अप्रमेयं नमाम्यहम् श्रीमत्-शङ्कर-भगवत्पादाचार्येभ्यो नमः, आसनं समर्पयामि।
Verse
नित्यं शुद्धं निराकारं निराभासं निरञ्जनम् नित्य-बोधं चिदानन्दं गुरुं ब्रह्म नमाम्यहम् श्रीमत्-शङ्कर-भगवत्पादाचार्येभ्यो नमः, स्वागतं व्याहरामि। पूर्ण-कुम्भं समर्पयामि।
Verse
या ते॑ रुद्र शि॒वा त॒नूरघो॒राऽपा॑पकाशिनी। तया॑ नस्त॒नुवा॒ शन्त॑मया॒ गिरि॑शन्ता॒भिचा॑कशीहि॥ ॐ ह्रीं न॒मः शि॒वाय॑। भ॒वे भ॑वे॒ नाति॑ भवे भवस्व॒ माम्।
Verse
सर्व-तन्त्र-स्व-तन्त्राय सदात्माद्वैत-रूपिणे श्रीमते शङ्करार्याय वेदान्त-गुरवे नमः श्रीमत्-शङ्कर-भगवत्पादाचार्येभ्यो नमः, पाद्यं समर्पयामि।
Verse
यामिषुं॑ गिरिशन्त॒ हस्ते॒ बिभ॒र्ष्यस्त॑वे। शि॒वां गि॑रित्र॒ तां कु॑रु॒ मा हिꣳ॑सीः॒ पुरु॑षं॒ जग॑त्॥ ॐ ह्रीं न॒मः शि॒वाय॑। भ॒वोद्भ॑वाय॒ नमः॑॥
Verse
वेदान्तार्थाभिधानेन सर्वानुग्रह-कारिणम् यति-रूप-धरं वन्दे शङ्करं लोक-शङ्करम् श्रीमत्-शङ्कर-भगवत्पादाचार्येभ्यो नमः, अर्घ्यं समर्पयामि।
Verse
शि॒वेन॒ वच॑सा त्वा॒ गिरि॒शाच्छा॑वदामसि। यथा॑ नः॒ सर्व॒मिज्जग॑दय॒क्ष्मꣳ सु॒मना॒ अस॑त्॥ ॐ ह्रीं न॒मः शि॒वाय॑। वा॒म॒दे॒वाय॒ नमः॑।
Verse
संसाराब्धि-निषण्णाज्ञ-निकर-प्रोद्दिधीर्षया कृत-संहननं वन्दे भगवत्पाद-शङ्करम् श्रीमत्-शङ्कर-भगवत्पादाचार्येभ्यो नमः, आचमनीयं समर्पयामि।
Verse
श्रीमत्-शङ्कर-भगवत्पादाचार्येभ्यो नमः, मधुपर्कं समर्पयामि।
Verse
अध्य॑वोचदधिव॒क्ता प्र॑थ॒मो दैव्यो॑ भि॒षक्। अहीꣴ॑श्च॒ सर्वा᳚ञ्ज॒म्भय॒-न्थ्सर्वा᳚श्च यातुधा॒न्यः॑॥ ॐ ह्रीं न॒मः शि॒वाय॑। ज्ये॒ष्ठाय॒ नमः॑।
Verse
यत्-पाद-पङ्कज-ध्यानात् तोटकाद्या यतीश्वराः बभूवुस्तादृशं वन्दे शङ्करं षण्मतेश्वरम् श्रीमत्-शङ्कर-भगवत्पादाचार्येभ्यो नमः, स्नपयामि। (श्रीरुद्र-चमक-पुरुषसूक्त-उपनिषद्भिः स्नापयित्वा) स्नानानन्तरम् आचमनीयं समर्पयामि।
Verse
अ॒सौ यस्ता॒म्रो अ॑रु॒ण उ॒त ब॒भ्रुः सु॑म॒ङ्गलः॑। ये चे॒माꣳ रु॒द्रा अ॒भितो॑ दि॒क्षु श्रि॒ताः स॑हस्र॒शोऽवै॑षा॒ꣳ॒ हेड॑ ईमहे॥ ॐ ह्रीं न॒मः शि॒वाय॑। श्रे॒ष्ठाय॒ नमः॑।
Verse
नमः श्री-शङ्कराचार्य-गुरवे शङ्करात्मने शरीरिणां शङ्कराय शङ्कर-ज्ञान-हेतवे श्रीमत्-शङ्कर-भगवत्पादाचार्येभ्यो नमः, वस्त्रं समर्पयामि।
Verse
अ॒सौ यो॑ऽव॒सर्प॑ति॒ नील॑ग्रीवो॒ विलो॑हितः। उ॒तैनं॑ गो॒पा अ॑दृश॒न्न॒दृ॑शन्नुदहा॒र्यः॑। उ॒तैनं॒ विश्वा॑ भू॒तानि॒ स दृ॒ष्टो मृ॑डयाति नः॥ ॐ ह्रीं न॒मः शि॒वाय॑। रु॒द्राय॒ नमः॑।
Verse
हर-लीलावताराय शङ्कराय वरौजसे कैवल्य-कलना-कल्प-तरवे गुरवे नमः श्रीमत्-शङ्कर-भगवत्पादाचार्येभ्यो नमः, यज्ञोपवीतं समर्पयामि।
Verse
प्रचार्यं सर्व-लोकेषु सञ्चार्यं हृदयाम्बुजे विचार्यं सर्व-वेदान्तैः आचार्यं शङ्करं भजे श्रीमत्-शङ्कर-भगवत्पादाचार्येभ्यो नमः, भस्मोद्धूलनं रुद्राक्ष-मालिकां च समर्पयामि।
Verse
नमो॑ अस्तु॒ नील॑ग्रीवाय सहस्रा॒क्षाय॑ मी॒ढुषे᳚। अथो॒ ये अ॑स्य॒ सत्वा॑नो॒ऽहं तेभ्यो॑ऽकरं॒ नमः॑॥ ॐ ह्रीं न॒मः शि॒वाय॑। काला॑य॒ नमः॑।
Verse
याऽनुभूतिः स्वयं-ज्योतिः आदित्येशान-विग्रहा शङ्कराख्या च तं नौमि सुरेश्वर-गुरुं परम् श्रीमत्-शङ्कर-भगवत्पादाचार्येभ्यो नमः, दिव्य-परिमल-गन्धान् धारयामि। गन्धस्योपरि हरिद्रा-कुङ्कुमं समर्पयामि।
Verse
आनन्द-घनमद्वन्द्वं निर्विकारं निरञ्जनम् भजेऽहं भगवत्पादं भजतामभय-प्रदम् श्रीमत्-शङ्कर-भगवत्पादाचार्येभ्यो नमः, दण्डं समर्पयामि।
Verse
प्र मु॑ञ्च॒ धन्व॑न॒स्त्वमु॒भयो॒रार्त्नि॑यो॒र्ज्याम्। याश्च॑ ते॒ हस्त॒ इष॑वः॒ परा॒ ता भ॑गवो वप॥ ॐ ह्रीं न॒मः शि॒वाय॑। कल॑विकरणाय॒ नमः॑।
Verse
तं वन्दे शङ्कराचार्यं लोक-त्रितय-शङ्करम् सत्-तर्क-नखरोद्गीर्ण-वावदूक-मतङ्गजम् श्रीमत्-शङ्कर-भगवत्पादाचार्येभ्यो नमः, अक्षतान् समर्पयामि।
Verse
अ॒व॒तत्य॒ धनु॒स्त्वꣳ सह॑स्राक्ष॒ शते॑षुधे। नि॒शीर्य॑ श॒ल्यानां॒ मुखा॑ शि॒वो नः॑ सु॒मना॑ भव॥ ॐ ह्रीं न॒मः शि॒वाय॑। बल॑विकरणाय॒ नमः॑।
Verse
नमामि शङ्कराचार्य-गुरु-पाद-सरोरुहम् यस्य प्रसादान्मूढोऽपि सर्व-ज्ञो भवति स्वयम् श्रीमत्-शङ्कर-भगवत्पादाचार्येभ्यो नमः, पुष्प-मालां समर्पयामि। पुष्पैः पूजयामि।
Verse
१.अष्ट-वर्ष-चतुर्वेदिने नमः — पादौ पूजयामि
Verse
२.द्वादशाखिल-शास्त्र-विदे नमः — गुल्फौ पूजयामि
Verse
३.सर्व-लोक-ख्यात-शीलाय नमः — जङ्घे पूजयामि
Verse
४.प्रस्थान-त्रय-भाष्य-कृते नमः — जानुनी पूजयामि
Verse
५.पद्मपादादि-सच्छिष्याय नमः — ऊरू पूजयामि
Verse
६.पाषण्ड-ध्वान्त-भास्कराय नमः — कटिं पूजयामि
Verse
७.अद्वैत-स्थापनाचार्याय नमः — गुह्यं पूजयामि
Verse
८.द्वैतादि-द्विप-केसरिणे नमः — नाभिं पूजयामि
Verse
९.व्यास-नन्दित-सिद्धान्ताय नमः — उदरं पूजयामि
Verse
१०.वाद-निर्जित-मण्डनाय नमः — वक्षःस्थलं पूजयामि
Verse
११.षण्मत-स्थापनाचार्याय नमः — हृदयं पूजयामि
Verse
१२.षड्-गुणैश्वर्य-मण्डिताय नमः — कण्ठं पूजयामि
Verse
१३.सर्व-लोकानुग्रह-कृते नमः — स्कन्धौ पूजयामि
Verse
१४.सर्व-ज्ञ-त्वादि-भूषणाय नमः — हस्तौ पूजयामि
Verse
१५.श्रुति-स्मृति-पुराणार्थाय नमः — वक्त्रं पूजयामि
Verse
१६.श्रुत्येक-शरण-प्रियाय नमः — चिबुकं पूजयामि
Verse
१७.सकृत्-स्मरण-सन्तुष्टाय नमः — ओष्ठौ पूजयामि
Verse
१८.शरणागत-वत्सलाय नमः — कपोलौ पूजयामि
Verse
१९.निर्व्याज-करुणा-मूर्तये नमः — नासिकां पूजयामि
Verse
२०.निरहम्भाव-गोचराय नमः — नेत्रे पूजयामि
Verse
२१.संशान्त-भक्त-हृत्-तापाय नमः — कर्णौ पूजयामि
Verse
२२.सर्व-ज्ञान-फल-प्रदाय नमः — ललाटं पूजयामि
Verse
२३.सदसद्-वस्तु-विमुखाय नमः — शिरः पूजयामि
Verse
२४.सत्ता-सामान्य-विग्रहाय नमः — सर्वाण्यङ्गानि पूजयामि
Verse
Verse
श्रीमते दक्षिणामूर्तये नमः
Verse
श्रीमते विष्णवे नमः
Verse
श्रीमते ब्रह्मणे नमः
Verse
श्रीमते वसिष्ठाय नमः
Verse
श्रीमते शक्तये नमः
Verse
श्रीमते पराशराय नमः
Verse
श्रीमते व्यासाय नमः
Verse
श्रीमते शुकाय नमः
Verse
श्रीमते गौडपादाय नमः
Verse
श्रीमते गोविन्द-भगवत्पादाय नमः
Verse
श्रीमते शङ्कर-भगवत्पादाय नमः
Verse
श्रीमते पद्मपादाचार्याय नमः
Verse
श्रीमते सुरेश्वराचार्याय नमः
Verse
श्रीमते हस्तामलकाचार्याय नमः
Verse
श्रीमते तोटकाचार्याय नमः
Verse
श्रीमते पृथिवीधवाचार्याय नमः
Verse
श्रीमते सर्वज्ञात्म-इन्द्रसरस्वत्यै नमः
Verse
अन्येभ्यः भगवत्पाद-शिष्येभ्यो नमः
Verse
श्रीमते शङ्कर-भगवत्पादाय नमः
Verse
श्रीमते सुरेश्वराचार्याय नमः
Verse
श्रीमते सर्वज्ञात्म-इन्द्रसरस्वत्यै नमः
Verse
श्रीमते सत्यबोध-इन्द्रसरस्वत्यै नमः
Verse
श्रीमते ज्ञानानन्द-इन्द्रसरस्वत्यै नमः
Verse
श्रीमते शुद्धानन्द-इन्द्रसरस्वत्यै नमः
Verse
श्रीमते आनन्दज्ञान-इन्द्रसरस्वत्यै नमः
Verse
श्रीमते कैवल्यानन्द-इन्द्रसरस्वत्यै नमः
Verse
श्रीमते कृपाशङ्कर-इन्द्रसरस्वत्यै नमः
Verse
श्रीमते विश्वरूप-सुरेश्वर-इन्द्रसरस्वत्यै नमः
Verse
श्रीमते शिवानन्द-चिद्घन-इन्द्रसरस्वत्यै नमः
Verse
श्रीमते सार्वभौम-चन्द्रशेखर-इन्द्रसरस्वत्यै नमः
Verse
श्रीमते काष्ठमौन-सच्चिद्घन-इन्द्रसरस्वत्यै नमः
Verse
श्रीमते भैरवजिद्-विद्याघन-इन्द्रसरस्वत्यै नमः
Verse
श्रीमते गीष्पति-गङ्गाधर-इन्द्रसरस्वत्यै नमः
Verse
श्रीमते उज्ज्वलशङ्कर-इन्द्रसरस्वत्यै नमः
Verse
श्रीमते गौड-सदाशिव-इन्द्रसरस्वत्यै नमः
Verse
श्रीमते सुर-इन्द्रसरस्वत्यै नमः
Verse
श्रीमते मार्तण्ड-विद्याघन-इन्द्रसरस्वत्यै नमः
Verse
श्रीमते मूकशङ्कर-इन्द्रसरस्वत्यै नमः
Verse
श्रीमते जाह्नवी-चन्द्रचूड-इन्द्रसरस्वत्यै नमः
Verse
श्रीमते परिपूर्णबोध-इन्द्रसरस्वत्यै नमः
Verse
श्रीमते सच्चित्सुख-इन्द्रसरस्वत्यै नमः
Verse
श्रीमते कोङ्कण-चित्सुख-इन्द्रसरस्वत्यै नमः
Verse
श्रीमते सच्चिदानन्दघन-इन्द्रसरस्वत्यै नमः
Verse
श्रीमते प्रज्ञाघन-इन्द्रसरस्वत्यै नमः
Verse
श्रीमते चिद्विलास-इन्द्रसरस्वत्यै नमः
Verse
श्रीमते महादेव-इन्द्रसरस्वत्यै नमः
Verse
श्रीमते पूर्णबोध-इन्द्रसरस्वत्यै नमः
Verse
श्रीमते भक्तियोग-बोध-इन्द्रसरस्वत्यै नमः
Verse
श्रीमते शीलनिधि-ब्रह्मानन्दघन-इन्द्रसरस्वत्यै नमः
Verse
श्रीमते चिदानन्दघन-इन्द्रसरस्वत्यै नमः
Verse
श्रीमते भाषापरमेष्ठि-सच्चिदानन्दघन-इन्द्रसरस्वत्यै नमः
Verse
श्रीमते चन्द्रशेखर-इन्द्रसरस्वत्यै नमः
Verse
श्रीमते बहुरूप-चित्सुख-इन्द्रसरस्वत्यै नमः
Verse
श्रीमते चित्सुखानन्द-इन्द्रसरस्वत्यै नमः
Verse
श्रीमते विद्याघन-इन्द्रसरस्वत्यै नमः
Verse
श्रीमते धीरशङ्कर-इन्द्रसरस्वत्यै नमः
Verse
श्रीमते सच्चिद्विलास-इन्द्रसरस्वत्यै नमः
Verse
श्रीमते शोभन-महादेव-इन्द्रसरस्वत्यै नमः
Verse
श्रीमते गङ्गाधर-इन्द्रसरस्वत्यै नमः
Verse
श्रीमते ब्रह्मानन्दघन-इन्द्रसरस्वत्यै नमः
Verse
श्रीमते आनन्दघन-इन्द्रसरस्वत्यै नमः
Verse
श्रीमते पूर्णबोध-इन्द्रसरस्वत्यै नमः
Verse
श्रीमते परमशिव-इन्द्रसरस्वत्यै नमः
Verse
श्रीमते सान्द्रानन्द-बोध-इन्द्रसरस्वत्यै नमः
Verse
श्रीमते चन्द्रशेखर-इन्द्रसरस्वत्यै नमः
Verse
श्रीमते अद्वैतानन्दबोध-इन्द्रसरस्वत्यै नमः
Verse
श्रीमते महादेव-इन्द्रसरस्वत्यै नमः
Verse
श्रीमते चन्द्रचूड-इन्द्रसरस्वत्यै नमः
Verse
श्रीमते विद्यातीर्थ-इन्द्रसरस्वत्यै नमः
Verse
श्रीमते शङ्करानन्द-इन्द्रसरस्वत्यै नमः
Verse
श्रीमते अद्वैतब्रह्मानन्दाय नमः
Verse
श्रीमते विद्यारण्याय नमः
Verse
अन्येभ्यः विद्यातीर्थ-शङ्करानन्द-शिष्येभ्यो नमः
Verse
श्रीमते पूर्णानन्द-सदाशिव-इन्द्रसरस्वत्यै नमः
Verse
श्रीमते व्यासाचल-महादेव-इन्द्रसरस्वत्यै नमः
Verse
श्रीमते चन्द्रचूड-इन्द्रसरस्वत्यै नमः
Verse
श्रीमते सदाशिवबोध-इन्द्रसरस्वत्यै नमः
Verse
श्रीमते परमशिव-इन्द्रसरस्वत्यै नमः
Verse
श्रीमते सदाशिवब्रह्म-इन्द्रसरस्वत्यै नमः
Verse
श्रीमते विश्वाधिक-आत्मबोध-इन्द्रसरस्वत्यै नमः
Verse
श्रीमते भगवन्नाम-बोध-इन्द्रसरस्वत्यै नमः
Verse
श्रीमते अद्वैतात्मप्रकाश-इन्द्रसरस्वत्यै नमः
Verse
श्रीमते महादेव-इन्द्रसरस्वत्यै नमः
Verse
श्रीमते शिवगीतिमाला-चन्द्रशेखर-इन्द्रसरस्वत्यै नमः
Verse
श्रीमते महादेव-इन्द्रसरस्वत्यै नमः
Verse
श्रीमते चन्द्रशेखर-इन्द्रसरस्वत्यै नमः
Verse
श्रीमते सुदर्शन-महादेव-इन्द्रसरस्वत्यै नमः
Verse
श्रीमते चन्द्रशेखर-इन्द्रसरस्वत्यै नमः
Verse
श्रीमते महादेव-इन्द्रसरस्वत्यै नमः
Verse
श्रीमते चन्द्रशेखर-इन्द्रसरस्वत्यै नमः
Verse
श्रीमते जयेन्द्रसरस्वत्यै नमः
Verse
श्रीमते शङ्करविजयेन्द्रसरस्वत्यै नमः
Verse
श्रीमते सत्य-चन्द्रशेखरेन्द्रसरस्वत्यै नमः
Verse
श्रीमत्-शङ्कर-भगवत्पादाचार्येभ्यो नमः, नानाविध-परिमल-पत्र-पुष्पाणि समर्पयामि।
Verse
विज्यं॒ धनुः॑ कप॒र्दिनो॒ विश॑ल्यो॒ बाण॑वाꣳ उ॒त। अने॑शन्न॒स्येष॑व आ॒भुर॑स्य निष॒ङ्गथिः॑॥ ॐ ह्रीं न॒मः शि॒वाय॑। बला॑य॒ नमः॑।
Verse
संसार-सागरं घोरम् अनन्त-क्लेश-भाजनम् त्वामेव शरणं प्राप्य निस्तरन्ति मनीषिणः श्रीमत्-शङ्कर-भगवत्पादाचार्येभ्यो नमः, धूपम् आघ्रापयामि।
Verse
या ते॑ हे॒तिर्मी॑ढुष्टम॒ हस्ते॑ ब॒भूव॑ ते॒ धनुः॑। तया॒ऽस्मान् वि॒श्वत॒स्त्वम॑य॒क्ष्मया॒ परि॑ब्भुज॥ ॐ ह्रीं न॒मः शि॒वाय॑। बल॑प्रमथनाय॒ नमः॑।
Verse
नमस्तस्मै भगवते शङ्कराचार्य-रूपिणे येन वेदान्त-विद्येयम् उद्धृता वेद-सागरात् श्रीमत्-शङ्कर-भगवत्पादाचार्येभ्यो नमः, दीपं दर्शयामि।
Verse
ॐ भूर्भुवः॒ सुवः॑। + ब्र॒ह्मणे॒ स्वाहा᳚।
Verse
नम॑स्ते अ॒स्त्वायु॑धा॒याना॑तताय धृ॒ष्णवे᳚। उ॒भाभ्या॑मु॒त ते॒ नमो॑ बा॒हुभ्यां॒ तव॒ धन्व॑ने॥ ॐ ह्रीं न॒मः शि॒वाय॑। सर्व॑भूतदमनाय॒ नमः॑।
Verse
भगवत्पाद-पादाब्ज-पांसवः सन्तु सन्ततम् अपारासार-संसार-सागरोत्तार-सेतवः श्रीमत्-शङ्कर-भगवत्पादाचार्येभ्यो नमः, अमृतं महानैवेद्यं पानीयं च निवेदयामि। मध्ये मध्ये अमृतपानीयं समर्पयामि। अमृतापिधानमसि। हस्तप्रक्षालनं समर्पयामि। पादप्रक्षालनं समर्पयामि। निवेदनानन्तरम् आचमनीयं समर्पयामि।
Verse
परि॑ ते॒ धन्व॑नो हे॒तिर॒स्मान्वृ॑णक्तु वि॒श्वतः॑। अथो॒ य इ॑षु॒धिस्तवा॒ऽ॒ऽ॒रे अ॒स्मन्नि धे॑हि॒ तम्॥ ॐ ह्रीं न॒मः शि॒वाय॑। म॒नोन्म॑नाय॒ नमः॑।
Verse
श्रीमत्-शङ्कर-भगवत्पादाचार्येभ्यो नमः, ताम्बूलं समर्पयामि।
Verse
नम॑स्ते अस्तु भगवन् विश्वेश्व॒राय॑ महादे॒वाय॑ त्र्यम्ब॒काय॑ त्रिपुरान्त॒काय॑ त्रिकाग्निका॒लाय॑ कालाग्निरु॒द्राय॑ नीलक॒ण्ठाय॑ मृत्युञ्ज॒याय॑ सर्वेश्व॒राय॑ सदाशि॒वाय॑ श्रीमन्महादे॒वाय॒ नमः॑॥
Verse
अज्ञान-तिमिरान्धस्य ज्ञानाञ्जन-शलाकया चक्षुरुन्मीलितं येन तस्मै श्री-गुरवे नमः श्रीमत्-शङ्कर-भगवत्पादाचार्येभ्यो नमः, नीराजनं दर्शयामि। नीराजनानन्तरम् आचमनीयं समर्पयामि। श्रीमत्-शङ्कर-भगवत्पादाचार्येभ्यो नमः, समस्तोपचारान् समर्पयामि।
Verse
यानि कानि च पापानि जन्मान्तर-कृतानि च तानि तानि विनश्यन्ति प्रदक्षिण-पदे पदे प्रदक्षिणं कृत्वा। श्रीमत्-शङ्कर-भगवत्पादाचार्येभ्यो नमः, प्रदक्षिणं करोमि।
Verse
आचार्यान् भगवत्पादान् षण्मत-स्थापकान् हितान् परहंसान् नुमोऽद्वैत-स्थापकान् जगतो गुरून् श्रीमत्-शङ्कर-भगवत्पादाचार्येभ्यो नमः, नमस्कारान् समर्पयामि।
Verse
गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुर्देवो महेश्वरः गुरुरेव परं ब्रह्म तस्मै श्री-गुरवे नमः
Verse
अखण्ड-मण्डलाकारं व्याप्तं येन चराचरम् तत्-पदं दर्शितं येन तस्मै श्री-गुरवे नमः
Verse
अनेक-जन्म-सम्प्राप्त-कर्म-बन्ध-विदाहिने आत्म-ज्ञान-प्रदानेन तस्मै श्री-गुरवे नमः
Verse
विशुद्ध-विज्ञान-घनं शुचिं हार्द-तमोनुदम् दया-सिन्धुं लोक-बन्धुं शङ्करं नौमि सद्-गुरुम्
Verse
देह-बुद्ध्या तु दासोऽस्मि जीव-बुद्ध्या त्वदंशकः आत्म-बुद्ध्या त्वमेवाहमिति मे निश्चिता मतिः
Verse
एकः शाखी शङ्कराख्यश्चतुर्धा स्थानं भेजे ताप-शान्त्यै जनानाम् शिष्य-स्कन्धैः शिष्य-शाखैर्महद्भिः ज्ञानं पुष्पं यत्र मोक्षः प्रसूतिः
Verse
गामाक्रम्य पदेऽधिकाञ्चि निबिडं स्कन्धैश्चतुर्भिस्तथा व्यावृण्वन् भुवनान्तरं परिहरंस्तापं स-मोह-ज्वरम् यः शाखी द्विज-संस्तुतः फलति तत् स्वाद्यं रसाख्यं फलं तस्मै शङ्कर-पादपाय महते तन्मस्त्रि-सन्ध्यं नमः श्रीमत्-शङ्कर-भगवत्पादाचार्येभ्यो नमः, स्तोत्रं समर्पयामि।
Verse
प्रार्थनाः समर्पयामि।
Verse
अविद्या-मूल-नाशाय जन्म-कर्म-निवृत्तये ज्ञान-वैराग्य-सिद्ध्यर्थं गुरु-पादोदकं शुभम्
Verse
Verse
Verse
Verse
जय जय शङ्कर हर हर शङ्कर जय जय शङ्कर हर हर शङ्कर काञ्ची-शङ्कर कामकोटि-शङ्कर हर हर शङ्कर जय जय शङ्कर
Verse
कायेन वाचा मनसेन्द्रियैर्वा बुद्ध्याऽऽत्मना वा प्रकृतेः स्वभावात् करोमि यद् यत् सकलं परस्मै नारायणायेति समर्पयामि
Verse
अनेन पूजनेन श्रीमत्-शङ्कर-भगवत्पादाचार्याः प्रीयन्ताम्।
Verse
ॐ तत् सद् ब्रह्मार्पणमस्तु।
