Preparing Your Space .

Settling the page into your current context.

GyanDweepBeta
HomeLearnLibrary
eGurukulsDiscoverTemplesPanchanga
Sign Up
Sign Up

pujavidhanam

śrī-rāmanavamī-pūjā

श्री-रामनवमी-पूजा

Verse

Verse

शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये

Verse

प्राणान् आयम्य। ॐ भूः + भूर्भुवः॒ सुव॒रोम्।

Verse

ममोपात्त-समस्त-दुरित-क्षयद्वारा श्री-परमेश्वर-प्रीत्यर्थं शुभे शोभने मुहूर्ते अद्य ब्रह्मणः द्वितीयपरार्धे श्वेतवराहकल्पे वैवस्वतमन्वन्तरे अष्टाविंशतितमे कलियुगे प्रथमे पादे जम्बूद्वीपे भारतवर्षे भरतखण्डे मेरोः दक्षिणे पार्श्वे शकाब्दे अस्मिन् वर्तमाने व्यावहारिकाणां प्रभवादीनां षष्ट्याः संवत्सराणां मध्ये [[samvatsara]] नाम संवत्सरे उत्तरायणे वसन्त-ऋतौ (मेष/मीन) मासे शुक्लपक्षे नवम्यां शुभतिथौ [[vasara]]-वासरयुक्तायाम् (आर्द्रा/पुनर्वसू/पुष्य) नक्षत्रयुक्तायां [[yoga]]-योग [[karana]]-करण-युक्तायां च एवं गुण-विशेषण-विशिष्टायाम् अस्याम् नवम्यां शुभतिथौ

Verse

भारतीयस्य वैदिकस्य अस्माकं सनातन-धर्मस्य सर्वत्र विजय-सिद्ध्यर्थं

Verse

तद्-अवलम्बनेन भारतीयानां महाजनानां विघ्न-निवृत्ति-पूर्वक-सत्कार्य-प्रवृत्ति-द्वारा सर्वविध-ऐहिक-आमुष्मिक-योग-क्षेम-अभिवृद्ध्यर्थं, असत्कार्येभ्यः निवृत्त्यर्थं

Verse

सनातन-धर्मस्य विरोधिनाम् उपशमनार्थं

Verse

भारतीय-सत्-सन्तान-समृद्ध्यर्थं, भारतीयानां सन्ततेः अपि अस्मिन् सनातन-धर्म-सम्प्रदाये श्रद्धा-भक्त्योः अभिवृद्ध्यर्थं

Verse

विभिन्न-सम्प्रदाय-स्थानां सनातन-धर्मावलम्बिनां परस्परं समन्वयेन अविरोधेन साधन-अनुष्ठानेन फल-सिद्ध्यर्थम्

Verse

सर्वत्र भूमण्डले विशेषतः भारते च राम-नाम-महिम्नः प्रसारार्थं राम-राज्यस्य सिद्ध्यर्थं

Verse

अयोध्यायां भगवतः श्रीरामस्य जन्म-भूमि-मन्दिरस्य मूल-स्थानं परितः महतः मन्दिर-परिसरस्य सम्यग् अभिवृद्ध्यर्थम्

Verse

अस्माकं सह-कुटुम्बानां क्षेम-स्थैर्य-धैर्य-वीर्य-विजय-आयुः-आरोग्य-ऐश्वर्याणाम् अभिवृद्ध्यर्थं धर्मार्थ-काम-मोक्ष-चतुर्विध-पुरुषार्थ-सिद्ध्यर्थं

Verse

मम इहजन्मनि पूर्वजन्मनि जन्मान्तरे च सम्पादितानां ज्ञानाज्ञानकृतमहापातकचतुष्टय-व्यतिरिक्तानां रहस्यकृतानां प्रकाशकृतानां सर्वेषां पापानां सद्य अपनोदनद्वारा सकल-पापक्षयार्थं

Verse

श्री-सीता-लक्ष्मण-भरत-शत्रुघ्न-हनुमत्-समेत-श्री-रामचन्द्र-प्रीत्यर्थम्

Verse

श्रीरामनवमीपुण्यकाले कल्पोक्तप्रकारेण यथाशक्ति श्रीरामचन्द्रपूजां करिष्ये। तदङ्गं कलशपूजां च करिष्ये।

Verse

श्रीविघ्नेश्वराय नमः यथास्थानं प्रतिष्ठापयामि। (गणपति-प्रसादं शिरसा गृहीत्वा)

Verse

Verse

Verse

Verse

Verse

Verse

Verse

वैदेही-सहितं सुर-द्रुम-तले हैमे महामण्डपे मध्ये पुष्पकमासने मणिमये वीरासने सुस्थितम् अग्रे वाचयति प्रभञ्जन-सुते तत्त्वं मुनिभ्यः परं व्याख्यान्तं भरतादिभिः परिवृतं रामं भजे श्यामलम्

Verse

वामे भूमि-सुता पुरश्च हनुमान् पश्चात् सुमित्रा-सुतः शत्रुघ्नो भरतश्च पार्श्व-दलयोर्वाय्वादि-कोणेषु च सुग्रीवश्च विभीषणश्च युवराट् तारा-सुतो जाम्बवान् मध्ये नील-सरोज-कोमल-रुचिं रामं भजे श्यामलम्

Verse

श्री-सीता-लक्ष्मण-भरत-शत्रुघ्न-हनुमत्-समेत-श्री-रामचन्द्रं ध्यायामि।

Verse

Verse

आवाहयामि विश्वेशं वैदेही-वल्लभं विभुम्। कौसल्या-तनयं विष्णुं श्री-रामं प्रकृतेः परम्॥ श्रीरामाय नमः, आवाहयामि।

Verse

वामे सीताम् आवाहयामि। पुरस्तात् हनुमन्तम् आवाहयामि। पश्चात् लक्ष्मणम् आवाहयामि। उत्तरस्यां शत्रुघ्नमवाहयामि। दक्षिणस्यां दिशि भरतम् आवाहयामि। वायव्यायां सुग्रीवम् आवाहयामि। ऐशान्यां विभीषणम् आवाहयामि। आग्नेय्याम् अङ्गदम् आवाहयामि। नैर्ऋत्यां जाम्बवन्तम् आवाहयामि॥

Verse

आवाहितो भव। स्थापितो भव। सन्निहितो भव। सन्निरुद्धो भव। अवकुण्ठितो भव।

Verse

प्रीतो भव। सुप्रसन्नो भव। सुमुखो भव। वरदो भव। प्रसीद प्रसीद॥

Verse

स्वामिन् सर्वजगन्नाथ यावत्पूजावसानकम् तावत् त्वं प्रीतिभावेन बिम्बेऽस्मिन् सन्निधिं कुरु

Verse

रत्न-सिंहासनारूढ सर्व-भूपाल-वन्दित आसनं ते मया दत्तं प्रीतिं जनयतु प्रभो सपरिवाराय श्रीरामाय नमः, आसनं समर्पयामि।

Verse

पादाङ्गुष्ठ-समुद्भूत-गङ्गा-पावित-विष्टप पाद्यार्थमुदकं राम ददामि परिगृह्यताम् सपरिवाराय श्रीरामाय नमः, पाद्यं समर्पयामि।

Verse

वालखिल्यादिभिर्विप्रैस्त्रिसन्ध्यं प्रयतात्मभिः अर्घ्यैराराधित विभो ममार्घ्यं राम गृह्यताम् सपरिवाराय श्रीरामाय नमः, अर्घ्यं समर्पयामि।

Verse

आचान्ताम्भोधिना राम मुनिना परिसेवित मया दत्तेन तोयेन कुर्वाचमनमीश्वर सपरिवाराय श्रीरामाय नमः, आचमनीयं समर्पयामि।

Verse

नमः श्री-वासुदेवाय तत्त्व-ज्ञान-स्वरूपिणे मधुपर्कं गृहाणेमं जानकीपतये नमः सपरिवाराय श्रीरामाय नमः, मधुपर्कं समर्पयामि।

Verse

कामधेनु-समुद्भूत-क्षीरेणेन्द्रेण राघव अभिषिक्ताखिलार्थाप्त्यै स्नाहि मद्-दत्त-दुग्धतः सपरिवाराय श्रीरामाय नमः, क्षीराभिषेकं समर्पयामि।

Verse

हनूमता मधुवनोद्भूतेन मधुना प्रभो प्रीत्याऽभिषेचित-तनो मधुना स्नाहि मेऽद्य भोः सपरिवाराय श्रीरामाय नमः, मध्वभिषेकं समर्पयामि।

Verse

त्रैलोक्य-ताप-हरण-नाम-कीर्तन राघव मधूत्थ-ताप-शान्त्यर्थं स्नाहि क्षीरेण वै पुनः सपरिवाराय श्रीरामाय नमः, मध्वभिषेकान्ते पुनः क्षीराभिषेकं समर्पयामि।

Verse

नदी-नद-समुद्रादि-तोयैर्मन्त्राभिसंस्कृतैः पट्टाभिषिक्त राजेन्द्र स्नाहि शुद्ध-जलेन मे सपरिवाराय श्रीरामाय नमः, शुद्धोदक-स्नानं समर्पयामि। स्नानोत्तरम् आचमनीयं समर्पयामि।

Verse

हित्वा पीताम्बरं चीर-कृष्णाजिन-धराच्युत परिधत्स्वाद्य मे वस्त्रं स्वर्ण-सूत्र-विनिर्मितम् सपरिवाराय श्रीरामाय नमः, वस्त्रं समर्पयामि।

Verse

राजर्षि-वंश-तिलक रामचन्द्र नमोऽस्तु ते यज्ञोपवीतं विधिना निर्मितं धत्स्व मे प्रभो सपरिवाराय श्रीरामाय नमः, उपवीतं समर्पयामि।

Verse

किरीटादीनि राजेन्द्र हंसकान्तानि राघव विभूषणानि धृत्वाऽद्य शोभस्व सह सीतया सपरिवाराय श्रीरामाय नमः, आभरणम् समर्पयामि।

Verse

सन्ध्या-समान-रुचिना नीलाभ्र-सम-विग्रह लिम्पामि तेऽङ्गकं राम चन्दनेन मुदा हृदि सपरिवाराय श्रीरामाय नमः, गन्धान् धारयामि। गन्धस्योपरि हरिद्रा-कुङ्कुमं समर्पयमि।

Verse

अक्षतान् कुङ्कुमोन्मिश्रान् अक्षय्य-फल-दायक अर्पये तव पादाब्जे शालि-तण्डुल-सम्भवान् सपरिवाराय श्रीरामाय नमः, अक्षतान् समर्पयामि।

Verse

चम्पकाशोक-पुन्नागैर्जलजैस्तुलसी-दलैः पूजयामि रघूत्तंस पूज्यं त्वां सनकादिभिः सपरिवाराय श्रीरामाय नमः, पुष्पाणि समर्पयामि।

Verse

अहल्या-उद्धारकाय नमःपाद-रजः पूजयामि

Verse

शरणागत-रक्षकाय नमःपाद-कान्तिं पूजयामि

Verse

गङ्गा-नदी-प्रवर्तन-पराय नमःपाद-नखान् पूजयामि

Verse

सीता-संवाहित-पदाय नमःपाद-तलं पूजयामि

Verse

दुन्दुभि-काय-विक्षेपकाय नमःपादाङ्गुष्ठं पूजयामि

Verse

विनत-कल्प-द्रुमाय नमःगुल्फौ पूजयामि

Verse

दण्डकारण्य-गमन-जङ्घालाय नमःजङ्घे पूजयामि

Verse

जानु-न्यस्त-कराम्बुजाय नमःजानुनी पूजयामि

Verse

वीरासन-अध्यासिने नमःऊरू पूजयामि

Verse

पीताम्बर-अलङ्कृताय नमःकटिं पूजयामि

Verse

आकाश-मध्यगाय नमःमध्यं पूजयामि

Verse

अरि-निग्रह-पराय नमःकटि-लम्बितम् असिं पूजयामि

Verse

अब्धि-मेखला-पतये नमःमध्य-लम्बित-मेखला-दाम पूजयामि

Verse

उदर-स्थित-ब्रह्माण्डाय नमःउदरं पूजयामि

Verse

जगत्-त्रय-गुरवे नमःवलि-त्रयं पूजयामि

Verse

सीतानुलेपित-काश्मीर-चन्दनाय नमःवक्षः पूजयामि

Verse

अभय-प्रदान-शौण्डाय नमःदक्षिण-बाहु-दण्डं पूजयामि

Verse

वितरण-जित-कल्पद्रुमाय नमःदक्षिण-कर-तलं पूजयामि

Verse

आशर-निरसन-पराय नमःदक्षिण-कर-स्थित-शरं पूजयामि

Verse

ज्ञान-विज्ञान-भासकाय नमःचिन्मुद्रां पूजयामि

Verse

मुनि-सङ्घार्पित-दिव्य-पदाय नमःवाम-भुज-दण्डं पूजयामि

Verse

दशानन-काल-रूपिणे नमःवाम-हस्त-स्थित-कोदण्डं पूजयामि

Verse

शत-मख-दत्त-शत-पुष्कर-स्रजे नमःअंसौ पूजयामि

Verse

कृत्त-दशानन-किरीट-कूटाय नमःअंस-लम्बित-निषङ्ग-द्वयं पूजयामि

Verse

सीता-बाहु-लतालिङ्गिताय नमःकण्ठं पूजयामि

Verse

स्मित-भाषिणे नमःस्मितं पूजयामि

Verse

नित्य-प्रसन्नाय नमःमुख-प्रसादं पूजयामि

Verse

सत्य-वाचे नमःवाचं पूजयामि

Verse

कपालि-पूजिताय नमःकपोलौ पूजयामि

Verse

चक्षुःश्रवः-प्रभु-पूजिताय नमःश्रोत्रे पूजयामि

Verse

अनासादित-पाप-गन्धाय नमःघ्राणं पूजयामि

Verse

पुण्डरीकाक्षाय नमःअक्षिणी पूजयामि

Verse

अपाङ्ग-स्यन्दि-करुणाय नमःअरुणापाङ्ग-द्वयं पूजयामि

Verse

विना-कृत-रुषे नमःअनाथ-रक्षक-कटाक्षं पूजयामि

Verse

कस्तूरी-तिलकाङ्किताय नमःफालं पूजयामि

Verse

राजाधिराज-वेषाय नमःकिरीटं पूजयामि

Verse

मुनि-मण्डल-पूजिताय नमःजटा-मण्डलं पूजयामि

Verse

मोहित-मुनि-जनाय नमःपुंसां मोहनं रूपं पूजयामि

Verse

जानकी-व्यजन-वीजिताय नमःविद्युद्-विद्योतित-कालाभ्र-सदृश-कान्तिं पूजयामि

Verse

हनुमदर्पित-चूडामणये नमःकरुणारस-उद्वेल्लित-कटाक्ष-धारां पूजयामि

Verse

सुमन्त्रानुग्रह-पराय नमःतेजोमयरूपं पूजयामि

Verse

कम्पिताम्भोधये नमःआहार्य-कोपं पूजयामि

Verse

तिरस्कृत-लङ्केश्वराय नमःधैर्यं पूजयामि

Verse

वन्दित-जनकाय नमःविनयं पूजयामि

Verse

सम्मानित-त्रिजटाय नमःअतिमानुष-सौलभ्यं पूजयामि

Verse

गन्धर्व-राज-प्रतिमाय नमःलोकोत्तर-सौन्दर्यं पूजयामि

Verse

असहाय-हत-खर-दूषणादि-चतुर्दश-सहस्र-राक्षसाय नमःपराक्रमं पूजयामि

Verse

आलिङ्गित-आञ्जनेयाय नमःभक्त-वात्सल्यं पूजयामि

Verse

लब्ध-राज्य-परित्यक्त्रे नमःधर्मं पूजयामि

Verse

दर्भ-शायिने नमःलोकानुवर्तनं पूजयामि

Verse

सर्वेश्वराय नमःसर्वाण्यङ्गानि सर्वांश्च गुणान् पूजयामि

Verse

Verse

Verse

Verse

Verse

Verse

Verse

वनस्पति-रसोद्भूतो गन्धाढ्यो धूप उत्तमः रामचन्द्र महीपाल धूपोऽयं प्रतिगृह्यताम् श्री-सीता-लक्ष्मण-भरत-शत्रुघ्न-हनुमत्-समेत-श्री-रामचन्द्र-परब्रह्मणे नमः, धूपम् आघ्रापयामि।

Verse

ज्योतिषां पतये तुभ्यं नमो रामाय वेधसे गृहाण मङ्गलं दीपं त्रैलोक्य-तिमिरापहम् श्री-सीता-लक्ष्मण-भरत-शत्रुघ्न-हनुमत्-समेत-श्री-रामचन्द्र-परब्रह्मणे नमः, अलङ्कारदीपं सन्दर्शयामि।

Verse

ॐ भूर्भुवः॒ सुवः॑। + ब्र॒ह्मणे॒ स्वाहा᳚।

Verse

इदं दिव्यान्नम् अमृतं रसैः षड्भिः समन्वितम् रामचन्द्रेश नैवेद्यं सीतेश प्रतिगृह्यताम्

Verse

श्री-सीता-लक्ष्मण-भरत-शत्रुघ्न-हनुमत्-समेत-श्री-रामचन्द्र-परब्रह्मणे नमः, नैवेद्यं निवेदयामि। मध्ये मध्ये पानीयं समर्पयामि। निवेदनोत्तरम् आचमनीयं समर्पयामि।

Verse

नागवल्ली-दलैर्युक्तं पूगी-फल-समन्वितम् ताम्बूलं गृह्यतां राम कर्पूरादि-समन्वितम् श्री-सीता-लक्ष्मण-भरत-शत्रुघ्न-हनुमत्-समेत-श्री-रामचन्द्र-परब्रह्मणे नमः, कर्पूरताम्बूलं समर्पयामि।

Verse

मङ्गलार्थं महीपाल नीराजनमिदं हरे सङ्गृहाण जगन्नाथ रामचन्द्र नमोऽस्तु ते श्री-सीता-लक्ष्मण-भरत-शत्रुघ्न-हनुमत्-समेत-श्री-रामचन्द्र-परब्रह्मणे नमः, समस्त-अपराध-क्षमापणार्थंं समस्त-दुरित-उपशान्त्यर्थं समस्त-सन्मङ्गल-अवाप्त्यर्थं कर्पूर-नीराजनं दर्शयामि। कर्पूरनीराजनानन्तरम् आचमनीयं समर्पयामि। रक्षां धारयामि।

Verse

कल्पवृक्ष-समुद्भूतैः पुरुहूतादिभिः सुमैः पुष्पाञ्जलिं ददाम्यद्य पूजितायाशर-द्विषे

Verse

यो॑ऽपां पुष्पं॒ वेद॑। पुष्प॑वान् प्र॒जावा᳚न् पशु॒मान् भ॑वति। च॒न्द्रमा॒ वा अ॒पां पुष्पम्᳚। पुष्प॑वान् प्र॒जावा᳚न् पशु॒मान् भ॑वति। य ए॒वं वेद॑। यो॑ऽपामा॒यत॑नं॒ वेद॑। आ॒यत॑नवान् भवति।

Verse

ओं᳚ तद्ब्र॒ह्म। ओं᳚ तद्वा॒युः। ओं᳚ तदा॒त्मा। ओं᳚ तथ्स॒त्यम्‌। ओं᳚ तथ्सर्वम्᳚‌। ओं᳚ तत्पुरो॒र्नमः॥

Verse

अन्तश्चरति॑ भूते॒षु॒ गुहायां वि॑श्वमू॒र्तिषु। त्वं यज्ञस्त्वं वषट्कारस्त्वमिन्द्रस्त्वꣳ रुद्रस्त्वं विष्णुस्त्वं ब्रह्म त्वं॑ प्रजा॒पतिः। त्वं त॑दाप॒ आपो॒ ज्योती॒ रसो॒ऽमृतं॒ ब्रह्म॒ भूर्भुवः॒ सुव॒रोम्‌॥

Verse

श्री-सीता-लक्ष्मण-भरत-शत्रुघ्न-हनुमत्-समेत-श्री-रामचन्द्र-परब्रह्मणे नमः, वेदोक्तमन्त्रपुष्पाञ्जलिं समर्पयामि।

Verse

मन्दाकिनी-समुद्भूत-काञ्चनाब्ज-स्रजा विभो सम्मानिताय शक्रेण स्वर्ण-पुष्पं ददामि ते श्री-सीता-लक्ष्मण-भरत-शत्रुघ्न-हनुमत्-समेत-श्री-रामचन्द्र-परब्रह्मणे नमः, स्वर्ण-पुष्पम् समर्पयामि।

Verse

चराचरं व्याप्नुवन्तम् अपि त्वां रघु-नन्दन प्रदक्षिणं करोम्यद्य मदग्रे मूर्ति-संयुतम्

Verse

श्री-सीता-लक्ष्मण-भरत-शत्रुघ्न-हनुमत्-समेत-श्री-रामचन्द्र-परब्रह्मणे नमः, प्रदक्षिणं करोमि।

Verse

ध्येयं सदा परिभव-घ्नम् अभीष्ट-दोहं तीर्थास्पदं शिव-विरिञ्चि-नुतं शरण्यम् भृत्यार्ति-हं प्रणत-पाल-भवाब्धि-पोतं वन्दे महापुरुष ते चरणारविन्दम्

Verse

त्यक्त्वा सुदुस्त्यज-सुरेप्सित-राज्य-लक्ष्मीं धर्मिष्ठ आर्य-वचसा यदगाद् अरण्यम् माया-मृगं दयितयेप्सितम् अन्वधावत् वन्दे महापुरुष ते चरणारविन्दम्

Verse

साङ्गोपाङ्गाय साराय जगतां सनकादिभिः वन्दिताय वरेण्याय राघवाय नमो नमः

Verse

श्री-सीता-लक्ष्मण-भरत-शत्रुघ्न-हनुमत्-समेत-श्री-रामचन्द्र-परब्रह्मणे नमः, नमस्कारान् समर्पयामि।

Verse

त्वमक्षरोऽसि भगवन् व्यक्ताव्यक्त-स्वरूप-धृत् यथा त्वं रावणं हत्वा यज्ञ-विघ्न-करं खलम् लोकान् रक्षितवान् राम तथा मन्मानसाश्रयम्

Verse

रजस्तमश्च निर्हत्य त्वत्पूजालस्य-कारकम् सत्त्वम् उद्रेचय विभो त्वत्पूजादर-सिद्धये

Verse

विभूतिं वर्षय गृहे पुत्रपौत्राभिवृद्धिकृत् कल्याणं कुरु मे नित्यं कैवल्यं दिश चान्ततः

Verse

विधितोऽविधितो वाऽपि या पूजा क्रियते मया तां त्वं सन्तुष्टहृदयो यथावद् विहितामिव

Verse

स्वीकृत्य परमेशान मात्रा मे सह सीतया लक्ष्मणादिभिरप्यत्र प्रसादं कुरु मे सदा

Verse

प्रार्थनाः समर्पयामि।

Verse

Verse

एकातपत्रच्छायायां शासिताशेषभूमिक मम छत्रमिदं रत्नजालकं राम गृह्यताम् छत्रम् समर्पयामि।

Verse

रक्षोराजानुजाभ्यां ते कृतं चामरसेवया वीजयेऽहं कराभ्यां ते चामरद्वयमादरात् चामरम् वीजयामि।

Verse

रामायणं साधु गीतं सुताभ्यां श्रुतवानसि मयाऽपि गीयमानं ते स्तोत्रं चित्ताय रोचताम् गीतम् गायामि।

Verse

वीणावेणुमृदङ्गादिवाद्यैस्त्वां प्रीणयाम्यहम् मददम्भाहङ्कृतीनां नाशको भव राघव वाद्यम् घोषयामि।

Verse

आरुह्य सीतया सार्धं दत्तामान्दोलिकां मया विभाहि भूषितो राम मत्कृते पूजनोत्सवे आन्दोलिकां समर्पयामि।

Verse

मया कल्पितपल्याणं महान्तं मम घोटकम् मदंसे चरणं न्यस्य मुदाऽऽरोह रघूत्तम अश्वान् आरोहयामि।

Verse

गजेन महताऽऽयान्तमाकाङ्क्षन्ति स्म नागराः द्रष्टुं त्वां मगजे भाहि दृष्ट्वा नन्देयमप्यहम् गजान् आरोहयामि।

Verse

समस्तराजोपचारदेवोपचारपूजाः समर्पयामि।

Verse

मनसा वचसा कायेनागसां शतमन्वहम् धियाऽधिया च रचये क्षमस्व सहजक्षम

Verse

आवाहनं न जानामि न जानामि विसर्जनम् पूजाविधिं न जानामि क्षमस्व पुरुषोत्तम

Verse

शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये

Verse

प्राणान् आयम्य। ॐ भूः + भूर्भुवः॒ सुव॒रोम्।

Verse

ममोपात्त + प्रीत्यर्थम् अद्य पूर्वोक्त + शुभतिथौ श्रीरामचन्द्रपूजान्ते अर्घ्यप्रदानं करिष्ये [(इति सङ्कल्प्य)]।

Verse

राम रात्रिञ्चराराते क्षीरमध्वाज्यकल्पितम् पूजान्तेऽर्घ्यं मया दत्तं स्वीकृत्य वरदो भव

Verse

श्री-सीता-लक्ष्मण-भरत-शत्रुघ्न-हनुमत्-समेत-श्री-रामचन्द्र-परब्रह्मणे नमः, इदमर्घ्यं इदमर्घ्यं इदमर्घ्यम्।

Verse

अनेनार्ध्यप्रदानेन श्री-सीता-लक्ष्मण-भरत-शत्रुघ्न-हनुमत्-समेत-श्री-रामचन्द्रः प्रीयताम्।

Verse

हिरण्यगर्भगर्भस्थं हेमबीजं विभावसोः अनन्तपुण्यफलदम् अतः शान्तिं प्रयच्छ मे

Verse

श्री-रामनवमी-पुण्यकाले अस्मिन् मया क्रियमाण-श्रीरामपूजायां यद्देयमुपायनदानं तत्प्रतिनिधित्वेन हिरण्यं श्री-सीता-लक्ष्मण-भरत-शत्रुघ्न-हनुमत्-समेत-श्री-रामचन्द्र-प्रीतिं कामयमानः मनसोद्दिष्टाय ब्राह्मणाय सम्प्रददे नमः न मम।

Verse

अनया पूजया श्री-सीता-लक्ष्मण-भरत-शत्रुघ्न-हनुमत्-समेत-श्री-रामचन्द्रः प्रीयताम्।

Verse

यस्य स्मृत्या च नामोक्त्या तपः-पूजा-क्रियादिषु न्यूनं सम्पूर्णतां याति सद्यो वन्दे तमच्युतम्

Verse

इदं व्रतं मया देव कृतं प्रीत्यै तव प्रभो न्यूनं सम्पूर्णतां यातु त्वत्प्रसादाज्जनार्द्दन

Verse

अस्मात् बिम्बात् श्री-सीता-लक्ष्मण-भरत-शत्रुघ्न-हनुमत्-समेत-श्री-रामचन्द्रं यथास्थानं प्रतिष्ठापयामि। (अक्षतानर्पित्वा देवमुत्सर्जयेत्।)

Verse

कायेन वाचा मनसेन्द्रियैर्वा बुद्‌ध्याऽऽत्मना वा प्रकृतेः स्वभावात् करोमि यद्यत् सकलं परस्मै नारायणायेति समर्पयामि

Verse

अनया पूजया श्री-सीता-लक्ष्मण-भरत-शत्रुघ्न-हनुमत्-समेत-श्री-रामचन्द्रः प्रीयताम्। ॐ तत्सद्ब्रह्मार्पणमस्तु।

pañcāṅga-pūjā
śrī-śaṅkara-bhagavatpāda-pūjā

सा विद्या या विमुक्तये

Built with Sankalpa at Gyaandweep

Gyaandweep

© 2022-2026 Granthajyoti Pvt Ltd.

Privacy & Terms