stotrasangraha
mahālakṣmīstutiḥ (agastyakṛtā)
महालक्ष्मीस्तुतिः (अगस्त्यकृता)
Verse
मातर्नमामि कमले कमलायताक्षि श्रीविष्णुहृत्कमलवासिनि विश्वमातः । क्षीरोदजे कमलकोमलगर्भगौरि लक्ष्मि प्रसीद सततं नमतां शरण्ये ॥१॥
Verse
त्वं श्रीरुपेन्द्रसदने मदनैकमातर्- ज्योत्स्नाऽसि चन्द्रमसि चन्द्रमनोहरास्ये । सूर्ये प्रभाऽसि च जगत्त्रितये प्रभाऽसि लक्ष्मि प्रसीद सततं नमतां शरण्ये ॥२॥
Verse
त्वं जातवेदसि सदा दहनात्मशक्तिर्- वेधास्त्वया जगदिदं विविधं विदध्यात् । विश्वम्भरोऽपि बिभृयादखिलं भवत्या लक्ष्मि प्रसीद सततं नमतां शरण्ये ॥३॥
Verse
त्वत्त्यक्तमेतदमले हरते हरोऽपि त्वं पासि हंसि विदधासि परावरासि । ईड्यो बभूव हरिरप्यमले त्वदाप्त्या लक्ष्मि प्रसीद सततं नमतां शरण्ये ॥४॥
Verse
शूरः स एव स गुणी स बुधः स धन्यो मान्यः स एव कुलशीलकलाकलापैः । एकः शुचिः स हि पुमान् सकलेऽपि लोके यत्रापतेत् तव शुभे करुणाकटाक्षः ॥५॥
Verse
यस्मिन्वसेः क्षणमहो पुरुषे गजेऽश्वे स्त्रैणे तृणे सरसि देवकुले गृहेऽन्ने । रत्ने पतत्त्रिणि पशौ शयने धरायां सश्रीकमेव सकले तदिहास्ति नान्यत् ॥६॥
Verse
त्वत्स्पृष्टमेव सकलं शुचितां लभेत त्वत्त्यक्तमेव सकलं त्वशुचीह लक्ष्मि । त्वन्नाम यत्र च सुमङ्गलमेव तत्र श्रीविष्णुपत्नि कमले कमलालयेऽपि ॥७॥
Verse
लक्ष्मीं श्रियं च कमलां कमलालयां च पद्मां रमां नलिनयुग्मकरां च मां च । क्षीरोदजाममृतकुम्भकरामिरां च विष्णुप्रियामिति सदा जपतां क्व दुःखम् ॥८॥
Verse
ये पठिष्यन्ति च स्तोत्रं त्वद्भक्त्या मत्कृतं सदा । तेषां कदाचित् सन्तापो माऽस्तु माऽस्तु दरिद्रता ॥९॥
Verse
माऽस्तु चेष्टवियोगश्च माऽस्तु सम्पत्तिसङ्क्षयः । सर्वत्र विजयश्चाऽस्तु विच्छदो माऽस्तु सन्ततेः ॥१०॥
Verse
एवमस्तु मुने सर्वं यत् त्वया परिभाषितम् । एतत् स्तोत्रस्य पठनं मम सान्निध्यकारणम् ॥११॥
Verse
अलक्ष्मीः कालकर्णी च तद्गेहे न विशेत् क्वचित् । गजाश्वपशुशान्त्यर्थमेतत्स्तोत्रं सदा जपेत् ॥१२॥
Verse
इदं बीजरहस्यं मे रक्षणीयं प्रयत्नतः । श्रद्धाहीने न दातव्यं न देयश्चाशुचौ क्वचित् ॥१३॥
Verse
॥इति श्रीस्कन्दमहापुराणे एकाशीतिसाहस्र्यां संहितायां चतुर्थे काशीखण्डेऽगस्त्यप्रस्थानं नाम पञ्चमेऽध्याये श्री-अगस्तिकृता महालक्ष्मीस्तुतिः सम्पूर्णा॥
