stotrasangraha
sarasvatīstotram agastyamuni-proktam
सरस्वतीस्तोत्रम् अगस्त्यमुनि-प्रोक्तम्
Verse
या कुन्देन्दुतुषारहारधवला या शुभ्रवस्त्रावृता या वीणावरदण्डमण्डितकरा या श्वेतपद्मासना । या ब्रह्माच्युतशङ्करप्रभृतिभिर्देवैः सदा पूजिता सा मां पातु सरस्वती भगवती निःशेषजाड्यापहा ॥१॥
Verse
दोर्भिर्युक्ता चतुर्भिः स्फटिकमणिनिभैरक्षमालां दधाना हस्तेनैकेन पद्मं सितमपि च शुकं पुस्तकं चापरेण । भासा कुन्देन्दुशङ्खस्फटिकमणिनिभा भासमानाऽसमाना सा मे वाग्देवतेयं निवसतु वदने सर्वदा सुप्रसन्ना ॥२॥
Verse
सुरासुरसेवितपादपङ्कजा करे विराजत्कमनीयपुस्तका । विरिञ्चिपत्नी कमलासनस्थिता सरस्वती नृत्यतु वाचि मे सदा ॥३॥
Verse
सरस्वती सरसिजकेसरप्रभा तपस्विनी सितकमलासनप्रिया । घनस्तनी कमलविलोललोचना मनस्विनी भवतु वरप्रसादिनी ॥४॥
Verse
सरस्वति नमस्तुभ्यं वरदे कामरूपिणि । विद्यारम्भं करिष्यामि सिद्धिर्भवतु मे सदा ॥५॥
Verse
सरस्वति नमस्तुभ्यं सर्वदेवि नमो नमः । शान्तरूपे शशिधरे सर्वयोगे नमो नमः ॥६॥
Verse
नित्यानन्दे निराधारे निष्कलायै नमो नमः । विद्याधरे विशालाक्षि शुद्धज्ञाने नमो नमः ॥७॥
Verse
शुद्धस्फटिकरूपायै सूक्ष्मरूपे नमो नमः । शब्दब्रह्मि चतुर्हस्ते सर्वसिद्ध्यै नमो नमः ॥८॥
Verse
मुक्तालङ्कृत-सर्वाङ्ग्यै मूलाधारे नमो नमः । मूलमन्त्रस्वरूपायै मूलशक्त्यै नमो नमः ॥९॥
Verse
मनो मणिमहायोगे वागीश्वरि नमो नमः । वाग्भ्यै वरदहस्तायै वरदायै नमो नमः ॥१०॥
Verse
वेदायै वेदरूपायै वेदान्तायै नमो नमः । गुणदोषविवर्जिन्यै गुणदीप्त्यै नमो नमः ॥११॥
Verse
सर्वज्ञाने सदानन्दे सर्वरूपे नमो नमः । सम्पन्नायै कुमार्यै च सर्वज्ञे ते नमो नमः ॥१२॥
Verse
योगानार्य उमादेव्यै योगानन्दे नमो नमः । दिव्यज्ञान त्रिनेत्रायै दिव्यमूर्त्यै नमो नमः ॥१३॥
Verse
अर्धचन्द्रजटाधारि चन्द्रबिम्बे नमो नमः । चन्द्रादित्यजटाधारि चन्द्रबिम्बे नमो नमः ॥१४॥
Verse
अणुरूपे महारूपे विश्वरूपे नमो नमः । अणिमाद्यष्टसिद्धायै आनन्दायै नमो नमः ॥१५॥
Verse
ज्ञान-विज्ञान-रूपायै ज्ञानमूर्ते नमो नमः । नानाशास्त्र-स्वरूपायै नानारूपे नमो नमः ॥१६॥
Verse
पद्मदा पद्मवंशा च पद्मरूपे नमो नमः । परमेष्ठ्यै परामूर्त्यै नमस्ते पापनाशिनि ॥१७॥
Verse
महादेव्यै महाकाल्यै महालक्ष्म्यै नमो नमः । ब्रह्मविष्णुशिवायै च ब्रह्मनार्यै नमो नमः ॥१८॥
Verse
कमलाकरपुष्पा च कामरूपे नमो नमः । कपालि कर्मदीप्तायै कर्मदायै नमो नमः ॥१९॥
Verse
सायं प्रातः पठेन्नित्यं षण्मासात् सिद्धिरुच्यते । चोरव्याघ्रभयं नास्ति पठतां शृण्वतामपि ॥२०॥
Verse
इत्थं सरस्वतीस्तोत्रम् अगस्त्यमुनिवाचकम् । सर्वसिद्धिकरं नॄणां सर्वपापप्रणाशनम् ॥२१॥
Verse
॥इति श्री-अगस्त्यमुनि-प्रोक्तं श्री-सरस्वतीस्तोत्रं सम्पूर्णम्॥
