Preparing Your Space .

Settling the page into your current context.

GyanDweepBeta
HomeLearnLibrary
eGurukulsDiscoverTemplesPanchanga
Sign Up
Sign Up

stotrasangraha

lakṣmīstotraṃ viṣṇupurāṇāntargatam

लक्ष्मीस्तोत्रं विष्णुपुराणान्तर्गतम्

Verse

सिंहासनगतः शक्रः सम्प्राप्य त्रिदिवं पुनः । देवराज्ये स्थितो देवीं तुष्टावाब्जकरां ततः ॥१॥

Verse

नमस्ये सर्वलोकानां जननीमब्जसम्भवाम् । श्रियमुन्निद्रपद्माक्षीं विष्णुवक्षःस्थलस्थिताम् ॥२॥

Verse

पद्मालयां पद्मकरां पद्मपत्रनिभेक्षणाम् । वन्दे पद्ममुखीं देवीं पद्मनाभप्रियामहम् ॥३॥

Verse

त्वं सिद्धिस्त्वं स्वधा स्वाहा सुधा त्वं लोकपावनी । सन्ध्या रात्रिः प्रभा भूतिर्मेधा श्रद्धा सरस्वती ॥४॥

Verse

यज्ञविद्या महाविद्या गुह्यविद्या च शोभने । आत्मविद्या च देवि त्वं विमुक्तिफलदायिनी ॥५॥

Verse

आन्वीक्षिकी त्रयी वार्ता दण्डनीतिस्त्वमेव च । सौम्यासौम्यैर्जगद्रूपैस्त्वयैतद् देवि पूरितम् ॥६॥

Verse

का त्वन्या त्वामृते देवि सर्वयज्ञमयं वपुः । अध्यास्ते देवदेवस्य योगचिन्त्यं गदाभृतः ॥७॥

Verse

त्वया देवि परित्यक्तं सकलं भुवनत्रयम् । विनष्टप्रायमभवत्त्वयेदानीं समेधितम् ॥८॥

Verse

दाराः पुत्रास्तथाऽऽगारसुहृद्धान्यधनादिकम् । भवत्येतन्महाभागे नित्यं त्वद्वीक्षणान्नृणाम् ॥९॥

Verse

शरीरारोग्यमैश्वर्यमरिपक्षक्षयः सुखम् । देवि त्वद्दृष्टिदृष्टानां पुरुषाणां न दुर्लभम् ॥१०॥

Verse

त्वं माता सर्वलोकानां देवदेवो हरिः पिता । त्वयैतद्विष्णुना चाम्ब जगद्व्याप्तं चराचरम् ॥११॥

Verse

मा नः कोशस्तथा गोष्ठं मा गृहं मा परिच्छदम् । मा शरीरं कलत्रं च त्यजेथाः सर्वपावनि ॥१२॥

Verse

मा पुत्रान्मा सुहृद्वर्गं मा पशून्मा विभूषणम् । त्यजेथा मम देवस्य विष्णोर्वक्षःस्थलालये ॥१३॥

Verse

सत्त्वेन सत्यशौचाभ्यां तथा शीलादिभिर्गुणैः । त्यज्यन्ते ते नराः सद्यः सन्त्यक्ता ये त्वयाऽमले ॥१४॥

Verse

त्वया विलोकिताः सद्यः शीलाद्यैरखिलैर्गुणैः । कुलैश्वर्यैश्च युज्यन्ते पुरुषा निर्गुणा अपि ॥१५॥

Verse

स श्लाघ्यः स गुणी धन्यः स कुलीनः स बुद्धिमान् । स शूरः स च विक्रान्तो यस्त्वया देवि वीक्षितः ॥१६॥

Verse

सद्यो वैगुण्यमायान्ति शीलाद्याः सकला गुणाः । पराङ्मुखी जगद्धात्री यस्य त्वं विष्णुवल्लभे ॥१७॥

Verse

न ते वर्णयितुं शक्ता गुणाञ्जिह्वाऽपि वेधसः । प्रसीद देवि पद्माक्षि माऽस्मांस्त्याक्षीः कदाचन ॥१८॥

Verse

एवं श्रीः संस्तुता सम्यक् प्राह हृष्टा शतक्रतुम् । शृण्वतां सर्वदेवानां सर्वभूतस्थिता द्विज ॥१९॥

Verse

परितुष्टाऽस्मि देवेश स्तोत्रेणानेन ते हरे । वरं वृणीष्व यस्त्विष्टो वरदाऽहं तवाऽऽगता ॥२०॥

Verse

वरदा यदि मे देवि वरार्हो यदि वाऽप्यहम् । त्रैलोक्यं न त्वया त्याज्यमेष मेऽस्तु वरः परः ॥२१॥

Verse

स्तोत्रेण यस्तथैतेन त्वां स्तोष्यत्यब्धिसम्भवे । स त्वया न परित्याज्यो द्वितीयोऽस्तु वरो मम ॥२२॥

Verse

त्रैलोक्यं त्रिदशश्रेष्ठ न सन्त्यक्ष्यामि वासव । दत्तो वरो मयाऽयं ते स्तोत्राराधनतुष्टया ॥२३॥

Verse

यश्च सायं तथा प्रातः स्तोत्रेणानेन मानवः । मां स्तोष्यति न तस्याहं भविष्यामि पराङ्मुखी ॥२४॥

Verse

॥इति श्री-विष्णुपुराणे श्री-लक्ष्मीस्तोत्रं सम्पूर्णम्॥

mahālakṣmyaṣṭakam
mahālakṣmīstutiḥ (agastyakṛtā)

सा विद्या या विमुक्तये

Built with Sankalpa at Gyaandweep

Gyaandweep

© 2022-2026 Granthajyoti Pvt Ltd.

Privacy & Terms