aSTottaranAma
śrīviṣṇuśatanāmastotram
श्रीविष्णुशतनामस्तोत्रम्
Verse
वासुदेवं हृषीकेशं वामनं जलशायिनम् । जनार्दनं हरिं कृष्णं श्रीवक्षंबगरुडध्वजम् ॥१॥
Verse
वराहं पुण्डरीकाक्षं नृसिंहं नरकान्तकम् । अव्यक्तं शाश्वतं विष्णुं अनन्तमजमव्ययम् ॥२॥
Verse
नारायणं गदाध्यक्षं गोविन्दं कीर्तिभाजनम् । गोवर्द्धनोद्धरं देवं भूधरं भुवनेश्वरं ॥३॥
Verse
वेत्तारं यज्ञपुरुषं यज्ञेशं यज्ञवाहकम् । चक्रपाणिं गदापाणिं शङ्खपाणिं नरोत्तमम् ॥४॥
Verse
वैकुण्ठं दुष्टदमनं भूगर्भं पीतवाससम् । त्रिविक्रमं त्रिकालज्ञं त्रिमूर्तिं नन्दिकेश्वरं ॥५॥
Verse
रामं रामं हयग्रीवं भीमं रौद्रं भवोद्भवम् । श्रीपतिं श्रीधरं श्रीशं मङ्गलं मङ्गलायुधम् ॥६॥
Verse
दामोदरं दमोपेतं केशवं केशिसूदनम् । वरेण्यं वरदं विष्णुं आनन्दंबवसुदेवजम् ॥७॥
Verse
हिरण्यरेतसं दीप्तं पुराणंबपुरुषोत्तमम् । सकलं निष्कलं शुद्धं निर्गुणंबगुणशाश्वतम् ॥८॥
Verse
हिरण्यतनुसङ्काशं सूर्यायुतसमप्रभम् । मेघश्यामं चतुर्बाहुं कुशलंबकमलेक्षणम् ॥९॥
Verse
ज्योतिरूपमरूपं च स्वरूपं रूपसंस्थितम्ब। सर्वज्ञं सर्वरूपस्थं सर्वेशंबसर्वतोमुखम् ॥१०॥
Verse
ज्ञानं कूटस्थमचलं ज्ञानदंबपरमं प्रभुम् । योगीशं योगनिष्णातं योगिनंबयोगरूपिणम् ॥११॥
Verse
ईश्वरं सर्वभूतानां वन्दे भूतमयंबप्रभुम् । इति नामशतं दिव्यं वैष्णवंबखलु पापहम् ॥१२॥
Verse
व्यासेन कथितं पूर्वं सर्वपापप्रणाशनम् । यः पठेत् प्रातरुत्थाय स भवेत्बवैष्णवो नरः सर्वपापविशुद्धात्मा विष्णुसायुज्यमाप्नुयात् ॥१३॥
