aSTottaranAma
agneḥ aṣṭottaraśatanāmastotram
अग्नेः अष्टोत्तरशतनामस्तोत्रम्
Verse
अकारदिक्रमेण अजोऽजरोऽजिरोऽजुर्योऽतन्द्रोऽग्निरद्भुतक्रतुः । अङ्कूयन्नङ्गिरा अर्वन्नुञ्जानः सप्तहोतृभिः ॥१॥
Verse
आशृण्वन्नाशुहेमोऽप्य आसन्नासुर आहुतः । आदित्य आपिराबाध आकूतिराघृणीवसुः ॥२॥
Verse
इधान इद्ध इन्धानो दधत्सहस्रिणीरिषः । ईड्य ईळेन्य ईशान ईषयन्निळ ईळितः ॥३॥
Verse
उक्थ्य उक्षन्नुक्षमाण उक्षान्नो दिवमुत्पतन् । ऊर्जःपुत्र ऊर्जसन ऊर्ध्व ऊर्जोनपादूशन् ॥४॥
Verse
ऋजूयमानः पृथिवीमुतद्यामृत ऋत्वियः । ऋतप्रवीत ऋतचिदृतावदृन्ध ऋग्मियः ॥५॥
Verse
ऋषूणां पुत्र ऋषिकृदृतवृधृतुपा ऋभुः । ऋषीणां पुत्र ऋषभ ऋभ्व ऋतुपतिरृषिः ॥६॥
Verse
ओषधीनां गर्भ एक ओजिष्ठश्चर्षणीसदाम् । ककुत्ककुद्मान्क्रतुवित् कृष्णयामः कनिक्रदत् ॥७॥
Verse
कण्वतमः कण्वसखः केवलः कृष्णवर्तनिः । कपिः कविः कवितमः कविशस्तः कविक्रतुः ॥८॥
Verse
कविप्रशस्तः कृष्णाध्वा क्रव्यादः क्रव्यवाहनः । क्षत्राणि धारयन् क्षत्रः क्षपावान् क्षत्रभृत् क्षयः ॥९॥
Verse
गणश्रीश्चरथां गर्भोऽपां गर्भो गातुवित्तमः । बह्वीनामपसां गर्भस्थातां गर्भो गुहाहितः ॥१०॥
Verse
गृत्सो गृहपतिर्गृध्नुर्गोपा घोरश्चनोहितः । जातवेदास्तपुर्मूर्धा दीर्घतन्तुर्धृतव्रतः ॥११॥
Verse
बृहद्भानुर्मधुवचा यज्ञो रण्वो वनस्पतिः । देवानामवगम्याग्नेः नाम्नामष्टोत्तरं शतम् ॥१२॥
Verse
॥ अग्नेः अष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ॥
