Fetching Data .

Loading verse structure and chapter context.

GyanDweepBeta
HomeLearnLibrary
eGurukulsDiscoverTemplesPanchanga
Sign Up
Sign Up

aSTottaranAma

śrīaṅgārakāṣṭottaraśatanāmastotram

श्रीअङ्गारकाष्टोत्तरशतनामस्तोत्रम्

Verse

मङ्गल बीज मन्त्र - ॐ क्राँ क्रीं क्रौं सः भौमाय नमः ॥

Verse

ॐ महीसुतो महाभागो मंगळो मंगळप्रदः । महावीरो महाशूरो महाबलपराक्रमः ॥१॥

Verse

महारौद्रो महाभद्रो माननीयो दयाकरः । मानजोऽमर्षणः क्रूरः तापपापविवर्जितः ॥२॥

Verse

सुप्रतीपः सुताम्राक्षः सुब्रह्मण्यः सुखप्रदः । वक्रस्तम्भादिगमनो वरेण्यो वरदः सुखी ॥३॥

Verse

वीरभद्रो विरूपाक्षो विदूरस्थो विभावसुः । नक्षत्रचक्रसञ्चारी क्षत्रपः क्षात्रवर्जितः ॥४॥

Verse

क्षयवृद्धिविनिर्मुक्तः क्षमायुक्तो विचक्षणः । अक्षीणफलदः चक्षुर्गोचरष्षुभलक्षणः ॥५॥

Verse

वीतरागो वीतभयो विज्वरो विश्वकारणः । नक्षत्रराशिसञ्चारो नानाभयनिकृन्तनः ॥६॥

Verse

कमनीयो दयासारः कनत्कनकभूषणः । भयघ्नो भव्यफलदो भक्ताभयवरप्रदः ॥७॥

Verse

शत्रुहन्ता शमोपेतः शरणागतपोषकः । साहसः सद्गुणाध्यक्षः साधुः समरदुर्जयः ॥८॥

Verse

दुष्टदूरः शिष्टपूज्यः सर्वकष्टनिवारकः । दुश्चेष्टवारको दुःखभञ्जनो दुर्धरो हरिः ॥९॥

Verse

दुःस्वप्नहन्ता दुर्धर्षो दुष्टगर्वविमोचकः । भरद्वाजकुलोद्भूतो भूसुतो भव्यभूषणः ॥१०॥

Verse

रक्ताम्बरो रक्तवपुर्भक्तपालनतत्परः । चतुर्भुजो गदाधारी मेषवाहो मिताशनः ॥११॥

Verse

शक्तिशूलधरश्शक्तः शस्त्रविद्याविशारदः । तार्किकः तामसाधारः तपस्वी ताम्रलोचनः ॥१२॥

Verse

तप्तकाञ्चनसंकाशो रक्तकिञ्जल्कसन्निभः । गोत्राधिदेवो गोमध्यचरो गुणविभूषणः ॥१३॥

Verse

असृजंगारकोऽवन्तीदेशाधीशो जनार्दनः । सूर्ययाम्यप्रदेशस्थो यावनो याम्यदिऽग्मुखः ॥१४॥

Verse

त्रिकोणमण्डलगतो त्रिदशाधिपसन्नुतः । शुचिः शुचिकरः शूरो शुचिवश्यः शुभावहः ॥१५॥

Verse

मेषवृश्चिकराशीशो मेधावी मितभाषणः । सुखप्रदः सुरूपाक्षः सर्वाभीष्टफलप्रदः ॥१६॥

Verse

॥ इति मङ्गल एवं अङ्गारकाष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ॥

agneḥ aṣṭottaraśatanāmastotram
śivaproktaṃ annapūrṇā aṣṭottaraśatanāmastotram

सा विद्या या विमुक्तये

Built with Sankalpa at Gyaandweep

Gyaandweep

© 2022-2026 Granthajyoti Pvt Ltd.

Privacy & Terms