aSTottaranAma
śivaproktaṃ annapūrṇā aṣṭottaraśatanāmastotram
शिवप्रोक्तं अन्नपूर्णा अष्टोत्तरशतनामस्तोत्रम्
Verse
(शिवरहस्यान्तर्गते उग्राख्ये) शिवः उवाच अस्य श्रीअन्नपूर्णाष्टोत्तरशतनाममन्त्रस्य परमात्मा सदाशिवोऽहं ऋषयः(षिः) अनुष्टुप् छन्दः, अन्नपूर्णा देवता, स्वधा बीजं, स्वाहा शक्तिः ह्रीं कीलकम् ।
Verse
सर्वाभीष्टसिद्धिः फल श्रीअन्नपूर्णाप्रीत्यर्थे जपे विनियोगः ।
Verse
ॐ अन्नपूर्णादिवा(मा)देवी श्रीमा(श्रीर्मा)पुष्टिः सरस्वती । (भीमापुष्टिः) सर्वज्ञा पार्वती दुर्गा शिवानी शिववल्लभा ॥६२८॥
Verse
वेदविद्या महाविद्या विद्याधात्री विशारदा । कुमारी युवती बाला लक्ष्मीः श्रीर्भयहारिणी ॥६२९॥
Verse
भवानी विष्णुजननी ब्रह्मादिजननी परा । गणेशजननी शक्तिः कुमारजननी शुभा ॥६३०॥
Verse
भाग्याश्रया भगवती भक्ताभीष्टप्रदायिनी । भवरोगहरा भव्या सुभ्रूः परममङ्गला ॥६३१॥
Verse
शर्वाणी चञ्चलापाङ्गी(ङ्गा) चारुचन्द्रकलाधरा । विशालाक्षी विश्वमाता विश्ववन्द्या विलासिनी ॥६३२॥
Verse
आर्या कल्याणनिलया रुद्राणी कमलासना । शुभप्रदा शुभा वार्ता वृत्तपीनपयोधरा ॥६३३॥
Verse
अम्बा संसारमथनी मृजनी सर्वमङ्गला । विष्णुसंसेविता शुद्धा ब्रह्मादिसुरसेविता ॥६३४॥
Verse
परमानन्ददा शान्तिः परमानन्दरूपिणी । परमानन्दजननी परमान्नप्रदायिनी ॥६३५॥
Verse
परोपकारनिरता परमा भक्तवत्सला । पूर्णचन्द्राभवदना पूर्णचन्द्रनिभांशुका ॥६३६॥
Verse
शुभलक्षणसम्पन्ना शुभानन्तगुणार्णवा । शुभसौभाग्यनिलया शुभाचाररतप्रिया ॥६३७॥
Verse
चण्डिका चण्डमथनी चण्डदर्पनिवारिणी । चण्डमार्ताण्डनयना चन्द्राग्निनयना सती ॥६३८॥
Verse
पुण्डरीकपुरा पुण्या पुण्यदा पुण्यरूपिणी । पुण्यज्ञेया पुण्यवन्द्या पुण्यमूर्तिः पुरातना ॥६३९॥
Verse
अनवद्या वेदवेद्या वेदवेदान्तरूपिणी । मायातीता सृष्टमाया सृष्टधर्मात्मवन्दिता ॥६४०॥
Verse
असृष्टा सङ्गरहिता सृष्टिहेतुः कपर्दिनी । वृषारूढा शूलहस्ता स्थितिसंहारकारिणी ॥६४१॥
Verse
मन्दस्मिता शुद्धरूपा शुद्धचित्तमुनिस्तुता । महाभागपती दक्षा दक्षाध्वरविनाशिनी ॥६४२॥
Verse
अपर्णाऽनन्यशरणा भक्ताभीष्टफलप्रदा । नित्यसुन्दरसर्वाङ्गी सच्चिदानन्दलक्षणा ॥६४३॥
Verse
नाम्नामष्टोत्तरशतमम्बायाः पुण्यकारणम् । सर्वसौभाग्यसिध्यर्थं जपनीयं प्रयत्नतः ॥६४४॥
Verse
इदं स्वस्त्ययनं धन्यं महापातकनाशनम् । सर्वाभीष्टप्रदं पुण्यं नित्यमङ्गलदायकम् ॥६४५॥
Verse
॥ इति शिवरहस्यान्तर्गते शिवप्रोक्तं अन्नपूर्णा अष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ॥
