Fetching Data .

Loading verse structure and chapter context.

GyanDweepBeta
HomeLearnLibrary
eGurukulsDiscoverTemplesPanchanga
Sign Up
Sign Up

kavaca

viṣṇukavacaṃ athavā trailokyamaṅgalakavacam

विष्णुकवचं अथवा त्रैलोक्यमङ्गलकवचम्

Verse

श्रीगणेशाय नमः ॥

Verse

नारद उवाच । भगवन्सर्वधर्मज्ञ कवचं यत्प्रकाशितम् । त्रैलोक्यमङ्गलं नाम कृपया कथय प्रभो ॥१॥

Verse

सनत्कुमार उवाच । श‍ृणु वक्ष्यामि विप्रेन्द्र कवचं परमाद्भुतम् । नारायणेन कथितं कृपया ब्रह्मणे पुरा ॥२॥

Verse

ब्रह्मणा कथितं मह्यं परं स्नेहाद्वदामि ते । अति गुह्यतरं तत्त्वं ब्रह्ममन्त्रौघविग्रहम् ॥३॥

Verse

यद्धृत्वा पठनाद्ब्रह्मा सृष्टिं वितनुते ध्रुवम् । यद्धृत्वा पठनात्पाति महालक्ष्मीर्जगत्त्रयम् ॥४॥

Verse

पठनाद्धारणाच्छम्भुः संहर्ता सर्वमन्त्रवित् । त्रैलोक्यजननी दुर्गा महिषादिमहासुरान् ॥५॥

Verse

वरदृप्तान् जघानैव पठनाद्धारणाद्यतः । एवमिन्द्रादयः सर्वे सर्वैश्वर्यमवाप्नुयुः ॥६॥

Verse

इदं कवचमत्यन्तगुप्तं कुत्रापि नो वदेत् । शिष्याय भक्तियुक्ताय साधकाय प्रकाशयेत् ॥७॥

Verse

शठाय परशिष्याय दत्वा मृत्युमवाप्नुयात् । त्रैलोक्यमङ्गलस्यास्य कवचस्य प्रजापतिः ॥८॥

Verse

ऋषिश्छन्दश्च गायत्री देवो नारायणस्स्वयम् । धर्मार्थकाममोक्षेषु विनियोगः प्रकीर्तितः ॥९॥

Verse

प्रणवो मे शिरः पातु नमो नारायणाय च । भालं मे नेत्रयुगलमष्टार्णो भुक्तिमुक्तिदः ॥१०॥

Verse

क्लीं पायाच्छ्रोत्रयुग्मं चैकाक्षरः सर्वमोहनः । क्लीं कृष्णाय सदा घ्राणं गोविन्दायेति जिह्विकाम् ॥११॥

Verse

गोपीजनपदवल्लभाय स्वाहाननं मम । अष्टादशाक्षरो मन्त्रः कण्ठं पातु दशाक्षरः ॥१२॥

Verse

गोपीजनवल्लभाय स्वाहा भुजद्वयम् । क्लीं ग्लैं क्लीं श्यामलाङ्गाय नमः स्कन्धौ दशाक्षरः ॥१३॥

Verse

क्लीं कृष्णः क्लीं करौ पायात् क्लीं कृष्णो मां गतोऽवतु । हृदयं भुवनेशानः क्लीं कृष्णः क्लीं स्तनौ मम ॥१४॥

Verse

गोपालायाग्निजायान्तं कुक्षियुग्मं सदाऽवतु । क्लीं कृष्णाय सदा पातु पार्श्वयुग्ममनुत्तमः ॥१५॥

Verse

कृष्णगोविन्दकौ पातां स्मराद्यौ ङेयुतौ मनुः । ? अष्टाक्षरः पातु नाभिं कृष्णेति द्वयाक्षरोऽवतु ॥१६॥

Verse

पृष्ठं क्लीं कृष्णकं गल्लं क्लीं कृष्णाय द्विठान्तकः । सक्थिनी सततं पातु श्रीं ह्रीं क्लीं कृष्णठद्वयम् ॥१७॥?ठ ऊरू सप्ताक्षरः पायात्त्रयोदशाक्षरोऽवतु । श्रीं ह्रीं क्लीं पदतो गोपीजनवल्लभदन्ततः ॥१८॥

Verse

भाय स्वाहेति पायुं वै क्लीं ह्रीं श्रीं सदशार्णकः । जानुनी च सदा पातु ह्रीं श्रीं क्लीं च दशाक्षरः ॥१९॥

Verse

त्रयोदशाक्षरः पातु जङ्घे चक्राद्युदायुधः । अष्टादशाक्षरो ह्रीं श्रीं पूर्वको विंशदर्णकः ॥२०॥

Verse

सर्वाङ्गं मे सदा पातु द्वारकानायको बली । नमो भगवते पश्चाद्वासुदेवाय तत्परम् ॥२१॥

Verse

ताराद्यो द्वादशार्णोऽयं प्राच्यां मां सर्वदाऽवतु । श्रीं ह्रीं क्लीं च दशार्णस्तु ह्रीं क्लीं श्रीं षोडशार्णकः ॥२२॥

Verse

गदाद्यायुधो विष्णुर्मामग्नेर्दिशि रक्षतु । ह्रीं श्रीं दशाक्षरो मन्त्रो दक्षिणे मां सदाऽवतु ॥२३॥

Verse

तारो नमो भगवते रुक्मिणीवल्लभाय च । स्वाहेति षोडशार्णोऽयं नैरृत्यां दिशि रक्षतु ॥२४॥

Verse

क्लीं हृषीके पदं शाय नमो मां वारुणोऽवतु । ?शाय अष्टादषार्णः कामान्तो वायव्ये मां सदाऽवतु ॥२५॥

Verse

श्रीं मायाकामकृष्णाय गोविन्दाय द्विठो मनुः । द्वादशार्णात्मको विष्णुरुत्तरे मां सदाऽवतु ॥२६॥

Verse

वाग्भयं कामकृष्णाय ह्रीं गोविन्दाय तत्परम् । श्री गोपीजनवल्लभान्ताय स्वाहा हस्तौ ततः ॥२७॥

Verse

द्वाविंशत्यक्षरो मन्त्रो मामैशान्ये सदाऽवतु । कालियस्य फणामध्ये दिव्यं नृत्यं करोति तम् ॥२८॥

Verse

नमामि देवकीपुत्रं नृत्यराजानमच्युतम् । द्वात्रिंशदक्षरो मन्त्रोऽप्यधो मां सर्वदाऽवतु ॥२९॥

Verse

कामदेवाय विद्महे पुष्पबाणाय धीमहि । तन्नोऽनङ्गः प्रचोदयादेषा मां पातुचोर्ध्वतः ॥३०॥

Verse

इति ते कथितं विप्र ब्रह्ममन्त्रौघविग्रहम् । त्रैलोक्यमङ्गलं नाम कवचं ब्रह्मरूपकम् ॥३१॥

Verse

ब्रह्मणा कथितं पूर्वं नारायणमुखाच्छ्रुतम् । तव स्नेहान्मयाख्यातं प्रवक्तव्यं न कस्यचित् ॥३२॥

Verse

गुरुं प्रणम्य विधिवत्कवचं प्रपठेत्ततः । सकृद्द्विस्त्रिर्यथाज्ञानं स हि सर्वतपोमयः ॥३३॥

Verse

मन्त्रेषु सकलेष्वेव देशिको नात्र संशयः । शतमष्टोत्तरं चास्य पुरश्चर्या विधिः स्मृतः ॥३४॥

Verse

हवनादीन्दशांशेन कृत्वा तत्साधयेद्ध्रुवम् । यदि स्यात्सिद्धकवचो विष्णुरेव भवेत्स्वयम् ॥३५॥

Verse

मन्त्रसिद्धिर्भवेत्तस्य पुरश्चर्याविधानतः । स्पर्धामुद्धूय सततं लक्ष्मीर्वाणी वसेत्ततः ॥३६॥

Verse

पुष्पाञ्जल्यष्टकं दत्वा मूलेनैव पठेत्सकृत् । दशवर्षसहस्राणि पूजायाः फलमाप्नुयात् ॥३७॥

Verse

भूर्जे विलिख्याङ्गुलिकां स्वर्णस्थां धारयेद्यदि । कण्ठे वा दक्षिणे बाहौ सोऽपि विष्णुर्न संशयः ॥३८॥

Verse

अश्वमेधसहस्राणि वाजपेयशतानि च । महादानानि यान्येव प्रादक्षिण्यं भुवस्तथा ॥३९॥

Verse

कलां नार्हन्ति तान्येव सकृदुच्चारणात्ततः । कवचस्य प्रसादेन जीवन्मुक्तो भवेन्नरः ॥४०॥

Verse

त्रैलोक्यं क्षोभयत्येव त्रैलोक्यविजयी भवेत् । इदं कवचमज्ञात्वा यजेद्यः पुरुषोत्तमम् । शतलक्षं प्रजप्तोऽपि न मन्त्रस्तस्य सिद्ध्यति ॥४१॥

Verse

इति श्री नारदपञ्चरात्रे ज्ञानामृतसारे त्रैलोक्यमङ्गलं नाम विष्णुकवचं सम्पूर्णम् ॥

śrīviṣṇukavacaṃ athavā brahmāṇḍapāvanakavacaṃ
śrīviṣṇukavacastotram

सा विद्या या विमुक्तये

Built with Sankalpa at Gyaandweep

Gyaandweep

© 2022-2026 Granthajyoti Pvt Ltd.

Privacy & Terms