aSTottaranAma
śrīhanumadaṣṭottaraśatanāmastotram
श्रीहनुमदष्टोत्तरशतनामस्तोत्रम्
Verse
(श्रीरघुप्रवीरयतिकृतम्) यस्य संस्मरणादेव पुरुषार्थचतुष्टयम् । लभ्यते श्रीहनुमते नमस्तस्मै महात्मने ॥१॥
Verse
ॐ हनूमान् वायुतनयः केसरीप्रियनन्दनः । अञ्जनानन्दनः श्रीमान् पिङ्गाक्षोऽमितविक्रमः ॥२॥
Verse
सर्वलक्षणसम्पन्नः कल्याणगुणवारिधिः । स्वर्णवर्णो महाकायो महावीर्यो महाद्युतिः ॥३॥
Verse
महाबलो महौदार्यः सुग्रीवाभीष्टदायकः । रामदासाग्रणीर्भक्तमनोरथसुरद्रुमः ॥४॥
Verse
अरिष्टध्वान्ततरणिः सर्वदोषविवर्जितः । गोष्पदीकृतवाराशिः सीतादर्शनलालसः ॥५॥
Verse
देवर्षिसंस्तुतश्चित्रकर्मा जितखगेश्वरः । मनोजवो वायुजवो भगवान् प्लवगर्षभः ॥६॥
Verse
सुरप्रसूनाभिवृष्टः सिद्धगन्धर्वसेवितः । दशयोजनविस्तीर्णकायवानम्बराश्रयः ॥
Verse
महायोगी महोत्साहो महाबाहुः प्रतापवान् । रामद्वेषिजनासह्यः सज्जनप्रियदर्शनः ॥८॥
Verse
रामाङ्गुलीयवान् सर्वश्रमहीनो जगत्पतिः । मैनाकविप्रियः सिन्धुसंस्तुतः कद्रुरक्षकः ॥९॥
Verse
देवमानप्रदः साधुः सिंहिकावधपण्डितः । लङ्किण्यभयदाता च सीताशोकविनाशनः ॥१०॥
Verse
जानकीप्रियसल्लापश्चूडामणिधरः कपिः । दशाननवरच्छेत्ता मशकीकृतराक्षसः ॥११॥
Verse
लङ्काभयङ्करः सप्तमन्त्रिपुत्रविनाशनः । दुर्धर्षप्राणहर्ता च यूपाक्षवधकारकः ॥१२॥
Verse
विरूपाक्षान्तकारी च भासकर्णशिरोहरः । प्रभासप्राणहर्ता च तृतीयांशविनाशनः ॥१३॥
Verse
अक्षराक्षससंहारी तृणीकृतदशाननः । स्वपुच्छगाग्निनिर्दग्धलङ्कापुरवरोऽव्ययः ॥१४॥
Verse
आनन्दवारिधिर्धन्यो मेघगम्भीरनिःस्वनः । कपिप्रवीरसम्पूज्यो मधुभक्षणतत्परः ॥१५॥
Verse
रामबाहुसमाश्लिष्टो भविष्यच्चतुराननः । सत्यलोकेश्वरः प्राणो विभीषणवरप्रदः ॥१६॥
Verse
धूम्राक्षप्राणहर्ता च कपिसैन्यविवर्धनः । त्रिशीर्षान्तकरो मत्तनाशनोऽकम्पनान्तकः ॥
Verse
देवान्तकान्तकः शूरो युद्धोन्मत्तविनाशकः । निकुम्भान्तकरः शत्रुसूदनः सुरवीक्षितः ॥१८॥
Verse
दशास्यगर्वहर्ता च लक्ष्मणप्राणदायकः । कुम्भकर्णजयी शक्रशत्रुगर्वापहारकः ॥१९॥
Verse
सञ्जीवनाचलानेता मृगवानरजीवनः । जाम्बवत्प्रियकृद्वीरः सुग्रीवाङ्गदसेवितः ॥२०॥
Verse
भरतप्रियसल्लापः सीताहारविराजितः । रामेष्टः फल्गुनसखः शरण्यत्राणतत्परः ॥२१॥
Verse
उत्पत्तिस्थितिसंहारकर्ता किम्पुरुषालयः । वेदवेदाङ्गतत्त्वज्ञो भवरोगस्य भेषजम् ॥२२॥
Verse
इत्थं हनुमतः पुण्यं शतमष्टोत्तरं पठन् । विद्यार्थी लभते विद्यां धनार्थी लभते धनम् ॥२३॥
Verse
कन्यार्थी लभते कन्यां सुतार्थी लभते सुतम् । कीर्त्यर्थी लभते कीर्तिं मोक्षार्थी मोक्षमाप्नुयात् ॥२४॥
Verse
रोगार्तो मुच्यते रोगाद्बद्धो मुच्येत बन्धनात् । इदमायुष्करं धन्यं सर्वोपद्रवनाशनम् ॥२५॥
Verse
सर्वशत्रुक्षयकरं सर्वपापप्रणाशनम् । समस्तयज्ञफलदं सर्वतीर्थफलप्रदम् ॥२६॥
Verse
समस्तवेदफलदं सर्वदानफलप्रदम् । पठनीयं महत्पुण्यं सर्वसम्पत्समृद्धिदम् ॥२७॥
Verse
एवमष्टोत्तरशतं नामनं हनूमतो यतिः । रघुप्रवीराभिधानः कृतवान् वाञ्छितार्थदम् ॥२८॥
Verse
इति श्रीरघुप्रवीरयतिकृतं श्रीहनुमदष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ।
