Fetching Data .

Loading verse structure and chapter context.

GyanDweepBeta
HomeLearnLibrary
eGurukulsDiscoverTemplesPanchanga
Sign Up
Sign Up

aSTottaranAma

hanumadaṣṭottaraśatanāmastotram

हनुमदष्टोत्तरशतनामस्तोत्रम्

Verse

(ब्रह्मवैवर्ते घटिकाचलमाहात्म्यतः) अतिपाटलवक्त्राब्जं धृतहेमाद्रिविग्रहम् । आञ्जनेयं शङ्खचक्रपाणिं चेतसि धीमहि ॥१॥

Verse

ॐ पारिजातप्रियो योगी हनूमान् नृहरिप्रियः । प्लवगेन्द्रः पिङ्गलाक्षः शीघ्रगामी दृढव्रतः ॥२॥

Verse

शङ्खचक्रवराभीतिपाणिरानन्ददायकः । स्थायी विक्रमसम्पन्नो रामदूतो महायशाः ॥३॥

Verse

सौमित्रिजीवनकरो लङ्काविक्षोभकारकः । उदधिक्रमणः सीताशोकहेतुहरो हरिः ॥४॥

Verse

बली राक्षससंहर्ता दशकण्ठमदापहः । बुद्धिमान् नैरृतवधूकण्ठसूत्रविदारकः ॥

Verse

सुग्रीवसचिवो भीमो भीमसेनसहोदरः । सावित्रविद्यासंसेवी चरितार्थो महोदयः ॥६॥

Verse

वासवाभीष्टदो भव्यो हेमशैलनिवासवान् । किंशुकाभोऽग्रयतनू ऋजुरोमा महामतिः ॥७॥

Verse

महाक्रमो वनचरः स्थिरबुद्धिरभीशुमान् । सिंहिकागर्भनिर्भेत्ता भेत्ता लङ्कानिवासिनाम् ॥८॥

Verse

अक्षशत्रुविनिघ्नश्च रक्षोऽमात्यभयावहः । वीरहा मृदुहस्तश्च पद्मपाणिर्जटाधरः ॥९॥

Verse

सर्वप्रियः सर्वकामप्रदः प्रांशुमुखश्शुचिः । विशुद्धात्मा विज्वरश्च सटावान् पाटलाधरः ॥१०॥

Verse

भरतप्रेमजनकश्चीरवासा महोक्षधृक् । महास्त्रबन्धनसहो ब्रह्मचारी यतीश्वरः ॥११॥

Verse

महौषधोपहर्ता च वृषपर्वा वृषोदरः । सूर्योपलालितः स्वामी पारिजातावतंसकः ॥१२॥

Verse

सर्वप्राणधरोऽनन्तः सर्वभूतादिगो मनुः । रौद्राकृतिर्भीमकर्मा भीमाक्षो भीमदर्शनः ॥१३॥

Verse

सुदर्शनकरोऽव्यक्तो व्यक्तास्यो दुन्दुभिस्वनः । सुवेलचारी मैनाकहर्षदो हर्षणप्रियः ॥१४॥

Verse

सुलभः सुव्रतो योगी योगिसेव्यो भयापहः । वालाग्निमथितानेकलङ्कावासिगृहोच्चयः ॥१५॥

Verse

वर्धनो वर्धमानश्च रोचिष्णू रोमशो महान् । महादंष्ट्रो महाशूरः सद्गतिः सत्परायणः ॥

Verse

सौम्यदर्शी सौम्यवेषो हेमयज्ञोपवीतिमान् ।

Verse

मौञ्जीकृष्णाजिनधरो मन्त्रज्ञो मन्त्रसारथिः । जितारातिः षडूर्मिश्च सर्वप्रियहिते रतः ॥१७॥

Verse

एतैर्नामपदैर्दिव्यैर्यः स्तौति तव सन्निधौ । हनुमंस्तस्य किं नाम नो भवेद्भक्तिशालिनः ॥१८॥

Verse

प्रणवं च पुरस्कृत्य चतुर्थ्यन्तैर्नमोऽन्तकैः । एतैर्नामभिरव्यग्रैरुच्यते हनुमान् भवान् ॥१९॥

Verse

ऋणरोगादिदारिद्र्यपापक्षुदपमृत्यवः । विनश्यन्ति हनुमंस्ते नामसङ्कीर्तनक्षणे ॥२०॥

Verse

भगवन् हनुमन् नित्यं राजवश्यं तथैव च । लक्ष्मीवश्यं च श्रीवश्यमारोग्यं दीर्घमायुषम् ॥२१॥

Verse

प्राधान्यं सकलानां च ज्ञातिप्राधान्यमेव च । वीर्यं तेजश्च भक्तानां प्रयच्छसि महामते ॥२२॥

śrīhanumadaṣṭottaraśatanāmastotram
śrīhanumadaṣṭottaraśatanāmastotram

Read next

More on हनुमदष्टोत्तरशतनामस्तोत्रम्

  • श्रीहनुमदष्टोत्तरशतनामस्तोत्रम्Ashtottaranama
  • श्रीहनुमदष्टोत्तरशतनामस्तोत्रम्Ashtottaranama
  • श्रीहनुमदष्टोत्तरशतनामस्तोत्रम्Ashtottaranama
  • हनुमदष्टोत्तरशतनामस्तोत्रम्Ashtottaranama
  • श्रीहनुमदष्टोत्तरशतनामस्तोत्रम्Ashtottaranama
  • श्रीहनुमदष्टोत्तरशतनामस्तोत्रम्Ashtottaranama

सा विद्या या विमुक्तये

Built with Sankalpa at Gyaandweep

Gyaandweep

© 2022-2026 Granthajyoti Pvt Ltd.

Privacy & Terms