Fetching Data .

Loading verse structure and chapter context.

GyanDweepBeta
HomeLearnLibrary
eGurukulsDiscoverTemplesPanchanga
Sign Up
Sign Up

aSTottaranAma

śrīhanumadaṣṭottaraśatanāmastotram

श्रीहनुमदष्टोत्तरशतनामस्तोत्रम्

Verse

॥ श्रीसीतारामचन्द्राभ्यां नमः ॥

Verse

श्रीपराशर उवाच - शृणु मैत्रेय! मन्त्रज्ञ अष्टोत्तरशतसंज्ञिकः । नाम्नां हनूमतश्चैव स्तोत्राणां शोकनाशनम् ॥

Verse

पूर्वं शिवेन पार्वत्याः कथितं पापनाशनम् । गोप्याद्गोपतरं चैव सर्वेप्सितफलप्रदम् ॥

Verse

विनियोगः - ॐ अस्य श्रीहनुमदष्टोत्तरशतनामस्तोत्रमन्त्रस्य सदाशिव ऋषिः ।

Verse

अनुष्टुप् छन्दः ।

Verse

श्रीहनुमान् देवता ।

Verse

ह्रां बीजम् ।

Verse

ह्रीं शक्तिः ।

Verse

ह्रूं कीलकम् ।

Verse

श्रीहनुमद्देवता प्रसादसिद्ध्यर्थे जपे विनियोगः ।

Verse

ध्यानम् - ध्यायेद्बालदिवाकरद्युतिनिभं देवारिदर्पापहम् देवेन्द्रप्रमुखैः प्रशस्तयशसं देदीप्यमानं ऋचा । सुग्रीवादिसमस्तवानरयुतं सुव्यक्ततत्त्वप्रियं संरक्तारुणलोचनं पवनजं पीताम्बरालङ्कृतम् ॥

Verse

॥ इति ध्यानम् ॥

Verse

ॐ हनुमान् स्थिरकीर्तिश्च तृणीकृतजगत्त्रयः । सुरपूज्यस्सुरश्रेष्ठो सर्वाधीशस्सुखप्रदः ॥

Verse

ज्ञानप्रदो ज्ञानगम्यो विज्ञानी विश्ववन्दितः । वज्रदेहो रुद्रमूर्ती दग्धलङ्का वरप्रदः ॥

Verse

इन्द्रजिद्भयकर्ता च रावणस्य भयङ्करः । कुम्भकर्णस्य भयदो रमादासः कपीश्वरः ॥

Verse

लक्ष्मणानन्दकरो देवः कपिसैन्यस्य रक्षकः । सुग्रीवसचिवो मन्त्री पर्वतोत्पाटनो प्रभुः ॥

Verse

आजन्मब्रह्मचारी च गम्भीरध्वनिभीतिदः । सर्वेशो ज्वरहारी च ग्रहकूटविनाशकः ॥

Verse

ढाकिनीध्वंसकस्सर्वभूतप्रेतविदारणः । विषहर्ता च विभवो नित्यस्सर्वजगत्प्रभुः ॥

Verse

भगवान् कुण्डली दण्डी स्वर्णयज्ञोपवीतधृत् । अग्निगर्भः स्वर्णकान्तिः द्विभुजस्तु कृताञ्जलिः ॥

Verse

ब्रह्मास्त्रवारणश्शान्तो - ब्रह्मण्यो ब्रह्मरूपधृत् । शत्रुहन्ता कार्यदक्षो ललाटाक्षोऽपरेश्वरः ॥

Verse

लङ्कोद्दीपो महाकायः रणशूरोऽमितप्रभः । वायुवेगी मनोवेगी गरुडस्य समोजसे ॥

Verse

महात्मा विष्णुभक्तश्च भक्ताभीष्टफलप्रदः । सञ्जीविनीसमाहर्ता सच्चिदानन्दविग्रहः ॥

Verse

त्रिमूर्ती पुण्डरीकाक्षो विश्वजिद्विश्वभावनः । विश्वहर्ता विश्वकर्ता भवदुःखैकभेषजः ॥

Verse

वह्नितेजो महाशान्तो चन्द्रस्य सदृशो भवः । सेतुकर्ता कार्यदक्षो भक्तपोषणतत्परः ॥

Verse

महायोगी महाधैर्यो महाबलपराक्रमः । अक्षहन्ता राक्षसघ्नो धूम्राक्षवधकृन्मुने ॥

Verse

ग्रस्तसूर्यो शास्त्रवेत्ता वायुपुत्रः प्रतापवान् । तपस्वी धर्मनिरतो कालनेमिवधोद्यमः ॥

Verse

छायाहर्ता दिव्यदेहो पावनः पुण्यकृत्शिवः । लङ्काभयप्रदो धीरो मुक्ताहारविभूषितः ॥

Verse

मुक्तिदो भुक्तिदश्चैव शक्तिद शङ्करस्तथा । हरिर्निरञ्जनो नित्यो सर्वपुण्यफलप्रदः ॥

Verse

इतीदं श्रीहरेः पुण्यनामाष्टोत्तरशतम् । पठनाच्श्रवणान्मर्त्यः जीवन्मुक्तो भवेद्धृवम् ॥

Verse

॥ इति श्रीपराशरसंहितायान्तर्गते श्रीपराशरमैत्रेयसंवादे हनुमदष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ॥

hanumadaṣṭottaraśatanāmastotram
śrīhanumadaṣṭottaraśatanāmastotram

Read next

More on श्रीहनुमदष्टोत्तरशतनामस्तोत्रम्

  • श्रीहनुमदष्टोत्तरशतनामस्तोत्रम्Ashtottaranama
  • श्रीहनुमदष्टोत्तरशतनामस्तोत्रम्Ashtottaranama
  • श्रीहनुमदष्टोत्तरशतनामस्तोत्रम्Ashtottaranama
  • श्रीहनुमदष्टोत्तरशतनामस्तोत्रम्Ashtottaranama
  • श्रीहनुमदष्टोत्तरशतनामस्तोत्रम्Ashtottaranama
  • श्रीरामरहस्योक्तं श्रीहनुमदष्टोत्तरशतनामस्तोत्रम्Ashtottaranama

सा विद्या या विमुक्तये

Built with Sankalpa at Gyaandweep

Gyaandweep

© 2022-2026 Granthajyoti Pvt Ltd.

Privacy & Terms