aSTottaranAma
śrīhanumadaṣṭottaraśatanāmastotram
श्रीहनुमदष्टोत्तरशतनामस्तोत्रम्
Verse
श्रीपराशरः - स्तोत्रान्तरं प्रवक्ष्यामि शृणु मैत्रेय तत्त्वतः । अष्टोत्तरशतं नाम्नां हनुमत्प्रतिपादकम् ॥
Verse
आयुरारोग्यफलदं पुत्रपौत्रप्रवर्धनम् । गुह्याद्गुह्यतमं स्तोत्रं सर्वपापहरं नृणाम् ॥
Verse
अस्य श्रीहनुमदष्टोत्तरशतदिव्यनामस्तोत्रमन्त्रस्य विभीषण ऋषिः ।
Verse
पङ्क्ती छन्दः ।
Verse
श्रीहनुमान् परमात्मा देवता ।
Verse
मारुतात्मज इति बीजम् ।
Verse
अञ्जनासूनुरिति शक्तिः ।
Verse
वायुपुत्र इति कीलकम् । मम श्रीहनुमत्प्रसादसिद्ध्यर्थे जपे विनियोगः ॥
Verse
श्री अभूतपूर्वडिम्भ श्री अञ्जनागर्भ सम्भवः । नभस्वद्वरसम्प्राप्तो दीप्तकालाग्निसम्भवः ॥१॥
Verse
भूनभोऽन्तरभिन्नादस्फुरद्गिरिगुहामुखः । भानुबिम्बफलोत्साहो पलायितविधुन्तुदः ॥२॥
Verse
ऐरावतग्रहाव्यग्रो कुलिशग्रसनोन्मुखः । सुरासुरायुधाभेद्यो विद्यावेद्यवरोदयः ॥३॥
Verse
हनुमानिति विख्यातो प्रख्यातबलपौरुषः । शिखावान् रत्नमञ्जीरो स्वर्णकृष्णोत्तरच्छदः ॥४॥
Verse
विद्युद्वलययज्ञोपवीतद्युमणिमण्डनः । हेममौञ्जीसमाबद्धशुद्धजाम्बूनदप्रभः ॥५॥
Verse
कनत्कनककौपीनो वटुर्वटुशिखामणिः । सिंहसंहननाकारो तरुणार्कनिभाननः ॥६॥
Verse
वशंवदीकृतमनास्तप्तचामीकरेक्षणः । वज्रदेहो वज्रनखः वज्रस्पर्शोग्रवालजः ॥७॥
Verse
अव्याहतमनोवेगो हरिर्दाशरथानुगः । सारग्रहणचातुर्यश्शब्दब्रह्मैकपारगः ॥८॥
Verse
पम्पानदीचरो वाग्मी रामसुग्रीवसख्यकृत् । स्वामिमुद्राङ्कितकरो क्षितिजान्वेषणोद्यमः ॥९॥
Verse
स्वयम्प्रभासमालोको बिलमार्गविनिर्गमः । आम्बोधिदर्शनोद्विग्नमानसोङ्गदधैर्यदः ॥१०॥
Verse
प्रायोपदिष्टप्लवगप्राणत्रातपरायणः । अदेवदानवगतिः अप्रतिद्वन्द्वसाहसः ॥११॥
Verse
स्वदेहसम्भवज्जङ्घामेरुद्रोणीकृतार्णव । मेरु सागरश्रुतवृत्तान्तमैनाककृतपूजनः ॥१२॥
Verse
अणोरणीयान्महतो महीयान् सुरसाऽर्थितः । त्रिंशद्योजनपर्यन्तच्छायाछायाग्रहान्तकः ॥१३॥
Verse
लङ्काहङ्कारशमनश्शङ्काटङ्कविवर्जितः । हस्तामलकवदृष्टराक्षसान्तः पुराखिलः ॥१४॥
Verse
चितादुरन्तवैदेहीसम्पादनफलश्रमः । मैथिलीदत्तमाणिक्यो भिन्नाशोकवनद्रुमः ॥१५॥
Verse
बलैकदेशक्षपणः कुमाराक्षनिषूदनः । घोषितस्वामिविजयस्तोरणारोहणोच्छ्रियः ॥१६॥
Verse
रणरङ्गसमुत्साहो रघुवंशजयध्वजः । इन्द्रजिद्युद्धनिर्भीतो ब्रह्मास्त्रपरिवर्तनः ॥१७॥
Verse
प्रभाषितदशग्रीवो भस्मसात्कृतपट्टणः । वार्धिनाशान्तवालर्चिः कृतकृत्योत्तमोत्तमः ॥१८॥
Verse
कल्लोलास्फालवेलान्तपारावारोपरिप्लवः । स्वर्गमाकाङ्क्षकीशौघद्दृक्चकोरेन्दुमण्डलः ॥१९॥
Verse
?? मधुकाननसर्वस्वसन्तर्पितवलीमुखः । दृष्टा सीतेति वचनात्कोसलेन्द्राभिनन्दितः ॥२०॥
Verse
स्कन्धस्थकोदण्डधरः कल्पान्तघननिस्वनः । सिन्धुबन्धनसन्नाहस्सुवेलारोहसम्भ्रमः ॥२१॥
Verse
अक्षाख्यबलसंरुद्धलङ्काप्राकारभञ्जनः । युध्यद्वानरदैतेयजयापजयसाधनः ॥२२॥
Verse
रामरावणशस्त्रास्त्रज्वालाजालनिरीक्षणः । मुष्टिनिर्भिन्नदैत्येन्द्रो मुहुर्नुतनभश्चरः ॥२३॥
Verse
जाम्बवन्नुतिसंहृष्टो समाक्रान्तनभश्चरः । गन्धर्वगर्वविध्वंसी वश्यद्दिव्यौषधीनगः ॥२४॥
Verse
सौमित्रिमूर्छाशान्त्यर्थे प्रत्यूषस्तुष्टवानरः । रामास्त्रध्वंसितेन्द्रारिसैन्यविन्यस्तविक्रमः ॥२५॥
Verse
हर्षविस्मितभूपुत्रीजयवृत्तान्तसूचकः । राघवीराघवारूढपुष्पकारोहकौतुकः ॥२६॥
Verse
प्रियवाक्तोषितगुहो भरतानन्ददायकः । श्रीसीतारामपट्टाभिषेकसम्भारसम्भ्रमः ॥२७॥
Verse
काकुत्स्थदयितादत्तमुक्ताहारविराजितः । रामायणसुधास्वादरसिको रामकिङ्करः ॥२८॥
Verse
अमोघमन्त्रयन्त्रौघस्मृतिनिर्घूतकल्मषः भजत्किम्पुरुषद्वीपो भविष्यत्पद्मसम्भवः । आपदुद्धारकः श्रीमान् सर्वाभीष्टफलप्रदः ॥२९॥
Verse
नामानीमानि यः कश्चिदनन्यगतिकः पठेत् । मृत्योर्मुखे राजमुखे निपतन्नावसीदति ॥३०॥
Verse
विश्वाकर्षणविद्वेषस्तम्भनोच्चाटनादयः । सिध्यन्ति पठनादेव नात्र शङ्का कुरु क्वचित् ॥३१॥
Verse
नामसङ्ख्याप्यपूपानि योदत्ते मन्दवासरे । छायेव तस्य सततं सहायो मारुतिर्भवेत् ॥३२॥
Verse
॥ इति श्रीहनुमदष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ॥
