aSTottaranAma
śrīhanumadaṣṭottaraśatanāmastotram
श्रीहनुमदष्टोत्तरशतनामस्तोत्रम्
Verse
(श्रीपद्मोत्तरखण्डतः) नारद उवाच ।
Verse
सर्वशास्त्रार्थतत्त्वज्ञ सर्वदेवनमस्कृत । यत्त्वया कथितं पूर्वं रामचन्द्रेण धीमता ॥१॥
Verse
स्तोत्रं समस्तपापघ्नं श्रुत्वा धन्योऽस्मि पद्मज । इदानीं श्रोतुमिच्छामि लोकानां हितकाम्यया ॥२॥
Verse
वायोरंशावतरणमाहात्म्यं सर्वकामदम् । वद मे विस्तराद्ब्रह्मन् देवगुह्यमनुत्तमम् ॥३॥
Verse
इति पृष्टो नारदेन ब्रह्मा लोकपितामहः । नमस्कृत्य जगन्नाथं लक्ष्मीकान्तं परात्परम् ॥४॥
Verse
प्रोवाच वायोर्माहात्म्यं नारदाय महात्मने । यच्छ्रुत्वा सर्वसौभाग्यं प्राप्नुवन्ति जनाः सदा ॥५॥
Verse
ब्रह्मोवाच ।
Verse
इदं रहस्यं पापघ्नं वायोरष्टोत्तरं शतम् । विष्णुना लोकनाथेन रमायै कथितं पुरा ॥६॥
Verse
रमा मामाह यद्दिव्यं तत्ते वक्ष्यामि नारद । इदं पवित्रं पापघ्नं श्रद्धया हृदि धारय ॥७॥
Verse
ॐ हनुमानञ्जनापुत्रो वायुसूनुर्महाबलः । रामदूतो हरिश्रेष्ठः सूरी केसरीनन्दनः ॥
Verse
सूर्यश्रेष्ठो महाकायो वज्री वज्रप्रहारवान् । महासत्त्वो महारूपो ब्रह्मण्यो ब्राह्मणप्रियः ॥९॥
Verse
मुख्यप्राणो महाभीमः पूर्णप्रज्ञो महागुरुः । ब्रह्मचारी वृक्षधरः पुण्यः श्रीरामकिङ्करः ॥१०॥
Verse
सीताशोकविनाशी च सिंहिकाप्राणनाशकः । मैनाकगर्वभङ्गश्च छायाग्रहनिवारकः ॥११॥
Verse
लङ्कामोक्षप्रदो देवः सीतामार्गणतत्परः । रामाङ्गुलिप्रदाता च सीताहर्षविवर्धनः ॥१२॥
Verse
महारूपधरो दिव्यो ह्यशोकवननाशकः । मन्त्रिपुत्रहरो वीरः पञ्चसेनाग्रमर्दनः ॥१३॥
Verse
दशकण्ठसुतघ्नश्च ब्रह्मास्त्रवशगोऽव्ययः । दशास्यसल्लापपरो लङ्कापुरविदाहकः ॥१४॥
Verse
तीर्णाब्धिः कपिराजश्च कपियूथप्ररञ्जकः । चूडामणिप्रदाता च श्रीवश्यः प्रियदर्शकः ॥१५॥
Verse
कौपीनकुण्डलधरः कनकाङ्गदभूषणः । सर्वशास्त्रसुसम्पन्नः सर्वज्ञो ज्ञानदोत्तमः ॥१६॥
Verse
मुख्यप्राणो महावेगः शब्दशास्त्रविशारदः । बुद्धिमान् सर्वलोकेशः सुरेशो लोकरञ्जकः ॥१७॥
Verse
लोकनाथो महादर्पः सर्वभूतभयापहः । रामवाहनरूपश्च सञ्जीवाचलभेदकः ॥१८॥
Verse
कपीनां प्राणदाता च लक्ष्मणप्राणरक्षकः । रामपादसमीपस्थो लोहितास्यो महाहनुः ॥१९॥
Verse
रामसन्देशकर्ता च भरतानन्दवर्धनः । रामाभिषेकलोलश्च रामकार्यधुरन्धरः ॥२०॥
Verse
कुन्तीगर्भसमुत्पन्नो भीमो भीमपराक्रमः । लाक्षागृहाद्विनिर्मुक्तो हिडिम्बासुरमर्दनः ॥२१॥
Verse
धर्मानुजः पाण्डुपुत्रो धनञ्जयसहायवान् । बकासुरवधोद्युक्तस्तद्ग्रामपरिरक्षकः ॥२२॥
Verse
भिक्षाहाररतो नित्यं कुलालगृहमध्यगः । पाञ्चाल्युद्वाहसञ्जातसम्मोदो बहुकान्तिमान् ॥२३॥
Verse
विराटनगरे गूढचरः कीचकमर्दनः । दुर्योधननिहन्ता च जरासन्धविमर्दनः ॥२४॥
Verse
सौगन्धिकापहर्ता च द्रौपदीप्राणवल्लभः । पूर्णबोधो व्यासशिष्यो यतिरूपो महामतिः ॥२५॥
Verse
दुर्वादिगजसिंहस्य तर्कशास्त्रस्य खण्डकः । बौद्धागमविभेत्ता च साङ्ख्यशास्त्रस्य दूषकः ॥२६॥
Verse
द्वैतशास्त्रप्रणेता च वेदव्यासमतानुगः । पूर्णानन्दः पूर्णसत्वः पूर्णवैराग्यसागरः ॥२७॥
Verse
इति श्रुत्वा नारदस्तु वायोश्चरितमद्भुतम् । मुदा परमया युक्तः स्तोतुं समुपचक्रमे ॥२८॥
Verse
रामावतारजाताय हनुमद्रूपिणे नमः । वासुदेवस्य भक्ताय भीमसेनाय ते नमः ॥२९॥
Verse
वेदव्यासमतोद्धारकर्त्रे पूर्णसुखाय च । दुर्वादिध्वान्तचन्द्राय पूर्णबोधाय ते नमः ॥३०॥
Verse
गुरुराजाय धन्याय कञ्जनेत्राय ते नमः । दिव्यरूपाय शान्ताय नमस्ते यतिरूपिणे ॥३१॥
Verse
स्वान्तस्थवासुदेवाय सच्चित्ताय नमो नमः । अज्ञानतिमिरार्काय व्यासशिष्याय ते नमः ॥३२॥
Verse
अथाभिवन्द्य पितरं ब्रह्माणं नारदो मुनिः । परिक्रम्य विनिर्यातो वासुदेवं हरिं स्मरन् ॥३३॥
Verse
अष्टोत्तरशतं दिव्यं वायुसूनोर्महात्मनः । यः पठेच्छ्रद्धया नित्यं सर्वबन्धात् प्रमुच्यते ॥३४॥
Verse
सर्वरोगविनिर्मुक्तः सर्वपापैर्न लिप्यते । राजवश्यं भवेन्नित्यं स्तोत्रस्यास्य प्रभावतः ॥३५॥
Verse
भूतग्रहनिवृत्तिश्च प्रजावृद्धिश्च जायते । आयुरारोग्यमैश्वर्यं बलं कीर्तिं लभेत् पुमान् ॥३६॥
Verse
यः पठेद्वायुचरितं भक्त्या परमया युतः । सर्वज्ञानसमायुक्तः स याति परमं पदम् ॥३६॥
Verse
इति श्रीपद्मोत्तरखण्डतः श्रीहनुमदष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ।
