aSTottaranAma
viśvāmitraproktaṃ skandāṣṭottaraśatanāmastotram
विश्वामित्रप्रोक्तं स्कन्दाष्टोत्तरशतनामस्तोत्रम्
Verse
विश्वामित्रस्तु भगवान्कुमारं शरणं गतः । स्तवं दिव्यं सम्प्रचक्रे महासेनस्य चापि सः ॥१२३॥
Verse
अष्टोत्तरशतं नाम्नां शृणु त्वं तानि फाल्गुन । जपेन येषां पापानि यान्ति ज्ञानमवाप्नुयात् ॥१२४॥
Verse
ॐ त्वं ब्रह्मवादी त्वं ब्रह्मा ब्राह्मणवत्सलः । ब्रह्मण्यो ब्रह्मदेवश्च ब्रह्मदो ब्रह्मसङ्ग्रहः ॥१२५॥
Verse
त्वं परं परमं तेजो मङ्गलानां च मङ्गलम् । अप्रमेयगुणश्चैव मन्त्राणां मन्त्रगो भवान् ॥१२६॥
Verse
त्वं सावित्रीमयो देव सर्वत्रैवापराजितः । मन्त्र शर्वात्मको देवः षडक्षरवतां वरः ॥१२७॥
Verse
माली मौली पताकी च जटी मुण्डी शिखण्ड्यपि । कुण्डली लाङ्गली बालः कुमारः प्रवरो वरः ॥१२८॥
Verse
गवाम्पुत्रः सुरारिघ्नः सम्भवो भवभावनः । पिनाकी शत्रुहा श्वेतो गूढः स्कन्दः कराग्रणीः ॥१२९॥
Verse
द्वादशो भूर्भुवो भावी भुवः पुत्रो नमस्कृतः । नागराजः सुधर्मात्मा नाकपृष्ठः सनातनः ॥१३०॥
Verse
त्वं भर्ता सर्वभूतात्मा त्वं त्राता त्वं सुखावहः । शरदक्षः शिखी जेता षड्वक्त्रो भयनाशनः ॥१३१॥
Verse
हेमगर्भो महागर्भो जयश्च विजयेश्वरः । त्वं कर्ता त्वं विधाता च नित्यो नित्यारिमर्दनः ॥१३२॥
Verse
महासेनो महातेज वीरसेनश्च भूपतिः । सिद्धासनः सुराध्यक्षो भीमसेनो निरामयः ॥१३३॥
Verse
शौरिर्यदुर्महातेजा वीर्यवान्सत्यविक्रमः । तेजोगर्भोऽसुररिपुः सुरमूर्तिः सुरोर्ज्जितः ॥१३४॥
Verse
कृतज्ञो वरदः सत्यः शरण्यः साधुवत्सलः । सुव्रतः सूर्यसङ्काशो वह्निगर्भः कणो भुवः ॥१३५॥
Verse
पिप्पली शीघ्रगो रौद्री गाङ्गेयो रिपुदारणः । कार्त्तिकेयः प्रभुः क्षन्ता नीलदंष्ट्रो महामनाः ॥१३६॥
Verse
निग्रहो निग्रहाणां च नेता त्वं सुरनन्दनः । प्रग्रहः परमानन्दः क्रोधघ्नस्तार उच्छ्रितः ॥१३७॥
Verse
कुक्कुटी बहुली दिव्यः कामदो भूरिवर्धनः । अमोघोऽमृतदो ह्यग्निः शत्रुघ्नः सर्वमोदनः ॥१३८॥
Verse
अव्ययो ह्यमरः श्रीमानुन्नतो ह्यग्निसम्भवः । पिशाचराजः सूर्याभः शिवात्मा शिवनन्दनः ॥१३९॥
Verse
अपारपारो दुर्ज्ञेयः सर्वभूतहिते रतः । अग्राह्यः कारणं कर्ता परमेष्ठी परं पदम् ॥१४०॥
Verse
अचिन्त्यः सर्वभूतात्मा सर्वात्मा त्वं सनातनः । एवं स सर्वभूतानां संस्तुतः परमेश्वरः ॥१४१॥
Verse
नाम्नामष्टशतेनायं विश्वामित्रमहर्षिणा । प्रसन्नमूर्तिराहेदं मुनीन्द्रं व्रियतामिति ॥१४२॥
Verse
मम त्वया द्विजश्रेष्ठ स्तुतिरेषा निरूपिता । भविष्यति मनोऽभीष्टप्राप्तये प्राणिनां भुवि ॥१४३॥
Verse
विवर्धते कुले लक्ष्मीस्तस्य यः प्रपठेदिमम् । न राक्षसाः पिशाचा वा न भूतानि न चापदः ॥१४४॥
Verse
विघ्नकारीणि तद्गेहे यत्रैव संस्तुवन्ति माम् । दुःस्वप्नं च न पश्येत्स बद्धो मुच्यते बन्धनात् ॥१४५॥
Verse
स्तवस्यास्य प्रभावेण दिव्यभावः पुमान्भवेत् ॥
Verse
इति श्रीस्कन्दपुराणे माहेश्वरखण्डे, कौमारिकाखण्डे, एकोनत्रिंशाध्यायान्तर्गतं विश्मित्रप्रोक्तं स्कन्दाष्टोत्तर- शतनामस्तोत्रं समाप्तम् ।
