aSTottaranAma
munibhiḥ kṛtaṃ skandaśatāṣṭanāmastotram
मुनिभिः कृतं स्कन्दशताष्टनामस्तोत्रम्
Verse
स्कन्दो गुहः षण्मुखश्च भालनेत्रसुतः प्रभुः । पिङ्गळः कृत्तिकासूनुः शिखिवाहो द्विषड्भुजः ॥१४१॥
Verse
द्विषण्णेत्रः कुमारश्च पिशिताशनभञ्जनः । तारकासुरसंहर्ता रक्षोबलनिषूदनः ॥१४१॥
Verse
मत्तः प्रमत्त उन्मत्तः सुरसैन्याभिरक्षकः । देवसेनापतिः प्राज्ञः कृपालुर्भक्तवत्सलः ॥१४२॥
Verse
उमासुतो महासेनः कुमारः क्रौञ्चदारणः । सेनानीरग्रजन्मा च विशाखः शङ्कारात्मजः ॥१४३॥
Verse
शिवस्वामी गणस्वामी सर्वस्वामी सनातनः । अनन्तशक्तिरक्षोभ्यः पार्वतीप्रियनन्दनः ॥१४४॥
Verse
गङ्गासुतः शरोद्भूत आहुतः पावकात्मजः । जृम्भः प्रजृम्भ उज्जृम्भः कमलासनसन्नुतः ॥१४५॥
Verse
एकवर्णो द्विवर्णश्च त्रिवर्णः सुमनोहरः । चातुर्वर्ण्यः पञ्चवर्णः प्रजापतिरहःपतिः ॥१४६॥
Verse
अग्निगर्भः शमीगर्भो विश्वगर्भः सुरारिहा । हरिद्वर्णः शुभकरः पटुवाक् वटुवेषधृक् ॥१४७॥
Verse
पूषा गभस्तिर्गगनश्चन्द्रवर्णः कलाधरः । मायाधरो महामायः कैलासावसथः शिखी ॥१४८॥
Verse
विश्वयोनिरमेयात्मा तेजोनिधिरनामयः । परमेष्ठी परब्रह्म वेदगर्भो विराड् वसुः ॥१४९॥
Verse
पुलिन्दकन्याभर्ता च महासारस्वतप्रदः । आश्रिताखिलदाता च चोरघ्नो रोगनाशनः ॥१५०॥
Verse
अनन्तशक्तिरानन्दः शिखण्डिकृतकेतनः । डम्भः परमडम्भश्च महाडम्भो वृषाकपिः ॥१५१॥
Verse
कारणं कान्तदेहश्च कारणातीतविग्रहः । अहिरूपोऽमृतवपुः प्राणायामपरायणः ॥१५२॥
Verse
विरुद्धहर्ता वीरघ्नो रक्तश्यामललोचनः । बहुवर्णो गणपतिः स्वभक्ताभीष्टदायकः ॥१५३॥
Verse
सर्वेश्वरो लोकगुरुरसुरानीकनाशनः । सुब्रह्मण्यो गुहः स्कन्दो ब्रह्मण्यो ब्राह्मणप्रियः ॥१५४॥
Verse
(फलम्) एवमष्टोत्तरशतनामभिः स्तौति यो नरः । तस्याभीष्टानि सर्वाणि प्रयच्छति गुहो मुहुः ॥१५५॥
Verse
॥ इति शिवरहस्यान्तर्गते मुनिभिः कृतं स्कन्दशताष्टनामस्तोत्रं सम्पूर्णम् ॥
