Fetching Data .

Loading verse structure and chapter context.

GyanDweepBeta
HomeLearnLibrary
eGurukulsDiscoverTemplesPanchanga
Sign Up
Sign Up

aSTottaranAma

saubhāgyāṣṭottaraśatanāmastotram

सौभाग्याष्टोत्तरशतनामस्तोत्रम्

Verse

दत्तात्रेयेण कृतं सौभाग्याष्टोत्तरशतनामस्तोत्रोपदेशवर्णनम् निशम्यैतज्जामदग्न्यो माहात्म्यं सर्वतोऽधिकम् । स्तोत्रस्य भूयः पप्रच्छ दत्तात्रेयं गुरूत्तमम् ॥१॥

Verse

भगवन् त्वन्मुखाम्भोजनिर्गमद्वाक्सुधारसम् । पिबतः श्रोतमुखतो वर्धतेऽनुक्षणं तृषा ॥२॥

Verse

अष्टोत्तरशतं नाम्नां श्रीदेव्या यत्प्रसादतः । कामः सम्प्राप्तवान् लोके सौभाग्यं सर्वमोहनम् ॥३॥

Verse

सौभाग्यविद्यावर्णानामुद्धारो यत्र संस्थितः । तत्समाचक्ष्व भगवन् कृपया मयि सेवके ॥४॥

Verse

निशम्यैवं भार्गवोक्तिं दत्तात्रेयो दयानिधिः । प्रोवाच भार्गवं रामं मधुराऽक्षरपूर्वकम् ॥५॥

Verse

शृणु भार्गव ! यत् पृष्टं नाम्नामष्टोत्तरं शतम् । श्रीविद्यावर्णरत्नानां निधानमिव संस्थितम् ॥६॥

Verse

श्रीदेव्या बहुधा सन्ति नामानि शृणु भार्गव । सहस्रशतसंख्यानि पुराणेष्वागमेषु च ॥७॥

Verse

तेषु सारतमं ह्येतत्सौभाग्याऽष्टोत्तराऽऽत्मकम् । यदुवाच शिवः पूर्वं भवान्यै बहुधाऽर्थितः ॥८॥

Verse

सौभाग्याऽष्टोत्तरशतनामस्तोत्रस्य भार्गव । ऋषिरुक्तः शिवश्छन्दोऽनुष्टुप् श्रीललिताऽम्बिका ॥९॥

Verse

देवता विन्यसेत्कूटत्रयेणाऽऽवर्त्य सर्वतः । ध्यात्वा सम्पूज्य मनसा स्तोत्रमेतदुदीरयेत् ॥१०॥

Verse

॥त्रिपुराम्बिकायै नमः ॥

Verse

कामेश्वरी कामशक्तिः कामसौभाग्यदायिनी। कामरूपा कामकला कामिनी कमलाऽऽसना ॥११॥

Verse

कमला कल्पनाहीना कमनीयकलावती । कमला भारतीसेव्या कल्पिताऽशेषसंसृतिः ॥१२॥

Verse

अनुत्तराऽनघाऽनन्ताऽद्भुतरूपाऽनलोद्भवा । अतिलोकचरित्राऽतिसुन्दर्यतिशुभप्रदा ॥१३॥

Verse

अघहन्त्र्यतिविस्ताराऽर्चनतुष्टाऽमितप्रभा । एकरूपैकवीरैकनाथैकान्ताऽर्चनप्रिया ॥१४॥

Verse

एकैकभावतुष्टैकरसैकान्तजनप्रिया । एधमानप्रभावैधद्भक्तपातकनाशिनी ॥१५॥

Verse

एलामोदमुखैनोऽद्रिशक्रायुधसमस्थितिः । ईहाशून्येप्सितेशादिसेव्येशानवराङ्गना ॥१६॥

Verse

ईश्वराऽऽज्ञापिकेकारभाव्येप्सितफलप्रदा । ईशानेतिहरेक्षेषदरुणाक्षीश्वरेश्वरी ॥१७॥

Verse

ललिता ललनारूपा लयहीना लसत्तनुः । लयसर्वा लयक्षोणिर्लयकर्णी लयात्मिका ॥१८॥

Verse

लघिमा लघुमध्याऽऽढ्या ललमाना लघुद्रुता । हयाऽऽरूढा हताऽमित्रा हरकान्ता हरिस्तुता ॥१९॥

Verse

हयग्रीवेष्टदा हालाप्रिया हर्षसमुद्धता । हर्षणा हल्लकाभाङ्गी हस्त्यन्तैश्वर्यदायिनी ॥२०॥

Verse

हलहस्ताऽर्चितपदा हविर्दानप्रसादिनी । रामरामाऽर्चिता राज्ञी रम्या रवमयी रतिः ॥२१॥

Verse

रक्षिणीरमणीराका रमणीमण्डलप्रिया । रक्षिताऽखिललोकेशा रक्षोगणनिषूदिनी ॥२२॥

Verse

अम्बान्तकारिण्यम्भोजप्रियाऽन्तकभयङ्करी । अम्बुरूपाऽम्बुजकराऽम्बुजजातवरप्रदा ॥२३॥

Verse

अन्तःपूजाप्रियाऽन्तःस्वरूपिण्यन्तर्वचोमयी । अन्तकाऽरातिवामाङ्कस्थिताऽन्तःसुखरूपिणी ॥२४॥

Verse

सर्वज्ञा सर्वगा सारा समा समसुखा सती । सन्ततिः सन्तता सोमा सर्वा साङ्ख्या सनातनी ॥२५॥

Verse

॥फलश्रुतिः॥

Verse

एतत्ते कथितं राम नाम्नामष्टोत्तरं शतम् । अतिगोप्यमिदं नाम्नः सर्वतः सारमुद्धृतम् ॥२६॥

Verse

एतस्य सदृशं स्तोत्रं त्रिषु लोकेषु दुर्लभम् । अप्राकश्यमभक्तानां पुरतो देवताद्विषाम् ॥२७॥

Verse

एतत् सदाशिवो नित्यं पठन्त्यन्ये हरादयः । एतत्प्रभावात्कन्दर्पस्त्रैलोक्यं जयति क्षणात् ॥२८॥

Verse

सौभाग्याऽष्टोत्तरशतनामस्तोत्रं मनोहरम् । यस्त्रिसन्ध्यं पठेन्नित्यं न तस्य भुवि दुर्लभम् ॥२९॥

Verse

श्रीविद्योपासनवतामेतदावश्यकं मतम् । सकृदेतत्प्रपठतां नाऽन्यत्कर्म विलुप्यते ॥३०॥

Verse

अपठित्वा स्तोत्रमिदं नित्यं नैमित्तिकं कृतम् । व्यर्थीभवति नग्नेन कृतं कर्म यथा तथा ॥३१॥

Verse

सहस्रनामपाठादावशक्तस्त्वेतदीरयेत् । सहस्रनामपाठस्य फलं शतगुणं भवेत् ॥३२॥

Verse

सहस्रधा पठित्वा तु वीक्षणान्नाशयेद्रिपून् । करवीररक्तपुष्पैर्हुत्वा लोकान् वशं नयेत् ॥३३॥

Verse

स्तम्भेयत् श्वेतकुसुमैर्नीलैरुच्चाटयेद्रिपून् । मरिचैर्विद्वेषेणाय लवङ्गैर्व्याधिनाशने ॥३४॥

Verse

सुवासिनीर्ब्राह्मणान् वा भोजयेद्यस्तु नामभिः । यश्च पुष्पैः फलैर्वापि पूजयेत् प्रतिनामभिः ॥३५॥

Verse

चक्रराजेऽथवाऽन्यत्र स वसेच्छ्रीपुरे चिरम् । यः सदा वर्तयन्नास्ते नामाऽष्टशतमुत्तमम् ॥३६॥

Verse

तस्य श्रीललिता राज्ञी प्रसन्ना वाञ्छितप्रदा॥

śakraproktaṃ sūryāṣṭottaraśatanāmastotram
munibhiḥ kṛtaṃ skandaśatāṣṭanāmastotram

सा विद्या या विमुक्तये

Built with Sankalpa at Gyaandweep

Gyaandweep

© 2022-2026 Granthajyoti Pvt Ltd.

Privacy & Terms