aSTottaranAma
śakraproktaṃ sūryāṣṭottaraśatanāmastotram
शक्रप्रोक्तं सूर्याष्टोत्तरशतनामस्तोत्रम्
Verse
धौम्येन तु यथापूर्वं पार्थाय सुमहात्मने ॥४॥
Verse
नामाष्टशतमाख्यातं तच्छृणुष्व महामते । ॐ सूर्योऽर्यमा भगस्त्वष्टा पूषाऽर्कः सविता रविः ॥५॥
Verse
गभस्तिमानजः कालो मृत्युर्द्धाता प्रभाकरः । पृथिव्यापश्च तेजश्च खं वायुश्च परायणः ॥६॥
Verse
सोमो बृहस्पतिः शुक्रो बुधोंऽगारक एव च । इन्द्रो विवस्वान्दीप्तांशुः शुचिः सौरिः शनैश्चरः ॥७॥
Verse
ब्रह्मा रुद्रश्च विष्णुश्च स्कन्दो वैश्रवणो यमः । वैद्युतो जाठरश्चाग्निरिन्धनस्तेजसां पतिः ॥८॥
Verse
धर्मध्वजो वेदकर्त्ता वेदाङ्गो वेदवाहनः । कृतं त्रेता द्वापरश्च कलिः सर्वामराश्रयः ॥९॥
Verse
कलाकाष्ठामुहूर्त्ताश्च पक्षा मासा अहर्निशाः । संवत्सरकरोऽश्वस्थः कालचक्रो विभावसुः ॥१०॥
Verse
पुरुषः शाश्वतो योगी व्यक्ताव्यक्तः सनातनः । लोकाध्यक्षः प्रजाध्यक्षो विश्वकर्मा तमोनुदः ॥११॥
Verse
वरुणः सागरोंशुश्च जीवन्तो जीवनोऽरिहा । भूताश्रयो भूतपतिः सर्वभूतनिषेवितः ॥१२॥
Verse
स्रष्टा संवर्त्तको वह्निः सर्वस्यादिकरोऽमलः । अनन्तः कपिलो भानुः कामदः सर्वतोमुखः ॥१३॥
Verse
जयो विषादो वरदः सर्वधातुनिषेवितः । समः सुवर्णो भूतादिः शीघ्रगः प्राणधारकः ॥१४॥
Verse
धन्वन्तरिर्धूमकेतुरादिदेवोऽदितेः सुतः । द्वादशात्माऽरविन्दाक्षः पिता माता पितामहः ॥१५॥
Verse
स्वर्गद्वारं प्रजाद्वारं मोक्षद्वारं त्रिविष्टपम् ।
Verse
देहकर्त्ता प्रशान्तात्मा विश्वात्मा विश्वतोमुखः । चराचरात्मा सूक्ष्मात्मा मैत्रेण वपुषाऽन्वितः ॥१६॥
Verse
एतद्वै कीर्तनीयस्य सूर्यस्यामिततेजसः । नाम्नामष्टोत्तरशतं प्रोक्तं शक्रेण धीमता ॥१७॥
Verse
इति श्रीस्कन्दपुराणे प्रभासखण्डे प्रभासक्षेत्रमाहात्म्ये एकोनाशीत्यधिकद्विशततमाध्यायान्तर्गतं शक्रप्रोक्तं सूर्याष्टोत्तरशतनामस्तोत्रं समाप्तम् ।
