aSTottaranAma
śrīhanumadaṣṭottaraśatanāmastotram
श्रीहनुमदष्टोत्तरशतनामस्तोत्रम्
Verse
॥ श्रीसीतरामचन्द्राभ्यां नमः ॥
Verse
श्रीपराशर उवाच - स्तोत्रान्तरं प्रवक्ष्यामि हनुमत्प्रतिपादकम् । शृणु मैत्रेय विप्रेन्द्र अष्टोत्तरशताधिकम् ॥
Verse
अगस्त्येन पुरा प्रोक्तं सुतीक्ष्णाय महात्मने । सर्वपापक्षयकरं सदा विजयवर्धनम् ॥
Verse
सुतीक्ष्ण उवाचः - भगवन् केन मन्त्रेण स्तुत्वा तं भुवि मानवः । अयत्नेनैव लभते सहसा सर्वसम्पदः ॥
Verse
भूतप्रेतपिशाचादि पूतनाब्रह्मराक्षसाः । कूष्माण्डकिन्नराधीशरक्षो यक्षखगादिना ॥
Verse
निधनं चैव दैत्यानां दानवानां विशेषतः । अपस्मारग्रहाणां च स्त्रीग्रहाणां तथैव च ॥
Verse
महामृत्युग्रहाणां च नीचचोरग्रहात्मनाम् । अन्येषां चातिघोराणां सर्पाणां क्रूरकर्मणाम् ॥
Verse
वातपित्तकफादिनां ज्वराणामतिरोगिणाम् । शिरो नेत्रमुखास्यान्ध्रिगुदघ्राणोदरीभवाम् ॥
Verse
तथैव राजयक्ष्माणां शान्तिः केन प्रदृश्यते । चोरादि राजशस्त्रादि विषदुस्स्वप्नभीतीषु ॥
Verse
सिंहव्याघ्रवराहादिष्वन्यास्वापत्सु भीतिषु । किं जप्त्व्यं महाभाग ब्रूहि शिष्यस्य मे मुने ॥
Verse
श्रीअगस्त्य उवाच - सुहृदो मम भक्तस्य तव रक्षाकरं वरम् । प्रवक्ष्यामि शृणुष्वैकं सुतीक्ष्ण सुसमाहितः ॥
Verse
उपेन्द्रेण पुरेन्द्राय प्रोक्तं नारायणात्मना । त्रैलोक्यैश्वर्यसिद्ध्यर्थमभावाय च चिद्विषाम् ॥
Verse
सभायां नारदादीनां ऋषिणां पुण्यकर्मणाम् । उपविश्य मया तत्र शृतं तस्य प्रसादतः ॥
Verse
अष्टोत्तरशतं नाम्ना मतिगुह्यं हनुमतः । नोक्तपूर्वमिदं ब्रह्मन् रहस्यं यस्यकस्यचित् ॥
Verse
ॐ अस्य श्रीहनुमदष्टोत्तरशतदिव्यनामस्तोत्रमन्त्रस्य अगस्त्यो भगवान् ऋषिः ।
Verse
अनुष्टुप्छन्दः ।
Verse
श्रीहनुमान् देवता ।
Verse
मारुतात्मज इति बीजम् ।
Verse
अञ्जनासूनुरिति शक्तिः ।
Verse
वायुपुत्रेति कीलकम् । मम श्रीहनुमत्प्रसादसिद्ध्यर्थे जपे विनियोगः ॥
Verse
ॐ नमो भगवते आञ्जनेयाय अङ्गुष्ठाभ्यां नमः ।
Verse
ॐ नमो भगवते वायुपुत्राय तर्जनीभ्यां नमः ।
Verse
ॐ नमो भगवते केसरिप्रियनन्दनाय मध्यमाभ्यां नमः ।
Verse
ॐ नमो भगवते रामदूताय अनामिकाभ्यां नमः ।
Verse
ॐ नमो भगवते लक्ष्मणप्राणदात्रे कनिष्ठिकाभ्यां नमः ।
Verse
ॐ नमो भगवते श्रीहनुमते करतलकरपृष्ठाभ्यां नमः । इति करन्यासः ॥
Verse
ॐ नमो भगवते आञ्जनेयाय हृदयाय नमः ।
Verse
ॐ नमो भगवते वायुपुत्राय शिरसे स्वाहा ।
Verse
ॐ नमो भगवते केसरिप्रियनन्दनाय शिखायै वषट् ।
Verse
ॐ नमो भगवते रामदूताय कवचाय हुम् ।
Verse
ॐ नमो भगवते लक्ष्मणप्राणदात्रे नेत्रत्रयाय वौषट् ।
Verse
ॐ नमो भगवते श्रीहनुमते अस्त्राय फट् । इति हृदयादि षडङ्गन्यासः ॥
Verse
भूर्भूवस्वरोमिति दिग्बन्धः ॥
Verse
॥ अथ ध्यानम् ॥
Verse
पम्पातटवनोद्देशे परमर्षिनिषेविते । परितस्सिद्धगन्धर्वकिन्नरोरगसेविते ॥
Verse
निर्वैरमृगसिंहादि नानासत्वनिषेविते । मधुरे मधुरालापे मनोज्ञतलकन्दरे ॥
Verse
मतङ्गपर्वतप्रान्तमानसादिमनोहरे । महासिंहगुहागेहे उपरञ्जितपश्चिमे ॥
Verse
अतीन्द्रियमनोभारैः अतिमन्मथकाननैः । शमादि गुणसम्पन्नैः अतीतषडरातिभिः ॥
Verse
निखिलागमतत्वज्ञैः मुनिभिर्मुदितात्मभिः । उपास्यमानवद्भाजन मणिपीठ उपस्थितम् ॥
Verse
नलनीलमुखैश्चापि वानरैन्द्रैरुपासितम् । समुदञ्चितवालाग्रं समग्रमणिभूषणम् ॥
Verse
शमान्तकमहोरस्कसमाहितभुजद्वयम् । परार्थ्यं पद्मरागादि स्फुरन्मकरकुण्डलम् ॥
Verse
वज्रपाताङ्किततनुं वज्रपिङ्गाक्षभीषणम् । स्वर्णाब्जकेसरिप्रख्यशिरोरुहविराजितम् ॥
Verse
नवरत्नाञ्चितस्वर्णविचित्रवनमालया । आसिनपादपाथोजमापन्नार्तिनिवारणम् ॥
Verse
करुणावरुणावासमरुणारुणमण्डलम् । किरणारुणितोपान्तचरणं नवहारिणम् ॥
Verse
कारणं सुरकार्याणामसुराणां निवारणम् । भूषणं हि नगेन्द्रस्य मानसाचलपारगम् ॥
Verse
पुराणं प्रणताशानां चरणायोधनप्रियम् । स्मरणापहृताघौघं भरणावहितं सताम् ॥
Verse
शरणागतसन्त्राणकारणैकव्रतक्षमम् । क्षणादसुरराजेन्द्रतनयप्राणहारिणम् ॥
Verse
पवमानसुतं वीरं परीतं पनसादिभिः ॥
Verse
इत्थ ध्यायन्नमन्नेव चेतसा साधकोत्तमः । सर्वान्कामानवाप्नोति नात्र कार्या विचारणा ॥
Verse
॥ इति ध्यानम् ॥
Verse
ॐ नमः प्लवगेन्द्राय वायुपुत्राय वालिने । वालाग्निदग्धलङ्काय बालार्कज्योतिषे नमः ॥
Verse
आञ्जनेयाय महते प्रभञ्जनसुताय ते । प्रमतादिहृते तुभ्यं प्रमाणाद्भुतचेतसे ॥
Verse
प्राचेतसप्रणयिने नमस्ते सुरवैरिणे । वीराय वीरवन्द्याय वीरोन्मत्ताय विद्विषाम् ॥
Verse
विशातकाय वेद्याय विश्वव्यापिशरीरिणे । विष्णुभक्ताय भक्तानामुपकर्त्रे जितात्मने ॥
Verse
वनमालाग्रवालाय पवमानात्मने नमः । कृतमानाय कृत्येषु वीतरागाय ते नमः ॥
Verse
वालधृतमहेन्द्राय सूर्यपुत्रहितैषिणे । बलसूदनमित्राय वरदाय नमो नमः ॥
Verse
शमादिगुणनिष्ठाय शान्ताय शमितारये । शत्रुघ्नाय नमस्तुभ्यं शम्बरारिजिते नमः ॥
Verse
जानकीक्लेशसंहर्त्रे जनकानन्ददायिने । लङ्घितोदधये तुभ्यं तेजसां निधये नमः ॥
Verse
नित्याय नित्यानन्दाय नैष्ठिकब्रह्मचारिणे । ब्रह्माण्डव्याप्तदेहाय भविष्यद्ब्रह्मणे नमः ॥
Verse
ब्रह्मास्त्रवारकायस्तु सहसद्ब्रह्मवेदिने । नमो वेदान्तविदुषे वेदाध्ययनशालिने ॥
Verse
नखायुधाय नाथाय नक्षत्राधिपवर्चसे । नमो नागारिसेव्याय नमस्सुग्रीवमन्त्रिणे ॥
Verse
दशास्यदर्पहन्त्रेच छायाप्राणापहारिणे । गगनत्वरगतये नमो गरुडरंहसे ॥
Verse
गुहानुयाय गुह्याय गम्भीरपतये नमः । शत्रुघ्नाय नमस्तुभ्यं शरान्तरविहारिणे ॥
Verse
राघवप्रियदूताय लक्ष्मणप्राणदायिने । लङ्किणीसत्वसंहर्त्रे चैत्यप्रासादभञ्जिने ॥
Verse
भवाम्बुराशेः पाराय परविक्रमहारिणे । नमो वज्रशरीयाय वज्राशनिनिवारिणे ॥
Verse
नमो रुद्रावताराय रौद्राकाराय वैरिणाम् । किङ्करान्तकरूपाय मन्त्रीपुत्रनिहन्त्रिणे ॥
Verse
महाबलाय भीमाय महताम्पतये नमः । मैनाककृतमानाय मनोवेगाय मालिने ॥
Verse
कदलीवनसंस्थाय नमस्सर्वार्थदायिने । ऐन्द्रव्याकरणज्ञाय तत्त्वज्ञानार्थवेदिने ॥
Verse
कारुण्यनिधये तुभ्यं कुमारब्रह्मचारिणे । नमो गम्भीरशब्दाय सर्वग्रहनिवारिणे ॥
Verse
सुभगाय सुशान्ताय सुमुखाय सुवर्चसे । सुदुर्जयाय सूक्ष्माय सुमनःप्रियबन्धवे ॥
Verse
सुरारिवर्गसंहर्त्रे हर्यृक्षाधीश्वराय ते । भूतप्रेतादिसंहर्त्रे भूतावेशकराय ते ॥
Verse
नमो भूतनिषेवाय भूताधिपतये नमः । नमो ग्रहस्वरूपाय ग्रहाधिपतये नमः ॥
Verse
नमो ग्रहनिवाराय उग्राय चोग्रवर्चसे । ब्रह्मतन्त्रस्वतन्त्राय शम्भुतन्त्रस्वतन्त्रिणे ॥
Verse
हरितन्त्रस्वतन्त्राय तुभ्यं हनुमते नमः । अष्टोत्तरशतं सङ्ख्या हनुमन्नाममूर्तयः ॥
Verse
पुरतः परतो व्यापी मम पातु महाबलः । शान्तिरस्तु शिवं चास्तु सत्यास्सन्तु मनोरथाः ॥
Verse
रक्षा भवतु योनी वा विविधे वरदेहिनाम् ।
Verse
अविघ्नो दुःखहानिश्च वाञ्छासिद्धिश्शुभोदयाः । प्रजासिद्धिश्च सामर्थ्यं मानोन्नतिरनामयम् ॥
Verse
इति श्रीहनुमदष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ॥
