aSTottaranAma
hanumadaṣṭottaraśatanāmastotram
हनुमदष्टोत्तरशतनामस्तोत्रम्
Verse
ॐ रामदूतो रामभृत्यो रामचित्तापहारकः । रामनामजपासक्तो रामकीर्तिप्रचारकः ॥१॥
Verse
रामालिङ्गनसौख्यज्ञो रामविक्रमहर्षितः । रामबाणप्रभावज्ञो रामसेवाधुरन्धरः ॥२॥
Verse
रामहृत्पद्ममार्तण्डो रामसङ्कल्पपूरकः । रामामोदितवाग्वृत्तिः रामसन्देशवाहकः ॥३॥
Verse
रामतारकगुह्यज्ञो रामाह्लादनपण्डितः । रामभूपालसचिवो रामधर्मप्रवर्तकः ॥४॥
Verse
रामानुजप्राणदाता रामभक्तिलतासुमम् । रामचन्द्रजयाशंसी रामधैर्यप्रवर्धकः ॥५॥
Verse
रामप्रभावतत्त्वज्ञो रामपूजनतत्परः । राममान्यो रामहृद्यो रामकृत्यपरायणः ॥६॥
Verse
रामसौलभ्यसंवेत्ता रामानुग्रहसाधकः । रामार्पितवचश्चित्तदेहवृत्तिप्रवर्त्तितः ॥७॥
Verse
रामसामुद्रिकाभिज्ञो रामपादाब्जषट्पदः । रामायणमहामालामध्याञ्चितमहामणिः ॥८॥
Verse
रामायणरसास्वादस्रवदश्रुपरिप्लुतः । रामकोदण्डटङ्कारसहकारिमहास्वनः ॥९॥
Verse
रामसायूज्यसाम्राज्यद्वारोद्घाटनकर्मकृत् । रामपादाब्जनिष्यन्दिमधुमाधुर्यलोलुपः ॥१०॥
Verse
रामकैङ्कर्यमात्रैकपुरुषार्थकृतादरः । रामायणमहाम्भोधिमथनोत्थसुधाघटः ॥११॥
Verse
रामाख्यकामधुग्दोग्धा रामवक्त्रेन्दुसागरः । रामचन्द्रकरस्पर्शद्रवच्छीतकरोपलः ॥
Verse
रामायणमहाकाव्यशुक्तिनिक्षिप्तमौक्तिकः । रामायणमहारण्यविहाररतकेसरी ॥१३॥
Verse
रामपत्न्येकपत्नीत्वसपत्नायितभक्तिमान् । रामेङ्गितरहस्यज्ञो राममन्त्रप्रयोगवित् ॥१४॥
Verse
रामविक्रमवर्षर्तुपूर्वभूनीलनीरदः । रामकारुण्यमार्त्तण्डप्रागुद्यदरुणायितः ॥१५॥
Verse
रामराज्याभिषेकाम्बुपवित्रीकृतमस्तकः । रामविश्लेषदावाग्निशमनोद्यतनीरदः ॥१६॥
Verse
रामायणवियद्गङ्गाकल्लोलायितकीर्तिमान् । रामप्रपन्नवात्सल्यव्रततात्पर्यकोविदः ॥१७॥
Verse
रामाख्यानसमाश्वस्तसीतामानससंशयः । रामसुग्रीवमैत्र्याख्यहव्यवाहेन्धनायितः ॥१८॥
Verse
रामाङ्गुलीयमाहात्म्यसमेधितपराक्रमः । रामार्त्तिध्वंसनचणचूडामणिलसत्करः ॥१९॥
Verse
रामनाममधुस्यन्दद्वदनाम्बुजशोभितः । रामनामप्रभावेण गोष्पदीकृतवारिधिः ॥२०॥
Verse
रामौदार्यप्रदीपार्चिर्वर्धकस्नेहविग्रहः । रामश्रीमुखजीमूतवर्षणोन्मुखचातकः ॥२१॥
Verse
रामभक्त्येकसुलभब्रह्मचर्यव्रते स्थितः । रामलक्ष्मणसंवाहकृतार्थीकृतदोर्युगः ॥२२॥
Verse
रामलक्ष्मणसीताख्यत्रयीराजितहृद्गुहः । रामरावणसङ्ग्रामवीक्षणोत्फुल्लविग्रहः ॥२३॥
Verse
रामानुजेन्द्रजिद्युद्धलब्धव्रणकिणाङ्कितः । रामब्रह्मानुसन्धानविधिदीक्षाप्रदायकः ॥२४॥
Verse
रामरावणसङ्ग्राममहाध्वरविधानकृत् । रामनाममहारत्ननिक्षेपमणिपेटकः ॥२५॥
Verse
रामताराधिपज्योत्स्नापानोन्मत्तचकोरकः । रामायणाख्यसौवर्णपञ्जरस्थितशारिकः ॥२६॥
Verse
रामवृत्तान्तविध्वस्तसीताहृदयशल्यकः । रामसन्देशवर्षाम्बुवहन्नीलपयोधरः ॥२७॥
Verse
रामराकाहिमकरज्योत्स्नाधवलविग्रहः । रामसेवामहायज्ञदीक्षितो रामजीवनः ॥२८॥
Verse
रामप्राणो रामवित्तं रामायत्तकलेवरः । रामशोकाशोकवनभञ्जनोद्यत्प्रभञ्जनः ॥२९॥
Verse
रामप्रीतिवसन्तर्तुसूचकायितकोकिलः । रामकार्यार्थोपरोधदूरोत्सारणलम्पटः ॥३०॥
Verse
रामायणसरोजस्थहंसो रामहिते रतः । रामानुजक्रोधवह्निदग्धसुग्रीवरक्षकः ॥३१॥
Verse
रामसौहार्दकल्पद्रुसुमोद्गमनदोहदः । रामेषुगतिसंवेत्ता रामजैत्ररथध्वजः ॥३२॥
Verse
रामब्रह्मनिदिध्यासनिरतो रामवल्लभः । रामसीताख्ययुगलयोजको राममानितः ॥३३॥
Verse
रामसेनाग्रणी रामकीर्तिघोषणडिण्डिमः । रामेतिद्व्यक्षराकारकवचावृतविग्रहः ॥
Verse
रामायणमहावृक्षफलासक्तकपीश्वरः । रामपादाश्रयान्वेषिविभीषणविचारवित् ॥३५॥
Verse
राममाहात्म्यसर्वस्वं रामसद्गुणगायकः । रामजायाविषादाग्निनिर्दग्धरिपुसैनिकः ॥३६॥
Verse
रामकल्पद्रुमूलस्थो रामजीमूतवैद्युतः । रामन्यस्तसमस्ताशो रामविश्वासभाजनम् ॥३७॥
Verse
रामप्रभावरचितशैत्यवालाग्निशोभितः । रामभद्राश्रयोपात्तधीरोदात्तगुणाकरः ॥३८॥
Verse
रामदक्षिणहस्ताब्जमुकुटोद्भासिमस्तकः ।
Verse
रामश्रीवदनोद्भासिस्मितोत्पुलकमूर्तिमान् । रामब्रह्मानुभूत्याप्तपूर्णानन्दनिमज्जितः ॥३९॥
Verse
इतीदं रामदूतस्य वायुसूनोर्महात्मनः । रामनामाङ्कितं नाममष्टोत्तरशतं शुभम् ॥४०॥
Verse
प्रसादादाञ्जनेयस्य देशिकानुग्रहेण च । रचितं स्वामिनाथेन कार्यकारेण भक्तितः ॥४१॥
Verse
भूयादभीष्टफलदं श्रद्धया पठतां नृणाम् । इहलोके परत्रापि रामसायूज्यदायकम् ॥४२॥
