Preparing Your Space .

Settling the page into your current context.

GyanDweepBeta
HomeLearnLibrary
eGurukulsDiscoverTemplesPanchanga
Sign Up
Sign Up

stotrasangraha

veṅkaṭeśa-aṣṭakam

वेङ्कटेश-अष्टकम्

Verse

वेङ्कटेशो वासुदेवः प्रद्युम्नोऽमितविक्रमः । सङ्कर्षणोऽनिरुद्धश्च शेषाद्रिपतिरेव च ॥१॥

Verse

जनार्दनः पद्मनाभो वेङ्कटाचलवासनः । सृष्टिकर्ता जगन्नाथो माधवो भक्तवत्सलः ॥२॥

Verse

गोविन्दो गोपतिः कृष्णः केशवो गरुडध्वजः । वराहो वामनश्चैव नारायण अधोक्षजः ॥३॥

Verse

श्रीधरः पुण्डरीकाक्षः सर्वदेवस्तुतो हरिः । श्रीनृसिंहो महासिंहः सूत्राकारः पुरातनः ॥४॥

Verse

रमानाथो महीभर्ता भूधरः पुरुषोत्तमः । चोळपुत्रप्रियः शान्तो ब्रह्मादीनां वरप्रदः ॥५॥

Verse

श्रीनिधिः सर्वभूतानां भयकृद् भयनाशनः । श्रीरामो रामभद्रश्च भवबन्धैकमोचकः ॥६॥

Verse

भूतावासो गिरिवासः श्रीनिवासः श्रियः पतिः । अच्युतानन्त गोविन्दो विष्णुर्वेङ्कटनायकः ॥७॥

Verse

सर्वदेवैकशरणं सर्वदेवैकदैवतम् । समस्तदेवकवचं सर्वदेवशिखामणिः ॥८॥

Verse

इतीदं कीर्तितं यस्य विष्णोरमिततेजसः । त्रिकाले यः पठेन्नित्यं पापं तस्य न विद्यते ॥९॥

Verse

राजद्वारे पठेद् घोरे सङ्ग्रामे रिपुसङ्कटे । भूतसर्पपिशाचादिभयं नास्ति कदाचन ॥१०॥

Verse

अपुत्रो लभते पुत्रान् निर्धनो धनवान् भवेत् । रोगार्तो मुच्यते रोगाद् बद्धो मुच्येत बन्धनात् ॥११॥

Verse

यद्यदिष्टतमं लोके तत् तत् प्राप्नोत्यसंशयः । ऐश्वर्यं राजसम्मानं भुक्तिमुक्तिफलप्रदम् ॥१२॥

Verse

विष्णोर्लोकैकसोपानं सर्वदुःखैकनाशनम् । सर्वैश्वर्यप्रदं नॄणां सर्वमङ्गलकारकम् ॥१३॥

Verse

मायावी परमानन्दं त्यक्त्वा वैकुण्ठमुत्तमम् । स्वामिपुष्करिणीतीरे रमया सह मोदते ॥१४॥

Verse

कल्याणाद्भुतगात्राय कामितार्थप्रदायिने । श्रीमद्वेङ्कटनाथाय श्रीनिवासाय मङ्गलम् ॥१५॥

Verse

॥इति श्री-ब्रह्माण्डपुराणे ब्रह्मनारदसंवादे वेङ्कटगिरिमाहात्म्ये श्री-वेङ्कटेश-अष्टकं सम्पूर्णम्॥

veṅkaṭeśa karāvalambastotram
veṅkaṭeśadvādaśanāmastotram

Read next

More on वेङ्कटेश-अष्टकम्

  • वेङ्कटेशाष्टकम् १Ashtakam
  • श्री वेङ्कटेश मङ्गलाष्टकम्Ashtakam
  • वेङ्कटेशाष्टकम् २Ashtakam
  • जम्बुनाथाष्टकम् (श्रीधरवेङ्कटेशाचार्यकृतम्)Ashtakam
  • श्री वेङ्कटेशाष्टोत्तरशतनामस्तोत्रम्Ashtottaranama
  • श्रीवेङ्कटेश्वराष्टोत्तरशतनामस्तोत्रम्Ashtottaranama

सा विद्या या विमुक्तये

Built with Sankalpa at Gyaandweep

Gyaandweep

© 2022-2026 Granthajyoti Pvt Ltd.

Privacy & Terms