stotrasangraha
veṅkaṭeśadvādaśanāmastotram
वेङ्कटेशद्वादशनामस्तोत्रम्
Verse
वेङ्कटेशो वासुदेवो वारिजासनवन्दितः । स्वामिपुष्करिणीवासः शङ्खचक्रगदाधरः ॥१॥
Verse
पीताम्बरधरो देवो गरुडारूढशोभितः । विश्वात्मा विश्वलोकेशो विजयो वेङ्कटेश्वरः ॥२॥
Verse
एतद् द्वादशनामानि त्रिसन्ध्यं यः पठेन्नरः । सर्वपापविनिर्मुक्तो विष्णोः सायुज्यमाप्नुयात् ॥३॥
Verse
॥इति श्री-वेङ्कटेशद्वादशनामस्तोत्रं सम्पूर्णम्॥
