Fetching Data .

Loading verse structure and chapter context.

GyanDweepBeta
HomeLearnLibrary
eGurukulsDiscoverTemplesPanchanga
Sign Up
Sign Up

aSTottaranAma

śrīveṅkaṭeśvarāṣṭottaraśatanāmastotram

श्रीवेङ्कटेश्वराष्टोत्तरशतनामस्तोत्रम्

Verse

श्री वेङ्कटेशः श्रीनिवासो लक्ष्मीपतिरनामयः अमृतांशो जगद्वन्द्योगोविन्दश्शाश्वतः प्रभुं शेषाद्रि निलयो देवः केशवो मधुसूदनः । अमृतोमाधवः कृष्णं श्रीहरिर्ज्ञानपञ्जर ॥१॥

Verse

श्री वत्सवक्षसर्वेशो गोपालः पुरुषोत्तमः । गोपीश्वरः परञ्ज्योतिर्वैकुण्ठ पतिरव्ययः ॥२॥

Verse

सुधातनर्यादवेन्द्रो नित्ययौवनरूपवान् । चतुर्वेदात्मको विष्णु रच्युतः पद्मिनीप्रियः ॥३॥

Verse

धरापतिस्सुरपतिर्निर्मलो देवपूजितः । चतुर्भुज श्चक्रधर स्त्रिधामा त्रिगुणाश्रयः ॥४॥

Verse

निर्विकल्पो निष्कळङ्को निरान्तको निरञ्जनः । निराभासो नित्यतृप्तो निर्गुणोनिरुपद्रवः ॥५॥

Verse

गदाधर शार्ङ्गपाणिर्नन्दकी शङ्खधारकः । अनेकमूर्तिरव्यक्तः कटिहस्तो वरप्रदः ॥६॥

Verse

अनेकात्मा दीनबन्धुरार्तलोकाभयप्रदः । आकाशराजवरदो योगिहृत्पद्म मन्दिरः ॥७॥

Verse

दामोदरो जगत्पालः पापघ्नोभक्तवत्सलः । त्रिविक्रमशिंशुमारो जटामकुटशोभितः ॥८॥

Verse

शङ्खमध्योल्लसन्मञ्जूकिङ्किण्याध्यकरन्दकः । नीलमेघश्यामतनुर्बिल्वपत्रार्चन प्रियः ॥९॥

Verse

जगद्व्यापी जगत्कर्ता जगत्साक्षी जगत्पतिः । चिन्तितार्थप्रदो जिष्णुर्दाशरथे दशरूपवान् ॥१०॥

Verse

देवकीनन्दन शौरि हयग्रीवो जनार्धनः । कन्याश्रवणतारेज्य पीताम्बरोनघः ॥११॥

Verse

वनमालीपद्मनाभ मृगयासक्त मानसः । अश्वारूढं खड्गधारीधनार्जन समुत्सुकः ॥१२॥

Verse

घनसारसन्मध्यकस्तूरीतिलकोज्ज्वलः । सच्चिदानन्दरूपश्च जगन्मङ्गळदायकः ॥१३॥

Verse

यज्ञरूपो यज्ञभोक्ता चिन्मयः परमेश्वरः । परमार्थप्रद श्शान्तश्श्रीमान् दोर्धण्ड विक्रमः ॥१४॥

Verse

परात्परः परब्रह्मा श्रीविभुर्जगदीश्वरः । एवं श्री वेङ्कटेशस्यनाम्नां अष्टोत्तरं शतम् ॥१५॥

Verse

पठ्यतां शृण्वतां भक्त्या सर्वाभीष्ट प्रदं शुभम् । ॥ इति श्री ब्रह्माण्ड पुराणानान्तर्गत श्री वेङ्कटेश्वराष्टोत्तरशतनाम स्तोत्रं समाप्तम् ॥

śrīviṣṇoraṣṭottaraśatadivyasthānīyanāmastotram
śrīvedavyāsāṣṭottaranāmastotram

सा विद्या या विमुक्तये

Built with Sankalpa at Gyaandweep

Gyaandweep

© 2022-2026 Granthajyoti Pvt Ltd.

Privacy & Terms