aSTottaranAma
śrīviṣṇoraṣṭottaraśatadivyasthānīyanāmastotram
श्रीविष्णोरष्टोत्तरशतदिव्यस्थानीयनामस्तोत्रम्
Verse
अष्टोत्तरशतस्थानेष्वाविर्भूतं जगत्पतिम् । नमामि जगतामीशं नारायणमनन्यधीः ॥१॥
Verse
श्रीवैकुण्ठे वासुदेवमामोदे कर्षणाह्वयम् । प्रद्युम्नं च प्रमोदाख्ये सम्मोदे चानिरुद्धकम् ॥२॥
Verse
सत्यलोके तथा विष्णुं पद्माक्षं सूर्यमण्डले । क्षीराब्धौ शेषशयनं श्वेतद्वीपेतु तारकम् ॥३॥
Verse
नारायणं बदर्याख्ये नैमिषे हरिमव्ययम् । शालग्रामं हरिक्षेत्रे अयोध्यायां रघूत्तमम् ॥४॥
Verse
मथुरायां बालकृष्णं मायायां मधुसूदनम् । काश्यां तु भोगशयनमवन्त्यामवनीपतिम् ॥५॥
Verse
द्वारवत्यां यादवेन्द्रं व्रजे गोपीजनप्रियम् । वृन्दावने नन्दसूनुं गोविन्दं कालियह्रदे ॥६॥
Verse
गोवर्धने गोपवेषं भवघ्नं भक्तवत्सलम् । गोमन्तपर्वते शौरिं हरिद्वारे जगत्पतिम् ॥७॥
Verse
प्रयागे माधवं चैव गयायां तु गदाधरम् । गङ्गासागरगे विष्णुं चित्रकूटे तु राघवम् ॥८॥
Verse
नन्दिग्रामे राक्षसघ्नं प्रभासे विश्वरूपिणम् । श्रीकूर्मे कूर्ममचलं नीलाद्रौ पुरुषोत्तमम् ॥९॥
Verse
सिंहाचले महासिंहं गदिनं तुलसीवने । घृतशैले पापहरं श्वेताद्रौ सिंहरूपिणम् ॥१०॥
Verse
योगानन्दं धर्मपुर्यां काकुले त्वान्ध्रनायकम् । अहोबिले गारुडाद्रौ हिरण्यासुरमर्दनम् ॥११॥
Verse
विट्ठलं पाण्डुरङ्गे तु वेङ्कटाद्रौ रमासखम् । नारायणं यादवाद्रौ नृसिंहं घटिकाचले ॥१२॥
Verse
वरदं वारणगिरौ काञ्च्यां कमललोचनम् । यथोक्तकारिणं चैव परमेशपुराश्रयम् ॥१३॥
Verse
पाण्डवानां तथा दूतं त्रिविक्रममथोन्नतम् । कामासिक्यां नृसिंहं च तथाष्टभुजसज्ञकम् ॥१४॥
Verse
मेघाकारं शुभाकारं शेषाकारं तु शोभनम् । अन्तरा शितिकण्ठस्य कामकोट्यां शुभप्रदम् ॥१५॥
Verse
कालमेघं खगारूढं कोटिसूर्यसमप्रभम् । दिव्यं दीपप्रकाशं च देवानामधिपं मुने ॥१६॥
Verse
प्रवालवर्णं दीपाभं काञ्च्यामष्टादशस्थितम् । श्रीगृध्रसरसस्तीरे भान्तं विजयराघवम् ॥१७॥
Verse
वीक्षारण्ये महापुण्ये शयानं वीरराघवम् । तोताद्रौ तुङ्गशयनं गजार्तिघ्नं गजस्थले ॥१८॥
Verse
महाबलं बलिपुरे भक्तिसारे जगत्पतिम् । महावराहं श्रीमुष्णे महीन्द्रे पद्मलोचनम् ॥१९॥
Verse
श्रीरङ्गे तु जगन्नाथं श्रीधामे जानकीप्रियम् । सारक्षेत्रे सारनाथं खण्डने हरचापहम् ॥२०॥
Verse
श्रीनिवासस्थले पूर्णं सुवर्णं स्वर्णमन्दिरे । व्याघ्रपुर्यां महाविष्णुं भक्तिस्थाने तु भक्तिदम् ॥२१॥
Verse
श्वेतह्रदे शान्तमूर्तिमग्निपुर्यां सुरप्रियम् । भर्गाख्यं भार्गवस्थाने वैकुण्ठाख्ये तु माधवम् ॥२२॥
Verse
पुरुषोत्तमे भक्तसखं चक्रतीर्थे सुदर्शनम् । कुम्भकोणे चक्रपाणिं भूतस्थाने तु शार्ङ्गिणम् ॥२३॥
Verse
कपिस्थले गजार्तिघ्नं गोविन्दं चित्रकूटके । अनुत्तमं चोत्तमायां श्वेताद्रौ पद्मलोचनम् ॥२४॥
Verse
पार्थस्थले परब्रह्म कृष्णाकोट्यां मधुद्विषम् । नन्दपुर्यां महानन्दं वृद्धपुर्यां वृषाश्रयम् ॥२५॥
Verse
असङ्गं सङ्गमग्रामे शरण्ये शरणं महत् । दक्षिणद्वारकायां तु गोपालं जगतां पतिम् ॥२६॥
Verse
सिंहक्षेत्रे महासिंहं मल्लारिं मणिमण्डपे । निबिडे निबिडाकारं धानुष्के जगदीश्वरम् ॥२७॥
Verse
मौहूरे कालमेघं तु मधुरायां तु सुन्दरम् । वृषभाद्रौ महापुण्ये परमस्वामिसज्ञकम् ॥२८॥
Verse
श्रीमद्वरगुणे नाथं कुरुकायां रमासखम् । गोष्ठीपुरे गोष्ठपतिं शयानं दर्भसंस्तरे ॥२९॥
Verse
धन्विमङ्गलके शौरिं बलाढ्यं भ्रमरस्थले । कुरङ्गे तु तथा पूर्णं कृष्णामेकं वटस्थले ॥३०॥
Verse
अच्युतं क्षुद्रनद्यां तु पद्मनाभमनन्तके । एतानि विष्णोः स्थानानि पूजितानि महात्मभिः ॥३१॥
Verse
अधिष्ठितानि देवेश तत्रासीनं च माधवम् । यः स्मरेत्सततं भक्त्या चेतसानन्यगामिना ॥३२॥
Verse
स विधूयातिसंसारबन्धं याति हरेः पदम् । अष्टोत्तरशतं विष्णोः स्थानानि पठता स्वयम् ॥३३॥
Verse
अधीताः सकला वेदाः कृताश्च विविधा मखाः । सम्पादिता तथा मुक्तिः परमानन्ददायिनी ॥३४॥
Verse
अवगाढानि तीर्थानि ज्ञातः स भगवान् हरिः ।
Verse
आद्यमेतत्स्वयं व्यक्तं विमानं रङ्गसज्ञकम् । श्रीमुष्णं वेङ्कटाद्रिं च शालग्रामं च नैमिषम् ॥३५॥
Verse
तोताद्रिं पुष्करं चैव नरनारायणाश्रमम् । अष्टौ मे मूर्तयः सन्ति स्वयं व्यक्ता महीतले ॥३६॥
Verse
॥ इति श्रीविष्णोरष्टोत्तरशतदिव्यस्थानीयनामस्तोत्रं सम्पूर्णम् ॥
