Fetching Data .

Loading verse structure and chapter context.

GyanDweepBeta
HomeLearnLibrary
eGurukulsDiscoverTemplesPanchanga
Sign Up
Sign Up

aSTottaranAma

śrīvedavyāsāṣṭottaranāmastotram

श्रीवेदव्यासाष्टोत्तरनामस्तोत्रम्

Verse

यं वेदशास्त्रपरिनिष्ठितशुद्धबुद्धिं चर्माम्बरं सुरमुनीन्द्रनुतं प्रसन्नम् । कृष्णत्विषं कनकपिङ्गजटाकलापं व्यासं नमामि शिरसा तिलकं मुनीनाम् ॥

Verse

अविद्यातिमिरादित्यं ब्रह्मविद्याविशारदम् । शारदाशङ्करात्मानं भारतीतीर्थमाश्रये ॥

Verse

ॐ वेदव्यासो विष्णुरूपः पाराशर्यस्तपोनिधिः । सत्यसन्धः प्रशान्तात्मा वाग्मी सत्यवतीसुतः ॥१ ॥

Verse

कृष्णद्वैपायनो दान्तो बादरायणसंज्ञितः । ब्रह्मसूत्रग्रथितवान् भगवाञ्ज्ञानभास्करः ॥२ ॥

Verse

सर्ववेदान्ततत्त्वज्ञः सर्वज्ञो वेदमूर्तिमान् । वेदशाखाव्यसनकृत्कृतकृत्यो महामुनिः ॥३ ॥

Verse

महाबुद्धिर्महासिद्धिर्महाशक्तिर्महाद्युतिः । महाकर्मा महाधर्मा महाभारतकल्पकः ॥४ ॥

Verse

महापुराणकृज्ज्ञानी ज्ञानविज्ञानभाजनम् । चिरञ्जीवी चिदाकारश्चित्तदोषविनाशकः ॥५ ॥

Verse

वासिष्ठः शक्तिपौत्रश्च शुकदेवगुरुर्गुरुः । आषाढपूर्णिमापूज्यः पूर्णचन्द्रनिभानः ॥६ ॥

Verse

विश्वनाथस्तुतिकरो विश्ववन्द्यो जगद्गुरुः । जितेन्द्रियो जितक्रोधो वैराग्यनिरतः शुचिः ॥७ ॥

Verse

जैमिन्यादिसदाचार्यः सदाचारसदास्थितः । स्थितप्रज्ञः स्थिरमतिः समाधिसंस्थिताशयः ॥८ ॥

Verse

प्रशान्तिदः प्रसन्नात्मा शङ्करार्यप्रसादकृत् । नारायणात्मकः स्तव्यः सर्वलोकहिते रतः ॥९ ॥

Verse

अचतुर्वदनब्रह्मा द्विभुजापरकेशवः । अभाललोचनशिवः परब्रह्मस्वरूपकः ॥१० ॥

Verse

ब्रह्मण्यो ब्राह्मणो ब्रह्मी ब्रह्मविद्याविशारदः । ब्रह्मात्मैकत्वविज्ञाता ब्रह्मभूतः सुखात्मकः ॥११ ॥

Verse

वेदाब्जभास्करो विद्वान् वेदवेदान्तपारगः । अपान्तरतमोनामा वेदाचार्यो विचारवान् ॥१२ ॥

Verse

अज्ञानसुप्तिबुद्धात्मा प्रसुप्तानां प्रबोधकः । अप्रमत्तोऽप्रमेयात्मा मौनी ब्रह्मपदे रतः ॥१३ ॥

Verse

पूतात्मा सर्वभूतात्मा भूतिमान्भूमिपावनः । भूतभव्यभवज्ञाता भूमसंस्थितमानसः ॥१४ ॥

Verse

उत्फुल्लपुण्डरीकाक्षः पुण्डरीकाक्षविग्रहः । नवग्रहस्तुतिकरः परिग्रहवर्जितः ॥१५ ॥

Verse

एकान्तवाससुप्रीतः शमादिनिलयो मुनिः । एकदन्तस्वरूपेण लिपिकारी बृहस्पतिः ॥१६ ॥

Verse

भस्मरेखाविलिप्ताङ्गो रुद्राक्षावलिभूषितः । ज्ञानमुद्रालसत्पाणिः स्मितवक्त्रो जटाधरः ॥१७ ॥

Verse

गभीरात्मा सुधीरात्मा स्वात्मारामो रमापतिः । महात्मा करुणासिन्धुरनिर्देश्यः स्वराजितः ॥१८ ॥

Verse

इति श्रीयोगानन्दसरस्वतीविरचितं श्रीवेदव्यासाष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ॥

śrīveṅkaṭeśvarāṣṭottaraśatanāmastotram
śrīmadvedāntadeśikāṣṭottaraśatanāmastotram

सा विद्या या विमुक्तये

Built with Sankalpa at Gyaandweep

Gyaandweep

© 2022-2026 Granthajyoti Pvt Ltd.

Privacy & Terms