Fetching Data .

Loading verse structure and chapter context.

GyanDweepBeta
HomeLearnLibrary
eGurukulsDiscoverTemplesPanchanga
Sign Up
Sign Up

aSTottaranAma

śrīmadvedāntadeśikāṣṭottaraśatanāmastotram

श्रीमद्वेदान्तदेशिकाष्टोत्तरशतनामस्तोत्रम्

Verse

श्रीः ।

Verse

अथ श्रीमद्वेदान्तदेशिकाष्टोत्तरशतनामस्तोत्रम् ।

Verse

निगमान्तगुरोर्नाम्नां प्रभावो येन वर्णितः । तं वेङ्कटार्यमनिशं तातार्यतनयं भजे ॥

Verse

विदुषा वेङ्कटार्येण तातार्यतनुजन्मना । वेदान्तार्यगुरोर्नाम्नां प्रभावो वर्ण्यतेतराम् ॥

Verse

सुदर्शनकृपालब्ध वेदतत्त्वार्थसागरम् । अनुष्ठितः क्रतुशतं वन्देऽस्मत्पितरं गुरुम् ॥१॥

Verse

कुमारतातयाचार्य सदाचारपरं सदा । वेदान्ताचार्यसिद्धान्तविजयध्वजमाश्रये ॥२॥

Verse

साङ्ख्यसौगतचार्वाकशाङ्करादितमोनुदम् । त्रय्यन्तदेशिकं वन्दे वेङ्कटेशाह्वयं महः ॥३॥

Verse

श्रीमद्वेङ्कटनाथस्य नाम्नामष्टोत्तरं शतम् । सङ्गृह्य तत्प्रसादाय वक्ष्ये सर्वार्थसिद्धिदम् ॥४॥

Verse

अथ स्तोत्रम् ।

Verse

ॐ घण्टावतारोऽनन्तार्यतनयो वेङ्कटाधिपः । श्रीमल्लक्ष्मणयोग्यंशो वरदाचार्यवीक्षितः ॥५॥

Verse

रामानुजार्यसन्दृष्टस्सौपर्णमनुचिन्तकः । तार्क्ष्यदत्तवरश्शुद्धः प्रसादितहयाननः ॥६॥

Verse

अधीतसाङ्गसकलश्रुतिस्मृतिविदग्रणीः । इतिहासपुराणज्ञस्सुकविस्तर्कतत्त्ववित् ॥७॥

Verse

भाष्यकारो भयहरस्सुधाशीदुग्धराशिकृत् । प्रधानप्रतितन्त्रज्ञो देवतापारमार्थ्यवित् ॥८॥

Verse

श्रुतविद्यश्श्रावयिता श्रुतपालश्श्रुतप्रदः । श्रितः पाण्डित्यदाता च कृतकृत्यः कृती सुधीः ॥९॥

Verse

निरस्तसाङ्ख्यः प्रत्युक्तयोगः काणादभञ्जनः अचिच्चैतन्यवादघ्नः क्षणिकाणुमतार्दनः ॥१०॥

Verse

साकारधी निराकर्ता शून्यवादतमोनुदः । कुदृष्ट्युरगपक्षीशः सप्तभङ्गीविलोपनः ॥११॥

Verse

भेदाभेदमतछेत्ता धूतयादवकल्पनः । अनीशवादिदम्भोलिः पाषण्डमतखण्डनः ॥१२॥

Verse

संरक्षितागमश्शङ्खचक्रधारणरक्षिता । ऊर्ध्वपुण्ड्राङ्कनत्राता शुद्धसत्त्वमयाकृतिः ॥१३॥

Verse

यत्याचारप्रतिष्ठाता सर्वतन्त्रस्वतन्त्रधीः । अवतार रहस्यज्ञस्त्वर्चासौन्दर्यसक्तधीः ॥१४॥

Verse

अर्थपञ्चक तत्त्वज्ञः तत्त्वत्रयविशेषवित् । भक्तियोग विरोधिघ्नो भक्तिमान् भगवत्प्रियः ॥१५॥

Verse

ज्ञानैकसारो द्वयविद्विभक्ताधिकृतित्रयः । चतुश्श्लोक्यर्थ सारज्ञः सम्यग्ज्ञाताङ्गपञ्चकः ॥१६॥

Verse

षडङ्गयोग निर्णेता सप्ततन्तुकृदुत्तमः । अष्टाक्षरैकनिरतो नवमैकरसाश्रयः ॥१७॥

Verse

दशतात्पर्यविज्ञाता शतकृच्च सहस्रवित् स्थूललक्षोऽनेकनानाकोटिज्ञाननिवर्तकः ॥१८॥

Verse

धर्मशङ्कुस्साधुबृन्दवन्दिताङ्घ्रिसरोरुहः । पद्माक्षानन्दजनकस्तथाऽनन्तगुणाकरः ॥१९॥

Verse

त्यागशब्दार्थविद्धर्मवेदी विधिविशेषवित् । उत्तमश्लोकभावज्ञः पञ्चकालपरायणः ॥२०॥

Verse

सुरसेव्यः पूर्णमनास्सूरीन्द्रप्रतिरूपकः । कवितार्किकपञ्चास्यो निगमाञ्चलदेशिकः ॥२१॥

Verse

वैद्यो मुनीन्द्रस्सर्वज्ञः उपकर्ता तथैव च । सत्सम्प्रदायस्थिरधीरनघस्सत्यवागपि ॥२२॥

Verse

साधुवृत्तिर्मुक्तडम्भो जिताक्षो दीर्घबन्धुमान् । दयालुश्शासिता सर्वहिताचरणतत्परः ॥२३॥

Verse

महागुरुस्स्वर्णवर्णस्सुबाहुः पुण्डरीकदृक् । पवित्रपाणिर्व्याख्यानमुद्राङ्कितकराम्बुजः ॥२४॥

Verse

सव्यपाणितलन्यस्तदिव्यपुस्तकभूषणः । परशीर्षन्यस्तवामपादाब्जकटकोज्ज्वलः ॥२५॥

Verse

फलश्रुतिः - इतीदं देशिकेन्द्रस्य नाम्नामष्टोत्तरं शतम् । सङ्कीर्तयेदनुदिनं सर्वपापापनुत्तये ॥२६॥

Verse

पठन्नामशतं भक्त्या श्रुत्वा गुरुमुखाम्बुजात् । प्रसादाद्देशिकेन्द्रस्य भुक्तिमुक्ति समश्नुते ॥२७॥

Verse

एकैकमपि तन्नाम कीर्तयन् सकृदुत्तमम् । सर्वान्कामानवाप्नोति किमुताष्टोत्तरं शतम् ॥२८॥

Verse

इति श्रीमद्वेदान्तदेशिकाष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ।

śrīvedavyāsāṣṭottaranāmastotram
vyāsāṣṭottaraśatanāmastotram

सा विद्या या विमुक्तये

Built with Sankalpa at Gyaandweep

Gyaandweep

© 2022-2026 Granthajyoti Pvt Ltd.

Privacy & Terms