Fetching Data .

Loading verse structure and chapter context.

GyanDweepBeta
HomeLearnLibrary
eGurukulsDiscoverTemplesPanchanga
Sign Up
Sign Up

aSTottaranAma

śrī veṅkaṭeśāṣṭottaraśatanāmastotram

श्री वेङ्कटेशाष्टोत्तरशतनामस्तोत्रम्

Verse

ओंकारपरमार्थश्चनरनारायणात्मकः मोक्षलक्ष्मीप्राणकान्तश्च वेङ्कटाचलनायकः ॥१-४॥

Verse

करुणापूर्णहृदयः टेङ्कारजपसौख्यदः शास्त्रप्रमाणगम्यश्च यमाद्यष्टांगगोचरः ॥५-८॥

Verse

भक्तलोकैकवरदः वरेण्यो भयनाशनः यजमानस्वरूपश्च हस्तन्यस्तसुदर्शनः ॥९-१३॥

Verse

रामावताररंगेशः णाकारजपसुप्रियः यज्ञेशो गतिदाता च जगतीवल्लभो वरः ॥१४-१९॥

Verse

रक्षस्सन्दोहसंहर्ता वर्चस्वी रघुपुङ्गवः दानधर्मपरो याजी घनश्यामलविग्रहः ॥२०-२५॥

Verse

हरादिसर्वदेवेड्यः रामो यदुकुलाग्रणी श्रीनिवासो महात्मा च तेजस्वी तत्त्वसन्निधिः ॥२६-३२॥

Verse

त्वमर्थलक्ष्यरूपश्च रूपवान् पावनो यशः सर्वेशो कमलाकान्तः लक्ष्मीसंलापसम्मुखः ॥३३-३९॥

Verse

चतुर्मुखप्रतिष्ठाता राजराजवरप्रदः चतुर्वेदशिरोरत्नो रमणो नित्यवैभवः ॥४०-४४॥

Verse

दासवर्गपरित्राता नारदादिमुनिस्तुतः यादवाचलवासी च खिद्यत्भक्तार्तिभञ्जनः ॥४५-४८॥

Verse

लक्ष्मीप्रसादको विष्णुः देवेशो रम्यविग्रहः माधवो लोकनाथश्च लालिताखिलसेवकः ॥४९-५५॥

Verse

यक्षगन्धर्ववरदः कुमारो मातृकार्चितः रटद्बालकपोषी च शेषशैलकृतस्थलः ॥५६-६०॥

Verse

षाड्गुण्यपरिपूर्णश्च द्वैतदोषनिवारणः तिर्यग्जन्त्वर्चितांघ्रिश्च नेत्रानन्दकरोत्सवः ॥६१-६४॥

Verse

द्वादशोत्तमलीलश्च दरिद्रजनरक्षकः शत्रुकृत्यादिभीतिघ्नो भुजंगशयनप्रियः ॥६५-६८॥

Verse

जाग्रद्रहस्यावासश्च शिष्टानांपरिपालकः वरेण्य: पूर्णबोधश्च जन्मसंसारभेषजः ॥६९-७४॥

Verse

कार्तिकेयवपुर्धारी यतिशेखरभावितः नरकादिभयध्वंसी रथोत्सवकलाधरः ॥७५-७८॥

Verse

लोकार्चामुख्यमूर्तिश्च केशवाद्यवतारवान् शास्त्रश्रुतानन्तलीलश्च यमशिक्षानिबर्हणः ॥७९-८२॥

Verse

मानसंरक्षणपरः इरिणाङ्कुरधान्यदः नेत्रहीनाक्षिदायी च मतिहीनमतिप्रदः ॥८३-८६॥

Verse

हिरण्यदानसंग्राही मोहजालनिकृन्तनः दधिलाजाक्षतार्च्यश्च यातुधानविनाशनः ॥८७-९०॥

Verse

यजुर्वेदशिखागम्यः वेङ्कटो दक्षिणास्थितः सारपुष्करणीतीरो रात्रौदेवगणार्चितः ॥९१-९५॥

Verse

यत्नवत्फलसंधाता श्रींजपाद्धनवृद्धिकृत् क्लींकारजापिकाम्यार्थप्रदो सदयान्तरः ॥९६-९९॥

Verse

स्वसर्वसिद्धिसंधाता नमस्कर्तुरभीष्टदः मोहिताखिललोकश्च नानारूपव्यवस्थितः ॥१००-१०३॥

Verse

राजीवलोचनो यज्ञवराहो गणवेङ्कटः तेजोराशीक्षणः स्वामी हार्दाविद्यानिवारणः ॥१०४-१०८॥

gauryaṣṭottaraśatanāmastotram
lalitāṣṭottaraśatanāmastotram

Read next

More on वेङ्कटेशाष्टोत्तरशतनामस्तोत्रम्

  • वेङ्कटेशाष्टोत्तरशतनामस्तोत्रम्Stotra

सा विद्या या विमुक्तये

Built with Sankalpa at Gyaandweep

Gyaandweep

© 2022-2026 Granthajyoti Pvt Ltd.

Privacy & Terms