stotrasangraha
veṅkaṭeśāṣṭottaraśatanāmastotram
वेङ्कटेशाष्टोत्तरशतनामस्तोत्रम्
Verse
भगवन् वेङ्कटेशस्य नाम्नामष्टोत्तरं शतम् । अनुब्रूहि दयासिन्धो क्षिप्रसिद्धिप्रदं नृणाम् ॥
Verse
सावधानेन मनसा शृण्वन्तु तदिदं शुभम् । जप्तं वैखानसैः पूर्वं सर्वसौभाग्यवर्धनम् ॥
Verse
ओङ्कारपरमार्थश्च नरनारायणात्मकः । मोक्षलक्ष्मीप्राणकान्तो वेङ्कटाचलनायकः ॥१॥
Verse
करुणापूर्णहृदयः टेङ्कारजपसौख्यदः । शास्त्रप्रमाणगम्यश्च यमाद्यष्टाङ्गगोचरः ॥२॥
Verse
भक्तलोकैकवरदो वरेण्यो भयनाशनः । यजमानस्वरूपश्च हस्तन्यस्तसुदर्शनः ॥३॥
Verse
रमावतारङ्गेशो णाकारजपसुप्रियः । यज्ञेशो गतिदाता च जगतीवल्लभो वरः ॥४॥
Verse
रक्षःसन्दोहसंहर्ता वर्चस्वी रघुपुङ्गवः । दानधर्मपरो याजी घनश्यामलविग्रहः ॥५॥
Verse
हरादिसर्वदेवेड्यो रामो यदुकुलाग्रणीः । श्रीनिवासो महात्मा च तेजस्वी तत्त्वसन्निधिः ॥६॥
Verse
त्वमर्थलक्ष्यरूपश्च रूपवान् पावनो यशः । सर्वेशो कमलाकान्तो लक्ष्मीसल्लापसम्मुखः ॥७॥
Verse
चतुर्मुखप्रतिष्ठाता राजराजवरप्रदः । चतुर्वेदशिरोरत्नं रमणो नित्यवैभवः ॥८॥
Verse
दासवर्गपरित्राता नारदादिमुनिस्तुतः । यादवाचलवासी च खिद्यद्भक्तार्तिभञ्जनः ॥९॥
Verse
लक्ष्मीप्रसादको विष्णुर्देवेशो रम्यविग्रहः । माधवो लोकनाथश्च लालिताखिलसेवकः ॥१०॥
Verse
यक्षगन्धर्ववरदः कुमारो मातृकार्चितः । रटद्बालकपोषी च शेषशैलकृतस्थलः ॥११॥
Verse
षाड्गुण्यपरिपूर्णश्च द्वैतदोषनिवारणः । तिर्यग्जन्त्वर्चिताङ्घ्रिश्च नेत्रानन्दकरोत्सवः ॥१२॥
Verse
द्वादशोत्तमलीलश्च दरिद्रजनरक्षकः । शत्रुकृत्यादिभीतिघ्नो भुजङ्गशयनप्रियः ॥१३॥
Verse
जाग्रद्रहस्यावासो यः शिष्टानां परिपालकः । वरेण्यः पूर्णबोधश्च जन्मसंसारभेषजम् ॥१४॥
Verse
कार्त्तिकेयवपुर्धारी यतिशेखरभावितः । नरकादिभयध्वंसी रथोत्सवकलाधरः ॥१५॥
Verse
लोकार्चामुख्यमूर्तिश्च केशवाद्यवतारवान् । शास्त्रश्रुतानन्तलीलो यमशिक्षानिबर्हणः ॥१६॥
Verse
मानसंरक्षणपर इरिणाङ्कुरधान्यदः । नेत्रहीनाक्षिदायी च मतिहीनमतिप्रदः ॥१७॥
Verse
हिरण्यदानसङ्ग्राही मोहजालनिकृन्तनः । दधिलाजाक्षतार्च्यश्च यातुधानविनाशनः ॥१८॥
Verse
यजुर्वेदशिखागम्यो वेङ्कटो दक्षिणास्थितः । सारपुष्करणीतीरो रात्रौदेवगणार्चितः ॥१९॥
Verse
यत्नवत्फलसन्धाता श्रीञ्जपाद्धनवृद्धिकृत् । क्लीङ्कारजापिकाम्यार्थप्रदानसदयान्तरः ॥२०॥
Verse
सौं सर्वसिद्धिसन्धाता नमस्कर्तुरभीष्टदः । मोहिताखिललोकश्च नानारूपव्यवस्थितः ॥२१॥
Verse
राजीवलोचनो यज्ञवराहो गणवेङ्कटः । तेजोराशीक्षणः स्वामी हार्दाविद्यानिवारणः ॥२२॥
Verse
इति श्रीवेङ्कटेशस्य नाम्नामष्टोत्तरं शतम् । प्रातः प्रातः समुत्थाय यः पठेद् भक्तिमान्नरः । सर्वेष्टार्थानवाप्नोति वेङ्कटेशप्रसादतः ॥
Verse
नामावल्याः प्रत्येकनाम्नः प्रथमाक्षर-संयोजनेन---ओं नमो वेङ्कटेशाय भवभयहरणाय गजवरवरदायाघहराय श्रीमते तत्त्वरूपाय सकलचराचरनिदानायाखिलविदे रमालोलाय कुमारशेषाद्वैतिने द्वादशभुजाय शिवपूजकाय नरलोकेशाय मायिने महिमोदयाय वेदसाराय श्रीं क्लीं सौं नमो नारायण ते स्वाहा---इति मन्त्रम् उपलभ्यते।
Verse
॥इति श्री-वेङ्कटेशाष्टोत्तरशतनामस्तोत्रं सम्पूर्णम्॥
