Fetching Data .

Loading verse structure and chapter context.

GyanDweepBeta
HomeLearnLibrary
eGurukulsDiscoverTemplesPanchanga
Sign Up
Sign Up

aSTakam

jambunāthāṣṭakam (śrīdharaveṅkaṭeśācāryakṛtam)

जम्बुनाथाष्टकम् (श्रीधरवेङ्कटेशाचार्यकृतम्)

Verse

कश्चन जगतां हेतुः कपर्दकन्दलितकुमुदजीवातुः । जयति ज्ञानमहीन्दुर्जन्ममृतिक्लान्तिहरदयाबिन्दुः ॥१॥

Verse

श्रितभृतिबद्धपताकः कलितोत्पलवननवमदोद्रेकः । अखिलाण्डमातुरेकः सुखयत्वस्मांस्तपःपरीपाकः॥

Verse

कश्चन कारुण्यजलः कमलाकुचकलशकषणनिशितशरः । श्रीमान् दमितत्रिपुरः श्रितजम्बूपरिसरश्चकास्तु पुरः ॥३॥

Verse

शमितस्मरदवविसरः शक्राद्याशास्यसेवनावसरः करिवनघनभाग्यभरो गिलतु मलं मम मनस्सरशफरः ॥४॥

Verse

गृहिणीकृतवैकुण्ठं जम्बूमहीरुहोपकण्ठं । दिव्यं किमप्यकुण्ठं तेजस्तदस्मदवनसोत्कण्ठम् ॥५॥

Verse

कृतशमनदर्पहरणं कृतकेतरफणिति चारु रथचरणम् । शक्रादि श्रितचरणं शरणं जम्बुद्रुमान्तिकाभरणम् ॥६॥

Verse

करुणारसपरिधये करवाणि नमः प्रणम्रसुरविधये । जगदानन्दनिधये जम्बूतरुमूलनिलयसन्निधये ॥७॥

Verse

कञ्चन शशिचूडालं कण्ठे कालं दयौघमुत्कूलम् । श्रित जम्बूतरुमूलं शिक्षितकालं भज जगन्मूलम् ॥८॥

Verse

(इति श्री श्रीधरवेङ्कटेशाचार्यकृत जम्बुनाथाष्टकम्)

śrīviṣṇvaṣṭakam
saurāṣṭakam

सा विद्या या विमुक्तये

Built with Sankalpa at Gyaandweep

Gyaandweep

© 2022-2026 Granthajyoti Pvt Ltd.

Privacy & Terms