Fetching Data .

Loading verse structure and chapter context.

GyanDweepBeta
HomeLearnLibrary
eGurukulsDiscoverTemplesPanchanga
Sign Up
Sign Up

aSTakam

śrīviṣṇvaṣṭakam

श्रीविष्ण्वष्टकम्

Verse

शतानीकः- ब्रह्मन्नपारे संसारे रागादिव्याप्तमानसः । शब्दादिलुब्धपुरुषः किं कुर्वन्नावसीदति ॥१॥

Verse

श्री शौनकः- स्वे महिम्नि स्थितं देवं अप्रमेयमजं विभुम् । शोकमोहविनिर्मुक्तं विष्णुं ध्यायन्न सीदति ॥२॥

Verse

प्रमाणमतिगं ब्रह्म वेदान्तेषु प्रकाशितम् । आद्यं पुरुषमीशानं विष्णुं ध्यायन्न सीदति ॥३॥

Verse

अमृतं साधनं साध्यं यं पश्यन्ति मनीषिणः । ज्ञेयाख्यं परमात्मानं विष्णुं ध्यायन्न सीदति ॥४॥

Verse

अशनाद्यैरसंस्पृष्टं सेवितं योगिभिस्सदा । सर्वदोषविनिर्मुक्तं विष्णुं ध्यायन्न सीदति ॥५॥

Verse

क्ष्रराक्षरविनिर्मुक्तं जन्ममृत्युविवर्जितम् । अभयं सत्यसङ्कल्पं विष्णुं ध्यायन्न सीदति ॥६॥

Verse

अतुल्यसखधर्माणं व्योमदेहं सनातनम् । धर्माधर्मविनिर्मुक्तं विष्णुं ध्यायन्न सीदति ॥७॥

Verse

व्यासाद्यैर्मुनिभिस्सिद्धैः ध्यानयोगपरायणैः । अर्चितं भावकुसुमैः विष्णुं ध्यायन्न सीदति ॥८॥

Verse

विष्ण्वष्टकमिदं पुण्यं योगिनां प्रीतिवर्धनम् । यः पठेत्परया प्रीत्या स गच्छेद्विष्णुसाम्यताम् ॥९॥

Verse

एतत् पुण्यं पापहरं धन्यं दुःस्वप्ननाशनम् । पठतां शृण्वतां चैव विष्णोर्माहात्म्यमुत्तमम् ॥१०॥

śrī rāghavendramaṅgalāṣṭakam
jambunāthāṣṭakam (śrīdharaveṅkaṭeśācāryakṛtam)

सा विद्या या विमुक्तये

Built with Sankalpa at Gyaandweep

Gyaandweep

© 2022-2026 Granthajyoti Pvt Ltd.

Privacy & Terms