Preparing Your Space .

Settling the page into your current context.

GyanDweepBeta
HomeLearnLibrary
eGurukulsDiscoverTemplesPanchanga
Sign Up
Sign Up

stotrasangraha

sūryāṣṭottaraśatanāmastotram

सूर्याष्टोत्तरशतनामस्तोत्रम्

Verse

सूर्योऽर्यमा भगस्त्वष्टा पूषाऽर्कः सविता रविः । गभस्तिमानजः कालो मृत्युर्धाता प्रभाकरः ॥१॥

Verse

पृथिव्यापश्च तेजश्च खं वायुश्च परायणम् । सोमो बृहस्पतिः शुक्रो बुधोऽङ्गारक एव च ॥२॥

Verse

इन्द्रो विवस्वान् दीप्तांशुः शुचिः शौरिः शनैश्चरः । ब्रह्मा विष्णुश्च रुद्रश्च स्कन्दो वै वरुणो यमः ॥३॥

Verse

वैद्युतो जाठरश्चाग्निरैन्धनस्तेजसां पतिः । धर्मध्वजो वेदकर्ता वेदाङ्गो वेदवाहनः ॥४॥

Verse

कृतं त्रेता द्वापरश्च कलिः सर्वमलाश्रयः । कलाकाष्ठामुहूर्तश्च क्षपा यामस्तथा क्षणः ॥५॥

Verse

संवत्सरकरोऽश्वत्थः कालचक्रो विभावसुः । पुरुषः शाश्वतो योगी व्यक्ताव्यक्तः सनातनः ॥६॥

Verse

कालाध्यक्षः प्रजाध्यक्षो विश्वकर्मा तमोनुदः । वरुणः सागरोंऽशुश्च जीमूतो जीवनोऽरिहा ॥७॥

Verse

भूताश्रयो भूतपतिः सर्वलोकनमस्कृतः । स्रष्टा संवर्तको वह्निः सर्वस्यादिरलोलुपः ॥८॥

Verse

अनन्तः कपिलो भानुः कामदः सर्वतोमुखः । जयो विशालो वरदः सर्वभूतनिषेवितः ॥९॥

Verse

मनः सुपर्णो भूतादिः शीघ्रगः प्राणधारकः । धन्वतरिर्धूमकेतुरादिदेवोऽदितेः सुतः ॥१०॥

Verse

द्वादशात्माऽरविन्दाक्षः पिता माता पितामहः । स्वर्गद्वारं प्रजाद्वारं मोक्षद्वारं त्रिविष्टपम् ॥११॥

Verse

देहकर्ता प्रशान्तात्मा विश्वात्मा विश्वतोमुखः । चराचरात्मा सूक्ष्मात्मा मैत्रेयः करुणान्वितः ॥१२॥

Verse

एतद् वै कीर्तनीयस्य सूर्यस्यामिततेजसः । नामाष्टशतकं चेदं प्रोक्तमेतत् स्वयम्भुवा ॥१३॥

Verse

सुरगणपितृयक्षसेवितं ह्यसुरनिशाचरसिद्धवन्दितम् । वरकनकहुताशनप्रभं प्रणिपतितोऽस्मि हिताय भास्करम् ॥१४॥

Verse

सूर्योदये यः सुसमाहितः पठेत् स पुत्रदारान् धनरत्नसञ्चयान् । लभेत जातिस्मरतां नरः सदा धृतिं च मेधां च स विन्दते पुमान् ॥१५॥

Verse

इमं स्तवं देववरस्य यो नरः प्रकीर्तयेच्छुद्धमनाः समाहितः । विमुच्यते शोकदवाग्निसागरात् लभेत कामान् मनसा यथेप्सितान् ॥१६॥

Verse

॥इति श्रीमन्महाभारते वनपर्वणि धौम्ययुधिष्ठिरसंवादे श्री-सूर्याष्टोत्तरशतनामस्तोत्रं सम्पूर्णम्॥

ādityāṣṭottaraśatanāmastotram
vyāsāṣṭottaraśatanāmastotram

Read next

More on सूर्याष्टोत्तरशतनामस्तोत्रम्

  • श्रीसूर्याष्टोत्तरशतनामस्तोत्रम्Ashtottaranama
  • श्रीसूर्याष्टोत्तरशतनामस्तोत्रम्Ashtottaranama
  • नरसिंहपुराणे सूर्याष्टोत्तरशतनामस्तोत्रं विश्वकर्मकृतAshtottaranama
  • शक्रप्रोक्तं सूर्याष्टोत्तरशतनामस्तोत्रम्Ashtottaranama

सा विद्या या विमुक्तये

Built with Sankalpa at Gyaandweep

Gyaandweep

© 2022-2026 Granthajyoti Pvt Ltd.

Privacy & Terms