stotrasangraha
vyāsāṣṭottaraśatanāmastotram
व्यासाष्टोत्तरशतनामस्तोत्रम्
Verse
नारायणकुलोद्भूतो नारायणपरो वरः । नारायणावतारश्च नारायणवशंवदः ॥१॥
Verse
स्वयम्भूवंशसम्भूतो वसिष्ठकुलदीपकः । शक्तिपौत्रः पापहन्ता पराशरसुतोऽमलः ॥२॥
Verse
द्वैपायनो मातृभक्तः शिष्टः सत्यवतीसुतः । स्वयमुद्भूतवेदश्च चतुर्वेदविभागकृत् ॥३॥
Verse
महाभारतकर्ता च ब्रह्मसूत्रप्रजापतिः । अष्टादशपुराणानां कर्ता श्यामः प्रशिष्यकः ॥४॥
Verse
शुकतातः पिङ्गजटः प्रांशुर्दण्डी मृगाजिनः । वश्यवाग् ज्ञानदाता च शङ्करायुःप्रदः शुचिः ॥५॥
Verse
मातृवाक्यकरो धर्मी कर्मी तत्त्वार्थदर्शकः । सञ्जयज्ञानदाता च प्रतिस्मृत्युपदेशकः ॥६॥
Verse
सर्वधर्मोपदेष्टा च मृतदर्शनपण्डितः । विचक्षणः प्रहृष्टात्मा पर्वपूज्यः प्रभुर्मुनिः ॥७॥
Verse
वीरो विश्रुतविज्ञानः प्राज्ञश्चाज्ञाननाशनः । ब्राह्मकृत् पाद्मकृद् धीरो विष्णुकृच्छिवकृत् तथा ॥८॥
Verse
श्रीभागवतकर्ता च भविष्यरचनादरः । नारदाख्यस्य कर्ता च मार्कण्डेयकरोऽग्निकृत् ॥९॥
Verse
ब्रह्मवैवर्तकर्ता च लिङ्गकृच्च वराहकृत् । स्कान्दकर्ता वामनकृत् कूर्मकर्ता च मत्स्यकृत् ॥१०॥
Verse
गरुडाख्यस्य कर्ता च ब्रह्माण्डाख्यपुराणकृत् । उपपुराणानां कर्ता पुराणः पुरुषोत्तमः ॥११॥
Verse
काशिवासी ब्रह्मनिधिर्गीतादाता महामतिः । सर्वज्ञः सर्वसिद्धिश्च सर्वशास्त्रप्रवर्तकः ॥१२॥
Verse
सर्वाश्रयः सर्वहितः सर्वः सर्वगुणाश्रयः । विशुद्धः शुद्धिकृद् दक्षो विष्णुभक्तः शिवार्चकः ॥१३॥
Verse
देवीभक्तः स्कन्दरुचिर्गणेशादृच्च योगवित् । पैलाचार्य ऋचः कर्ता शाकल्यार्यश्च याजुषः ॥१४॥
Verse
जैमिन्यार्यः सामकर्ता सुमन्त्वार्योऽप्यथर्वकृत् । रोमहर्षणसूतार्यो लोकाचार्यो महामुनिः ॥१५॥
Verse
व्यासकाशीरतिर्विश्वपूज्यो विश्वेशपूजकः । शान्तः शान्ताकृतिः शान्तचित्तः शान्तिप्रदस्तथा ॥१६॥
Verse
॥इति व्यासाष्टोत्तरशतनामस्तोत्रं सम्पूर्णम्॥
