Preparing Your Space .

Settling the page into your current context.

GyanDweepBeta
HomeLearnLibrary
eGurukulsDiscoverTemplesPanchanga
Sign Up
Sign Up

stotrasangraha

ādityāṣṭottaraśatanāmastotram

आदित्याष्टोत्तरशतनामस्तोत्रम्

Verse

नवग्रहाणां सर्वेषां सूर्यादीनां पृथक् पृथक् । पीडा च दुःसहा राजन् जायते सततं नृणाम् ॥१॥

Verse

पीडानाशाय राजेन्द्र नामानि शृणु भास्वतः । सूर्यादीनां च सर्वेषां पीडा नश्यति शृण्वतः ॥२॥

Verse

आदित्यः सविता सूर्यः पूषाऽर्कः शीघ्रगो रविः । भगस्त्वष्टाऽर्यमा हंसो हेलिस्तेजोनिधिर्हरिः ॥३॥

Verse

दिननाथो दिनकरः सप्तसप्तिः प्रभाकरः । विभावसुर्वेदकर्ता वेदाङ्गो वेदवाहनः ॥४॥

Verse

हरिदश्वः कालवक्त्रः कर्मसाक्षी जगत्पतिः । पद्मिनीबोधको भानुर्भास्करः करुणाकरः ॥५॥

Verse

द्वादशात्मा विश्वकर्मा लोहिताङ्गस्तमोनुदः । जगन्नाथोऽरविन्दाक्षः कालात्मा कश्यपात्मजः ॥६॥

Verse

भूताश्रयो ग्रहपतिः सर्वलोकनमस्कृतः । जपाकुसुमसङ्काशो भास्वानदितिनन्दनः ॥७॥

Verse

ध्वान्तेभसिंहः सर्वात्मा लोकनेत्रो विकर्तनः । मार्तण्डो मिहिरः सूरस्तपनो लोकतापनः ॥८॥

Verse

जगत्कर्ता जगत्साक्षी शनैश्चरपिता जयः । सहस्ररश्मिस्तरणिर्भगवान् भक्तवत्सलः ॥९॥

Verse

विवस्वानादिदेवश्च देवदेवो दिवाकरः । धन्वन्तरिर्व्याधिहर्ता दद्रुकुष्ठविनाशनः ॥१०॥

Verse

चराचरात्मा मैत्रेयोऽमितो विष्णुर्विकर्तनः । लोकशोकापहर्ता च कमलाकर आत्मभूः ॥११॥

Verse

नारायणो महादेवो रुद्रः पुरुष ईश्वरः । जीवात्मा परमात्मा च सूक्ष्मात्मा सर्वतोमुखः ॥१२॥

Verse

इन्द्रोऽनलो यमश्चैव नैरृतो वरुणोऽनिलः । श्रीद ईशान इन्दुश्च भौमः सौम्यो गुरुः कविः ॥१३॥

Verse

सौरिर्विधुन्तुदः केतुः कालः कालात्मको विभुः । सर्वदेवमयो देवः कृष्णः कामप्रदायकः ॥१४॥

Verse

य एतैर्नामभिर्मर्त्यो भक्त्या स्तौति दिवाकरम् । सर्वपापविनिर्मुक्तः सर्वरोगविवर्जितः ॥१५॥

Verse

पुत्रवान् धनवाञ्छ्रीमान् जायते स न संशयः । रविवारे पठेद् यस्तु नामान्येतानि भास्वतः ॥१६॥

Verse

पीडाशान्तिर्भवेत्तस्य ग्रहाणां च विशेषतः । सद्यः सुखमवाप्नोति चाऽऽयुर्दीर्घं च नीरुजम् ॥१७॥

Verse

॥इति श्री-भविष्यपुराणे आदित्य अष्टोत्तरशतनामस्तोत्रं सम्पूर्णम्॥

hariharaputrāṣṭottaraśatanāmastotram
sūryāṣṭottaraśatanāmastotram

सा विद्या या विमुक्तये

Built with Sankalpa at Gyaandweep

Gyaandweep

© 2022-2026 Granthajyoti Pvt Ltd.

Privacy & Terms